shiva upaniShad

शिव उपनिषद

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections
  • This stotra is also available in devanAgari PDF
    
    shiva upaniShad
    शिव उपनिषद
    
    कैलासशिखरासीनमशेषामरपूजितम ।
    कालघ्नं श्रीमहाकालमीश्वरं ज्ञानपारगम ॥ १-१॥
    
    संपूज्य विधिवद्भक्त्या ऋष्यात्रेयः सुसंयतः ।
    सर्वभूतहितार्थाय पप्रच्छेदं महामुनिः ॥ १-२॥
    
    ज्ञानयोगं न विन्दन्ति ये नरा मन्दबुद्धयः ।
    ते मुच्यन्ते कथं घोराद्भगवन्भवसागरात ॥ १-३॥
    
    एवं पृष्टः प्रसन्नात्मा ऋष्यात्रेयेण धीमता ।
    मन्दबुद्धिविमुक्त्यर्थं महाकालः प्रभाषते ॥ १-४॥
    
    महादेव उवाच
    पुरा रुद्रेण गदिताः शिवधर्माः सनातनाः ।
    देव्याः सर्वगणानां च संक्षेपाद्ग्रन्थकोटिभिः ॥ १-५॥
    
    आयुः प्रज्ञां तथा शक्तिं प्रसमीक्ष्य न‍ईणामिह ।
    तापत्रयप्रपीडां च भोगतृष्णाविमोहिनीम ॥ १-६॥
    
    ते धर्माः स्कन्दनन्दिभ्यामन्यैश्च मुनिसत्तमैः ।
    सारमादाय निर्दिष्टाः सम्यक्प्रकरणान्तरैः ॥ १-७॥
    
    सारादपि महासारं शिवोपनिषदं परम ।
    अल्पग्रन्थं महार्थं च प्रवक्ष्यामि जगद्धितम ॥ १-८॥
    
    शिवः शिव इमे शान्त- नाम चाद्यं मुहुर्मुहुः ।
    उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः ॥ १-९॥
    
    अशिवाः पाशसंयुक्ताः पशवः सर्वचेतनाः ।
    यस्माद्विलक्षणास्तेभ्यस्तस्मादीशः शिवः स्मृतः ॥ १-१०॥
    
    गुणो बुद्धिरहंकारस्तन्मात्राणीन्द्रियानि च ।
    भूतानि च चतुर्विंशदिति पाशाः प्रकीर्तिताः ॥ १-११॥
    
    पञ्चविंशकमज्ञानं सहजं सर्वदेहिनाम ।
    पाशाजालस्य तन्मूलं प्रकृतिः कारणाय नः ॥ १-१२॥
    
    सत्यज्ञाने निबध्यन्ते पुरुषाः पाशबन्धनैः ।
    मद्भावाच्च विमुच्यन्ते ज्ञानिनः पाशपञ्जरात ॥ १-१३॥
    
    षड्विंशकश्च पुरुषः पशुरज्ञः शिवागमे ।
    सप्तविंश इति प्रोक्तः शिवः सर्वजगत्पतिः ॥ १-१४॥
    
    यस्माच्छिवः सुसंपूर्णः सर्वज्ञः सर्वगः प्रभुः ।
    तस्मात्स पाशहरितः स विशुद्धः स्वभावतः ॥ १-१५॥
    
    पशुपाशपरः शान्तः परमज्ञानदेशिकः ।
    शिवः शिवाय भूतानां तं विज्ञाय विमुच्यते ॥ १-१६॥
    
    एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम ।
    विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि ॥ १-१७॥
    
    सकृदुच्चारितं येन शिव इत्यक्षरद्वयम ।
    बद्धः परिकरस्तेन मोक्षोपगमनं प्रति ॥ १-१८॥
    
    द्व्यक्षरः शिवमन्त्रो .अयं शिवोपनिषदि स्मृतः ।
    एकाक्षरः पुनश्चायमोमित्येवं व्यवस्थितः ॥ १-१९॥
    
    नामसंकीर्तणादेव शिवस्याशेषपातकैः ।
    यतः प्रमुच्यते क्षिप्रं मन्त्रो .अयं द्व्यक्षरः परः ॥ १-२०॥
    
    यः शिवं शिवमित्येवं द्व्यक्षरं मन्त्रमभ्यसेत ।
    एकाक्षरं वा सततं स याति परमं पदम ॥ १-२१॥
    
    मित्रस्वजनबन्धूनां कुर्यान्नाम शिवात्मकम ।
    अपि तत्कीर्तनाद्याति पापमुक्तः शिवं पुरम ॥ १-२२॥
    
    विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः ।
    आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते ॥ १-२३॥
    
    हृद्यन्तःकरणं ज्ञेयं शिवस्य आयतनं परम ।
    हृत्पद्मं वेदिका तत्र लिङ्गमोंकारमिष्यते ॥ १-२४॥
    
