शिवस्तुतिः
(श्री मल्लिकुचिसूरिसूनु नारयण पण्डिताचार्य विरचिता)

Shiva Stutih
(Shri Mallikuchisoorisoonu Narayana Panditaachaarya Virachita)


शिवस्तुतिः ।
(श्री मल्लिकुचिसूरिसूनु नारयण पण्डिताचार्य विरचिता)

स्फुटं स्फटिकसप्रभं स्फुटितहारकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् । 
तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत्कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥१॥

त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् । 
स्वभक्तिलतया वशीकृतवती सतीयं सती स्वभक्तवशतो भवानपि  वशी प्रसीद प्रभो ॥२॥ 

महेश  महितोऽसि तत्पुरुषपूरुषाग्र्यो भवानघोररिपुघोर तेऽनवम वामदेवाञ्जलिः । 
नमः सपदिजात ते त्वमिति पञ्चरूपोचितप्रपञ्चचयपञ्चवृन्मम मनस्तमस्ताडय  ॥३॥ 

रसाघनरसानलानिलवियद्विवस्वद्विधुप्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । 
प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणभूषितेऽहमहमात्ममोहम्भिदे ॥४॥ 

विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः । 
कथञ्चिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥५॥ 

कठोरितकुठारया ललितशूलया वाहया रणड्डमरुणा स्फुद्धरिणया सखट्वाङ्गया । 
चलाभिरचलाभिरप्यगणिताभिरुन्नत्यतश्चतुर्दश जगन्ति ते जय जयेत्ययुर्विस्मयम् ॥६॥ 

पुरा त्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरंपरा अपि परा न ते विस्मयः । 
अमर्षिबलहर्षितक्षुभितवृत्तनेत्रोज्ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥७॥ 

सहस्रनयनो गुहः सहसहस्ररश्मिर्विधुर्बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः ।
भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थितां भवान् सुरतरुर्भृशं शिव शिव शिवावल्लभ ॥८॥ 

तव प्रियतमादतिप्रियतम सदैवान्तरं पयस्युपहितं घृतं स्वयमिव श्रियो वल्लभम् । 
विबुध्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥९॥ 

निवासनिलया चिता तव शिरस्ततेर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् । 
तथापि भवतः पदं शिवशिवेत्यदो जल्पतामकिञ्चन न किञ्चन वृजिनमस्ति भस्मीभवेत् ॥१०॥ 

त्वमेव किल कामधुक् सकलकाममापूरयन् सदा त्रिनयनो भवान् वहति चार्चि नेत्रोद्भवम् । 
विषं विषधरान्दधत्पिबसि तेन चानन्दवान्विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥११॥ 

नमः शिवशिवाशिवाशिवार्थकॄन्ताशिवं  नमो हरहराहराहर हरान्तरीं मे द्रुशम् । 
नमो भव भवाभवप्रभवभूतये मे  भवान्नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥१२॥ 

सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणङ्कुरात्प्रतिकृतात्सदा सोचिता । 
इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवं लिकुचिसूरिसूनुः सुधीः ॥१३॥ 

इति श्रीमल्लिकुचिसूरिसूनुनारयणपण्डिताचार्यविरचिता शिवस्तुतिः संपूर्णा॥

Back to Sanskrit Page
Back to Hindu Scriptures and Stotras Main Page
Back to Shaivam Home Page