शिवमहिम्नः स्तोत्रम्

Shiva Mahimna Stotram


शिवमहिम्नः स्तोत्रम् ।

पुष्पदन्त उवाच ॥ 

महिम्नः पारं ते परमविदुषो यद्यसद्रुशी 
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथा वाच्यः सर्वः स्वमतिपरिणामावधि गृणन् 
ममाप्येष स्तोत्रम् हर निरपवादः परिकरः ॥ १॥ 

अतीतः पन्थानं तव च महिमा वाङ्मनसयो-
रतद्व्यावृत्या यं चकितमभिधत्ते श्रुतिरपि । 
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः 
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥

मधुस्फीता वाचः परममृतं निर्मितवत-
स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् । 
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः 
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३॥ 

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रळयकृत् 
त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु । 
अभव्यानामस्मिन्वरद रमणीयामरमणीं 
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥४॥ 

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं 
किमाधारो धाता सृजति किमुपादान इति च । 
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः 
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥५॥

अजन्मानो लोकाः किमवयववन्तोऽपि जगता-
मधिष्ठातारं किं भवविधिरनाद्रुत्य भवति । 
अनीशो वा कुर्याद् भुवनजनने कः परिकरो 
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥ 

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति 
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । 
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां 
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥७॥ 

महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः 
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् । 
सुरास्तां तामृद्धिं दधति तु भवद्भॄप्रणिहितां 
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥८॥ 

ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं 
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये । 
समस्तेऽप्येतस्मिन्   पुरमथन तैर्विस्मित इव 
स्तुवन् ञ्जिह्रेमि त्वां न खलु ननु  धृष्टा मुखरता ॥ ९॥ 

तवैश्वर्यं यत्नाद्यदुपरि विरिन्चिर्हरिरधः 
परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः । 
ततो भक्तिश्रद्धाभरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥१०॥ 

अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं 
दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् । 
शिरः पद्मश्रेणीरचितचरणांभोरुहबलेः 
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥११॥

अमुष्य त्वत्सेवासमधिगतसारं भुजवनं 
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पाताळेऽप्यलसचलिताङ्गुष्ठशिरसि 
प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥१२॥ 

यद्रुद्धिं सुत्राम्णो वरद परमोच्चैरपि सती-
मधश्चक्रे बाणः परिजनविधेयत्रिभुवनः । 
न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयो
र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥१३॥ 

अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा-
विधेयस्याऽसीद्यस्त्रिनयनविषं संहृतवतः । 
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो 
विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥१४॥ 

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे 
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । 
स पश्यन्नीश त्वामितरसुरसाधारणमभूत् 
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥१५॥ 

मही पादाघातात् व्रजति सहसा संशयपदं 
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् । 
मुहुर्द्यौर्दौःस्थ्यं यात्यनिभृतजटा ताडिततटा 
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥१६॥ 

वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः 
प्रवाहो वारां यः पृषतलघुद्रुष्टः शिरसि ते । 
जगद् द्वीपाकारं  जलधिवलयं तेन कृतमि-
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥१७॥ 

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो 
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति । 
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि-
र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥१८॥ 

हरिस्ते साहस्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् । 
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा 
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥१९॥ 

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां 
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । 
अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं 
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः* कर्मसु जनः ॥२०॥ 

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-
मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः । 
क्रतुभ्रेषस्त्वत्तः क्रतुफलविधानव्यसनिनो 
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥ 

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं 
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा । 
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं 
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥२२॥ 

स्वलावण्याशंसा धृतधनुषमह्नाय तृणव-
त्पुरः प्लुष्टं द्रुष्ट्वा पुरमथन पुष्पायुधमपि । 
यदि स्तैणं देवी यमनिरत देहार्धघटना-
दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥२३॥ 

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा-
श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः । 
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं 
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥२४॥ 

मनः प्रत्यक्व्चित्ते सविधमवधायात्तमरुतः 
प्रहृष्य़द्रोमाणः प्रमदसलिलोत्सङ्गितद्रुशः । 
यदालोक्याह्लादं ह्रुद इव निमज्यामृतमये 
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥२५॥ 

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । 
परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं 
न विद्मस्तत्तत्वं वयमिह तु यत्त्वं न भवसि ॥२६॥ 

त्रयीं त्रिस्त्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा-
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति । 
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः 
समस्तं व्यस्तं त्वं शरणद गृणात्योमिति पदम् ॥२७॥ 

भवः शर्वो रुद्रः पशुपतिरथोग्रः सह महां-
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् । 
अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि 
प्रियायास्मै धाम्ने प्रविहित नमस्योऽस्मि भवते ॥२८॥ 

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो 
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । 
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो 
नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः ॥२९॥ 

बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः 
प्रबलतमसे तत्संहारे हराय नमो नमः । 
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः 
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥३०॥ 

कृशपरिणति चेतः क्लेशवश्यं क्व चेदं 
क्व च तव गुणसीमोल्लङ्घिनी शश्वद्रुद्धिः । 
इति चकितममन्दीकृत्य मां भक्तिराधा-
द्वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ ३१॥ 

असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे 
सुरतरुवरशाखा लेखनी पत्रमुर्वी । 
लिखति यदि गृहीत्वा शारदा सर्वकालं 
तदपि तव गुणानामीश पारं न याति ॥३२॥ 

असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले-
र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य । 
सकलगणवरिष्ठः पुष्पदन्ताभिधानो 
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥३३॥ 

अहरहरनवद्यं धूर्जटेः स्तोत्र मेत-
त्पठति परमभक्त्या शुद्धचित्तः पुमान्यः । 
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र 
प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥३४॥ 

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । 
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥३५॥ 

दीक्षादानं तपस्तीर्थम् ज्ञानं यागादिकाः क्रियाः । 
महिम्नः स्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥३६॥ 

कुसुमदशननामा सर्वगन्धर्वराजः 
शिशुशशिधरमौलेर्देवदेवस्य दासः । 
स गुरु** निजमहिम्नो भ्रष्ट एवास्य रोषा-
त्स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥३७॥ 

सुरवर मुनिपूज्यं स्वर्गमोक्षैकहेतुं 
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः । 
व्रजति शिवसमीपं किन्नरैः स्तूयमानः 
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥३८॥  

आसमाप्तमिदं स्तोत्रम् पुण्यं गन्धर्वभाषितम् ।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम्  ॥३९॥

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः । 
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥४०॥ 

तव तत्वं न जानामि कीद्रुशोऽसि महेश्वर ।
याद्रुशोऽसि महादेव ताद्रुशाय नमो नमः  ।४१।

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तः शिवलोकॆ महीयतॆ  ।४२।

श्री पुष्पदन्तमुखपङ्कजनिर्गतेन 
स्तोत्रेण किल्बिषहरेण हरप्रियेण । 
कण्ठस्थितेन पठितेन समाहितेन 
सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३॥ 

इति श्रीपुष्पदन्तविरचितं  शिवमहिम्नः स्तोत्रं सम्पूर्णम् ॥
------------------------------------------
पाठभेदम् *कृतपरिकरः **कलु

Back to Sanskrit Page
Back to Hindu Scriptures and Stotras Main Page
Back to Shaivam Home Page