    पुरुषः स्थापको ज्ञेयः सत्यं संमार्जनं स्मृतम ।
    अहिंसा गोमयं प्रोक्तं शान्तिश्च सलिलं परम ॥ १-२५॥
    
    कुर्यात्संमार्जनं प्राज्ञो वैराग्यं चन्दनं स्मृतम ।
    पूजयेद्ध्यानयोगेन संतोषैः कुसुमैः सितैः ॥ १-२६॥
    
    धूपश्च गुग्गुलुर्देयः प्राणायामसमुद्भवः ।
    प्रत्याहारश्च नैवेद्यमस्तेयं च प्रदक्षिणम ॥ १-२७॥
    
    इति दिव्योपचारैश्च संपूज्य परमं शिवम ।
    जपेद्ध्यायेच्च मुक्त्यर्थं सर्वसङ्गविवर्जितः ॥ १-२८॥
    
    ज्ञानयोगविनिर्मुक्तः कर्मयोगसमावृत्तः ।
    मृतः शिवपुरं गच्छेत्स तेन शिवकर्मणा ॥ १-२९॥
    
    तत्र भुक्त्वा महाभोगान्प्रलये सर्वदेहिनाम ।
    शिवधर्माच्छिवज्ञानं प्राप्य मुक्तिमवाप्नुयात ॥ १-३०॥
    
    ज्ञानयोगेन मुच्यन्ते देहपातादनन्तरम ।
    भोगान्भुक्त्वा च मुच्यन्ते प्रलये कर्मयोगिनः ॥ १-३१॥
    
    तस्माज्ज्ञानविदो योगात्तथाज्ञाः कर्मयोगिनः ।
    सर्व एव विमुच्यन्ते ये नराः शिवमाश्रिताः ॥ १-३२॥
    
    स भोगः शिवविद्यार्थं येषां कर्मास्ति निर्मलम ।
    ते भोगान्प्राप्य मुच्यन्ते प्रलये शिवविद्यया ॥ १-३३॥
    
    विद्या संकीर्तनीया हि येषां कर्म न विद्यते ।
    ते चावर्त्य विमुच्यन्ते यावत्कर्म न तद्भवेत ॥ १-३४॥
    
    शिवज्ञानविदं तस्मात्पूजयेद्विभवैर्गुरुम ।
    विद्यादानं च कुर्वीत भोगमोक्षजिगीषया ॥ १-३५॥
    
    शिवयोगी शिवज्ञानी शिवजापी तपो.अधिकः ।
    क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः ॥ १-३६॥
    
    कर्मयोगस्य यन्मूलं तद्वक्ष्यामि समासतः ।
    लिङ्गमायतनं चेति तत्र कर्म प्रवर्तते ॥ १-३७॥
    
     ॥ इति शिवोपनिषदि मुक्तिनिर्देशाध्यायः प्रथमः ॥
    
    
    अथ पूर्वस्थितो लिङ्गे गर्भः स त्रिगुणो भवेत ।
    गर्भाद्वापि विभागेन स्थाप्य लिङ्गं शिवालये ॥ २-१॥
    
    यावल्लिङ्गस्य दैर्घ्यं स्यात्तावद्वेद्याश्च विस्तरः ।
    लिङ्गतृतीयभागेन भवेद्वेद्याः समुच्छ्रयः ॥ २-२॥
    
    भागमेकं न्यसेद्भूमौ द्वितीयं वेदिमध्यतः ।
    तृतीयभागे पूजा स्वादिति लिङ्गं त्रिधा स्थितम ॥ २-३॥
    
    भूमिस्थं चतुरश्रं स्वादष्टाश्रं वेदिमध्यतः ।
    पूजार्थं वर्तुलं कार्यं दैर्घ्यात्त्रिगुणविस्तरम ॥ २-४॥
    
    अधोभागे स्थितः स्कन्दः स्थिता देवी च मध्यतः ।
    ऊर्ध्वं रुद्रः क्रमाद्वापि ब्रह्मविष्णुमहेश्वराः ॥ २-५॥
    
    एत एव त्रयो लोका एत एव त्रयो गुणाः ।
    एत एव त्रयो वेदा एतच्चान्यत्स्थितं त्रिधा ॥ २-६॥
    
    नवहस्तः स्मृतो ज्येष्ठः षड्ढस्तश्चापि मध्यमः ।
    विद्यात्कनीयस्त्रैहस्तं लिङ्गमानमिदं स्मृतम ॥ २-७॥
    
    गर्भस्यानतः प्रविस्तारस्तदूनश्च न शस्यते ।
    गर्भस्यानतः प्रविस्ताराद्तदुपर्यपि संस्थितम ॥ २-८॥
    
    प्रासादं कल्पयेच्छ्रीमान्विभजेत त्रिधा पुनः ।
    भाग एको भवेज्जङ्घा द्वौ भागौ मञ्जरी स्मृता ॥ २-९॥
    
    मञ्जर्या अर्धभागस्थं शुकनासं प्रकल्पयेत ।
    गर्भादर्धेन विस्तारमायामं च सुशोभनम ॥ २-१०॥
    
    गर्भाद्वापि त्रिभागेन शुकनासं प्रकल्पयेत ।
    गर्भादर्धेन विस्तीर्णा गर्भाच्च द्विगुणायता ॥ २-११॥
    
    जङ्घाभिश्च भवेत्कार्या मञ्जर्यङ्गुलराशिना ।
    प्रासादार्धेन विज्ञेयो मण्डपस्तस्य वामतः ॥ २-१२॥
    
    मण्डपात्पादविस्तीर्णा जगती तावदुच्छ्रिता ।
    प्रासादस्य प्रमाणेन जगत्या सार्धमङ्गणम ॥ २-१३॥
    
    प्राकारं तत्समन्ताच्च गुपुरादालभूषितम ।
    प्राकारान्तः स्थितं कार्यं वृषस्थानं समुच्छ्रितम ॥ २-१४॥
    
    नन्दीश्वरमहाकालौ द्वारशाखाव्यवस्थितौ ।
    प्राकाराद्दक्षिणे कार्यं सर्वोपकरणान्वितम ॥ २-१५॥
    
    पञ्चभौमं त्रिभौमं वा योगीन्द्रावसथं महत ।
    प्राकारगुप्तं तत्कार्यं मैत्रस्थानसमन्वितम ॥ २-१६॥
    
    स्थानाद्दशसमायुक्तं भव्यवृक्षजलान्वितम ।
    तन्महानसमाग्नेय्यां पूर्वतः सत्त्रमण्डपम ॥ २-१७॥
    
    स्थानं चण्डेशमैशान्यां पुष्पारामं तथोत्तरम ।
    कोष्ठागारं च वायव्यां वारुण्यां वरुणालयम ॥ २-१८॥
    
    शमीन्धनकुशस्थानमायुधानां च नैरृतम ।
    सर्वलोकोपकाराय नगरस्थं प्रकल्पयेत ॥ २-१९॥
    
    श्रीमदायतनं शम्भोर्योगिनां विजने वने ।
    शिवस्यायतने यावत्समेताः परमाणवः ॥ २-२०॥
    
    मन्वन्तराणि तावन्ति कर्तुर्भोगाः शिवे पुरे ।
    महाप्रतिमलिङ्गानि महान्त्यायतनानि च ॥ २-२१॥
    
    कृत्वाप्नोति महाभोगानन्ते मुक्तिं च शाश्वतीम ।
    लिङ्गप्रतिष्ठां कुर्वीत यदा तल्लक्षणं कृती ॥ २-२२॥
    
    पञ्चगव्येन संशोध्य पूजयित्वाधिवासयेत ।
    पालाशोदुम्बराश्वत्थ- पृषदाज्यतिलैर्यवैः ॥ २-२३॥
    
    अग्निकार्यं प्रकुर्वीत दद्यात्पूर्णाहुतित्रयम ।
    शिवस्याष्टशतं हुत्वा लिङ्गमूलं स्पृशेद्बुधः ॥ २-२४॥
    
    एवं मध्ये .अवसाने तन्मूर्तिमन्त्रैश्च मूर्तिषु ।
    अष्टौ मूर्तीश्वराः कार्याः नवमः स्थापकः स्मृतः ॥ २-२५॥
    
    प्रातः संस्थापयेल्लिङ्गं मन्त्रैस्तु नवभिः क्रमात ।
    महास्नापनपूजां च स्थाप्य लिङ्गं प्रपूजयेत ॥ २-२६॥
    
    गुरोर्मूर्तिधराणां च दद्यादुत्तमदक्षिणाम ।
    यतीनां च समस्तानां दद्यान्मध्यमदक्षिणाम ॥ २-२७॥
    
    दीनान्धकृपणेभ्यश्च सर्वासामुपकल्पयेत ।
    सर्वभक्ष्यान्नपानाद्यैरनिषिद्धं च भोजनम ॥ २-२८॥
    
    कल्पयेदागतानां च भूतेभ्यश्च बलिं हरेत ।
    रात्रौ मातृगणानां च बलिं दद्याद्विशेषतः ॥ २-२९॥
    
    एवं यः स्थापयेल्लिङ्गं तस्य पुण्यफलं शृणु ।
    कुलत्रिंशकमुद्धृत्य भृत्यैश्च परिवारितः ॥ २-३०॥
    कलत्रपुत्रमित्राद्यैः सहितः सर्वबान्धवैः ।
    विमुच्य पापकलिलं शिवलोकं व्रजेन्नरः ।
    तत्र भुक्त्वा महाभोगान्प्रलये मुक्तिमाप्नुयात ॥ २-३१॥
    
     ॥ इति शिवोपनिषदि लिङ्गायतनाध्यायो द्वितीयः ॥
    
    
    अथान्यैरल्पवित्तैश्च नृपैश्च शिवभावितैः ।
    शक्तितः स्वाश्रमे कार्यं शिवशान्तिगृहद्वयम ॥ ३-१॥
    
    गृहस्येशानदिग्भागे कार्यमुत्तरतो .अपि वा ।
    खात्वा भूमिं समुद्धृत्य शल्यानाकोट्य यत्नतः ॥ ३-२॥
    
    शिवदेवगृहं कार्यमष्टहस्तप्रमाणतः ।
    दक्षिणोत्तरदिग्भागे किंचिच्दीर्घं प्रकल्पयेत ॥ ३-३॥
    
    हस्तमात्रप्रमाणं च दृढपट्टचतुष्टयम ।
    चतुष्कोणेषु संयोज्यमर्घ्यपात्रादिसंश्रयम ॥ ३-४॥
    
    गर्भमध्ये प्रकुर्वीत शिववेदिं सुशोभनाम ।
    उदगर्वाक्च्छ्रितां  किंचिच्चतुःशीर्षकसंयुताम ॥ ३-५॥
    
    त्रिहस्तायामविस्ताराम्षोडशाङ्गुलमुच्छ्रिताम ।
    तच्छीर्षाणीव हस्तार्धमायामाद्विस्तरेण च ॥ ३-६॥
    
    शिवस्थण्डिलमित्येतच्चतुर्हस्तं समं शिरः ।
    मूर्तिनैवेद्यदीपानां विन्यासार्थं प्रकल्पयेत ॥ ३-७॥
    
    शैवलिङ्गेन कार्यं स्यात्कार्यं मणिजपार्थिवैः ।
    स्थण्डिलार्धे च कुर्वन्ति वेदिमन्यां सवर्तुलाम ॥ ३-८॥
    
    षोडशाङ्गुलमुत्सेधां विस्तीर्णां द्विगुणेन च ।
    गृहे न स्थापयेच्छैलं लिङ्गं मणिजमर्चयेत ॥ ३-९॥
    
    त्रिसंध्यं पार्थिवं वापि कुर्यादन्यद्दिनेदिने ।
    सर्वेषामेव वर्णानां स्फाटिकं सर्वकामदम ॥ ३-१०॥
    
    सर्वदोषविनिर्मुक्तमन्यथा दोषमावहेत ।
    आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी ॥ ३-११॥
    
    वरमिष्टं च लभते लिङ्गं पार्थिवमर्चयन ।
    तस्माद्धि पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम ॥ ३-१२॥
    
    निर्दोषं सुलभं चैव पूजयेत्सततं बुधः ।
    यथा यथा महालिङ्गं पूजा श्रद्धा यथा यथा ॥ ३-१३॥
    
    तथा तथा महत्पुण्यं विज्ञेयमनुरूपतः ।
    प्रतिमालिङ्गवेदीषु यावन्तः परमाणवः ।
    तावत्कल्पान्महाभोगस्तत्कर्तास्ते शिवे पुरे ॥ ३-१४॥
    
     ॥ इति शिवोपनिषदि शिवगृहाध्यायस्तृतीयः ॥
    
    
    अथैकभिन्नाविच्छिन्नं पुरतः शान्तिमण्डपम ।
    पूर्वापराष्टहस्तं स्याद्द्वादशोत्तरदक्षिणे ॥ ४-१॥
    
    तद्द्वारभित्तिसंबद्धं कपिच्छुकसमावृतम ।
    पटद्वयं भवेत्स्थाप्य स्रुवाद्यावारहेतुना ॥ ४-२॥
    
    द्वारं त्रिशाखं विज्ञेयं नवत्यङ्गुलमुच्छ्रितम ।
    तदर्धेन च विस्तीर्णं सत्कवाटं शिवालये ॥ ४-३॥
    
    दीर्घं पञ्चनवत्या च पञ्चशाखासुशोभितम ।
    सत्कवाटद्वयोपेतं श्रीमद्वाहनमण्टपम ॥ ४-४॥
    
    द्वारं पश्चान्मुखं ज्ञेयमशेषार्थप्रसाधकम ।
    अभावे प्राङ्मुखं कार्यमुदग्दक्षिणतो न च ॥ ४-५॥
    
    गवाक्षकद्वयं कार्यमपिधानं सुशोभनम ।
    धूमनिर्गमनार्थाय दक्षिणोत्तरकुड्ययोः ॥ ४-६॥
    
    आग्नेयभागात्परितः कार्या जालगवाक्षकाः ।
    ऊर्ध्वस्तूपिकया युक्ता ईषच्छिद्रपिधानया ॥ ४-७॥
    
    शिवाग्निहोत्रकुण्डं च वृत्तं हस्तप्रमाणतः ।
    चतुरश्रवेदि॑॑(का)॑॑ श्रीमन्मेखलात्रयभूषितम ॥ ४-८॥
    
    कुड्यं द्विहस्तविस्तीऋणं पञ्चहस्तसमुच्छ्रितम ।
    शिवाग्निहोत्रशरणं कर्तव्यमतिशोभनम ॥ ४-९॥
    
    जगतीस्तम्भपट्टाद्यं सप्तसंख्यं च कल्पयेत ।
    बन्धयोगविनिर्मुक्तं तुल्यस्थानपदान्तरम ॥ ४-१०॥
    
    ऐष्टकं कल्पयेद्यत्नाच्छिवाग्न्यायतनं महत ।
    चतुःप्रेगीवकोपेतम  एकप्रेगीवकेन वा  ॥ ४-११॥
    
    सुधाप्रलिप्तं कर्तव्यं पञ्चाण्डकबिभूषितम ।
    शिवाग्निहोत्रशरणं चतुरण्डकसंयुतम ॥ ४-१२॥
    
    बहिस्तदेव जगती त्रिहस्ता वा सुकुट्टिमा ।
    तावदेव च विस्तीर्णा मेखलादिविभूषिता ॥ ४-१३॥
    
    कर्तव्या चात्र जगती तस्याश्चाधः समन्ततः ।
    द्विहस्तमात्रविस्तीर्णा तदर्धार्धसमुच्छ्रिता ॥ ४-१४॥
    
    अन्या वृत्ता प्रकर्तव्या रुद्रवेदी सुशोभना ।
    दशहस्तप्रमाणा च चतुरङ्गुलमुच्छ्रिता ॥ ४-१५॥
    
    रुद्रमातृगणानां च दिक्पतीनां च सर्वदा ।
    सर्वाग्रपाकसंयुक्तं तासु नित्यबलिं हरेत ॥ ४-१६॥
    
    वेद्यन्या सर्वभूतानां बहिः कार्या द्विहस्तिका ।
    वृषस्थानं च कर्तव्यं शिवालोकनसंमुखम ॥ ४-१७॥
    
    अग्रार्षसवितुर्व्योम वृषः कार्यश्च पश्चिमे ।
    व्योम्नश्चाधस्त्रिगर्भं स्यात्पितृतर्पणवेदिका ॥ ४-१८॥
    
    प्राकारान्तर्बहिः कार्यं श्रीमद्गोपुरभूषितम ।
    पुष्पारामजलोपेतं प्राकारान्तं च कारयेत ॥ ४-१९॥
    
    मृद्दारुजं तृणच्छन्नं प्रकुर्वीत शिवालयम ।
    भूमिकाद्वयविन्यासादुत्क्षिप्तं कल्पयेद्बुधः ॥ ४-२०॥
    
    शिवदक्षिणतः कार्यं तभुक्तेर्योग्यमालयम ।
    शय्यासनसमायुक्तं वास्तुविद्याविनिर्मितम ॥ ४-२१॥
    
    ध्वजसिंहौ वृषगजौ चत्वारः शोभनाः स्मृताः ।
    धूमश्वगर्दभध्वाङ्क्षाश्चत्वारश्चार्थनाशकाः ॥ ४-२२॥
    
    गृहस्यायामविस्तारं कृत्वा त्रिगुणमादितः ।
    अष्टभिः शोधयेदापैः शेषश्च गृहमादिशेत ॥ ४-२३॥
    
    इति शान्तिगृहं कृत्वा रुद्राग्निं यः प्रवर्तयेत ।
    अप्येकं दिवसं भक्त्या तस्य पुण्यफलं शृणु ॥ ४-२४॥
    
    कलत्रपुत्रमित्राद्यैः स भृत्यैः परिवारितः ।
    कुलैकविंशदुत्तार्य देवलोकमवाप्नुयात ॥ ४-२५॥
    
    नीलोत्पलदलश्यामाः पीनवृत्तपयोधराः ।
    हेमवर्णाः स्त्रियश्चान्याः सुन्दर्यः प्रियदर्शनाः ॥ ४-२६॥
    
    ताभिः सार्धं महाभोगैर्विमानैः सार्वकामिकैः ।
    इच्छया क्रीडते तावद्यावदाभूतसंप्लवम ॥ ४-२७॥
    
    ततः कल्पाग्निना सार्धं दह्यमानं सुविह्वलम ।
    दृष्ट्वा विरज्यते भूयो भवभोगमहार्णवात ॥ ४-२८॥
    
    ततः संपृच्छते रुद्रांस्तत्रस्थान्ज्ञानपारगान ।
    तेभ्यः प्राप्य शिवज्ञानं शान्तं निर्वाणमाप्नुयात ॥ ४-२९॥
    
    अविरक्तश्च भोगेभ्यः सप्त जन्मानि जायते ।
    पृथिव्यधिपतिः श्रीमानिच्छया वा द्विजोत्तमः ॥ ४-३०॥
    
    सप्तमाज्जन्मनश्चान्ते शिवज्ञानमनाप्नुयात ।
    ज्ञानाद्विरक्तः संसाराच्छुद्धः खान्यधितिष्ठति ॥ ४-३१॥
    
    इत्येतदखिलं कार्यं फलमुक्तं समासतः ।
    उत्सवे च पुनर्ब्रूमः प्रत्येकं द्रव्यजं फलम ॥ ४-३२॥
    
    सद्गन्धगुटिकामेकां लाक्षां प्राण्यङ्गवर्जिताम ।
    कर्पासास्थिप्रमाणं च हुत्वाग्नौ शृणुयात्फलम ॥ ४-३३॥
    
    यावत्सत्गन्धगुटिका शिवाग्नौ संख्यया हुता ।
    तावत्कोट्यस्तु वर्षाणि भोगान्भुङ्क्ते शिवे पुरे ॥ ४-३४॥
    
    एकाङ्गुलप्रमाणेन हुत्वाग्नौ चन्दनाहुतिम ।
    वर्षकोटिद्वयं भोगैर्दिव्यैः शिवपुरे वसेत ॥ ४-३५॥
    
    यावत्केसरसंख्यानं कुसुमस्यानले हुतम ।
    तावद्युगसहस्राणि शिवलोके महीयते ॥ ४-३६॥
    
    नागकेसरपुष्पं तु कुङ्कुमार्धेन कीर्तितम ।
    यत्फलं चन्दनस्योक्तमुशीरस्य तदर्धकम ॥ ४-३७॥
    
    यत्पुष्पधूपभष्यान्न- दधिक्षीरघृतादिभिः ।
    पुण्यलिङ्गार्चने प्रोक्तं तद्धोमस्य दशाधिकम ॥ ४-३८॥
    
    हुत्वाग्नौ समिधस्तिस्रौ शिवोमास्कन्दनामभिः ।
    पश्चाद्दद्यात्तिलान्नानि होमयीत यथाक्रमम ॥ ४-३९॥
    
    पलाशाअङ्कुरजारिष्ट- पालाल्यः  समिधः शुभाः ।
    पृषदाज्यप्लुता हुत्वा शृणु यत्फलमाप्नुयात ॥ ४-४०॥
    
    पलाशाङ्कुरसंख्यानां यावदग्नौ हुतं भवेत ।
    तावत्कल्पान्महाभोगैः शिवलोके महीयते ॥ ४-४१॥
    
    तल्लक्ष्यमध्यसंभूतं हुत्वाग्नौ समिधः शुभाः ।
    कल्पार्धसंमितं कालं भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४२॥
    
    शमीसमित्फलं देयमब्दानपि च लक्षकम ।
    शम्यर्धफलवच्छेषाः समिधः क्षीरवृक्षजाः ॥ ४-४३॥
    
    तिलसंख्यांस्तिलान्हुत्वा ह्याज्याक्ता  यावती भवेत ।
    तावत्स वर्षलक्षांस्तु भोगान्भुङ्क्ते शिवे पुरे ॥ ४-४४॥
    
    यावत्सुरौषधीरज्ञस  तिलतुल्यफलं स्मृतम ।
    इतरेभ्यस्तिलेभ्यश्च कृष्णानां द्विगुणं फलम ॥ ४-४५॥
    
    लाजाक्षताः सगोधूमाः वर्षलक्षफलप्रदाः ।
    दशसाहस्रिका ज्ञेयाः शेषाः स्युर्बीजजातयः ॥ ४-४६॥
    
    पलाशेन्धनजे वह्नौ होमस्य द्विगुणं फलम ।
    क्षीरवृक्षसमृद्धे .अग्नौ फलं सार्धार्धिकं भवेत ॥ ४-४७॥
    
    असमिद्धे सधूमे च होमकर्म निरर्थकम ।
    अन्धश्च जायमानः स्याद्दारिद्र्योपहतस्तथा ॥ ४-४८॥
    
    न च कण्टकिभिर्वृक्षैरग्निं प्रज्वाल्य होमयेत ।
    शुष्कैर्नवैः प्रशस्तैश्च काष्ठैरग्निं समिन्धयेत ॥ ४-४९॥
    
    एवमाज्याहुतिं हुत्वा शिवलोकमवाप्नुयात ।
    तत्र कल्पशतं भोगान्भुङ्क्ते दिव्यान्यथेप्सितान ॥ ४-५०॥
    
    स्रुचैकाहितमात्रेण व्रतस्यापूरितेन च ।
    याहुतिर्दीयते वह्नौ सा पूर्णाहुतिरुच्यते ॥ ४-५१॥
    
    एकां पूर्णाहुतिं हुत्वा शिवेन शिवभावितः ।
    सर्वकाममवाप्नोति शिवलोके व्यवस्थितः ॥ ४-५२॥
    
    अशेषकुलजैर्सार्धं स भृत्यैः परिवारितः ।
    आभूतसंप्लवं यावद्भोगान्भुङ्क्ते यथेप्सितान ॥ ४-५३॥
    
    ततश्च प्रलये प्राप्ते संप्राप्य ज्ञानमुत्तमम ।
    प्रसादादीश्वरस्यैव मुच्यते भवसागरात ॥ ४-५४॥
    
    शिवपूर्णाहुतिं वह्नौ पतन्तीं यः प्रपश्यति ।
    सो .अपि पापरि नरः सर्वैर्मुक्तः शिवपुरं व्रजेत ॥ ४-५५॥
    
    शिवाग्निधूमसंस्पृष्टा जीवाः सर्वे चराचराः ।
    ते .अपि पापविनिर्मुक्ताः स्वर्गं यान्ति न संशयः ॥ ४-५६॥
    
    शिवयज्ञमहावेद्या जायते ये न सन्ति वा ।
    ते .अपि यान्ति शिवस्थानं जीवाः स्थावरजङ्गमाः ॥ ४-५७॥
    
    पूर्णाहुतिं घृताभावे क्षीरतैलेन कल्पयेत ।
    होमयेदतसीतैलं तिलतैलं विना नरः ॥ ४-५८॥
    
    सर्षपेङ्गुडिकाशाम्र- करञ्जमधुकाक्षजम ।
    प्रियङ्गुबिल्वपैप्पल्य- नालिकेरसमुद्भवम  ॥ ४-५९॥
    
    इत्येवमादिकं तैलमाज्याभावे प्रकल्पयेत ।
    दूर्वया बिल्वपत्त्रैर्वा समिधः संप्रकीर्तिताः ॥ ४-६०॥
    
    अन्नार्थं होमयेत्क्षीरं दधि मूलफलानि वा ।
    तिलार्थं तण्डुलैः कुर्याद्दर्भार्थं हरितैस्तृणैः ॥ ४-६१॥
    
    परिधीनामभावेन शरैर्वंशैश्च कल्पयेत ।
    इन्धनानामभावेन दीपयेत्तृणगोमयैः ॥ ४-६२॥
    
    गोमयानामभावेन महत्यम्भसि होमयेत ।
    अपामसंभवे होमं भूमिभागे मनोहरे ॥ ४-६३॥
    विप्रस्य दक्षिणे पाणावश्वत्थे तदभावतः ।
    छागस्य दक्षिणे कर्णे कुशमूले च होमयेत ॥ ४-६४॥
    स्वात्माग्नौ होमयेत्प्राज्ञः सर्वाग्नीनामसंभवे ।
    अभावे न त्यजेत्कर्म कर्मयोगविधौ स्थितः ॥ ४-६५॥
    आपत्काले .अपि यः कुर्याच्छिवाग्नेर्मनसार्चनम ।
    स मोहकञ्चुकं त्यक्त्वा परां शान्तिमवाप्नुयात ॥ ४-६६॥
    प्राणाग्निहोत्रं कुर्वन्ति परमं शिवयोगिनः ।
    बाह्यकर्मविनिर्मुक्ता ज्ञानध्यानसमाकुलाः ॥ ४-६७॥
    
     ॥ इति शिवोपनिषदि शान्तिगृहाग्निकार्याध्यायश्चतुर्थः ॥
    
    
    अथाग्नेयं महास्नानमलक्ष्मीमलनाशनम ।
    सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम ॥ ५-१॥
    
    अग्निरूपेण रुद्रेण स्वतेजः परमं बलम ।
    भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम ॥ ५-२॥
    
    यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम ।
    रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च ॥ ५-३॥
    
    यश्च भुङ्क्ते द्विजः कृत्वा अन्नस्य वा परिधित्रयम  ।
    अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर्न लिप्यते ॥ ५-४॥
    
    आहारमर्धभुक्तं च कीटकेशादिदूषितम ।
    तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति ॥ ५-५॥
    
    आरण्यं गोमयकृतं करीषं वा प्रशस्यते ।
    शर्करापांसुनिर्मुक्तमभावे काष्ठभस्मना ॥ ५-६॥
    
    स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना ।
    गोमयेषु च दग्धेषु हीष्टकानि च येषु च ॥ ५-७॥
    
    सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम॑॑(दुःखोपार)॑॑ ।
    शङ्खकुन्देन्दुवर्णाभमादद्याज्जन्तुवर्जितम ॥ ५-८॥
    
    भस्मानीय प्रयत्नेन तद्रक्षेद्यत्नवांस्तथा ।
    मार्जारमूषिकाद्यैश्च नोपहन्येत तद्यथा ॥ ५-९॥
    
    पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम ।
    शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम ॥ ५-१०॥
    
    जातिकारुकवाक्काय- स्थानदुष्टं च पञ्चमम ।
    पापघ्नं शांकरं रक्षा- पवित्रं योगदं गुणाः  ॥ ५-११॥
    
    शिवव्रतस्य शान्तस्य भासकत्वाच्छुभस्य च ।
    भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम ॥ ५-१२॥
    
    भस्मस्नानं शिवस्नानं वारुणादधिकं स्मृतम ।
    जन्तुशैवालनिर्मुक्तमाग्नेयं पङ्कवर्जितम ॥ ५-१३॥
    
    अपवित्रं भवेत्तोयं निशि पूर्वमनाहृतम ।
    नदीतडागवापिषु गिरिप्रस्रवणेषु च ॥ ५-१४॥
    
    स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम ।
    असाधारणमेवोक्तं भस्मस्नानं द्विजन्मनाम ॥ ५-१५॥
    
    त्रिकालं वारुणस्नानादनारोग्यं प्रजायते ।
    आग्नेयं रोगशमनमेतस्माद्सार्वकामिकम ॥ ५-१६॥
    
    संध्यात्रये .अर्धरात्रे च भुक्त्वा चान्नविरेचने ।
    शिवयोग्याचरेत्स्नानमुच्चारादिक्रियासु च ॥ ५-१७॥
    
    भस्मास्तृते महीभागे समे जन्तुविवर्जिते ।
    ध्यायमानः शिवं योगी रजन्यन्तं शयीत च ॥ ५-१८॥
    
    एकरात्रोषितस्यापि या गतिर्भस्मशायिनः ।
    न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैरपि ॥ ५-१९॥
    
    गृहस्थस्त्र्यायुषोंकारैः स्नानं कुर्यात्त्रिपुण्ड्रकैः ।
    यतिः सार्वाङ्गिकं स्नानमापादतलमस्तकात ॥ ५-२०॥
    
    शिवभक्तस्त्रिधा वेद्यां भस्मस्नानफलं लभेत ।
    हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी ॥ ५-२१॥
    
    गणाः प्रव्रजिताः शान्ताः भूतिमालभ्य पञ्चधा ।
    शिरोललाटे हृद्बाह्वोर्भस्मस्नानफलं लभेत ॥ ५-२२॥
    
    संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च ।
    यः कुर्याद्भस्मना स्नानं तस्य पुण्यफलं शृनु ॥ ५-२३॥
    
    शिवभस्मनि यावन्तः समेताः परमाणवः ।
    तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ५-२४॥
    
    एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः ।
    मित्रस्वजनभृत्यैश्च समस्तैः परिवारितः ॥ ५-२५॥
    
    तत्र भुक्त्वा महाभोगानिच्छया सार्वकामिकान ।
    ज्ञानयोगं समासाद्य प्रलये मुक्तिमाप्नुयात ॥ ५-२६॥
    
    भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम  ।
    अनेन वै स देहेन रुद्रश्चङ्क्रमते क्षितौ ॥ ५-२७॥
    
    भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने ।
    ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम ॥ ५-२८॥
    
    इत्येतत्परमं स्नानमाग्नेयं शिवनिर्मितम ।
    त्रिसंध्यमाचरेन्नित्यं जापी योगमवाप्नुयात ॥ ५-२९॥
    
    भस्मानीय प्रदद्याद्यः स्नानार्थं शिवयोगिने ।
    कल्पं शिवपुरे भोगान्भुक्त्वान्ते स्याद्द्विजोत्तमः ॥ ५-३०॥
    
    आग्नेयं वारुणं मान्त्रं वायव्यं त्वैन्द्रपञ्चमम ।
    मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम ॥ ५-३१ ॥
    
    आग्नेयं रुद्रमन्त्रेण भस्मस्नानमनुत्तमम ।
    अम्भसा वारुणं स्नानम्कार्यं वारुणमूर्तिना ॥ ५-३२॥
    
    मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत ।
    ध्यायमानः शिवं शान्तम्मन्त्रस्नानं परं स्मृतम ॥ ५-३३॥
    
    गवां खुरपुटोत्खात- पवनोद्धूतरेणुना ।
    कार्यं वायव्यकं स्नानम्मन्त्रेण मरुदात्मना ॥ ५-३४॥
    
    व्यभ्रे .अर्के वर्षति स्नानं कुर्यादैन्द्रीं दिशं स्थितः ।
    आकाशमूर्तिमन्त्रेण तदैन्द्रमिति कीर्तितम ॥ ५-३५॥
    
    उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत ।
    अभ्युक्षयेच्छिरस्तेन स्नानं मानसमुच्यते ॥ ५-३६॥
    
    पृथिव्यां यानि तीर्थानि सरांस्यायतनानि च ।
    तेषु स्नातस्य यत्पुण्यं तत्पुण्यं क्षान्तिवारिणा ॥ ५-३७॥
    
    न तथा शुध्यते तीर्थैस्तपोभिर्वा महाध्वरैः ।
    पुरुषः सर्वदानैश्च यथा क्षान्त्या विशुद्ध्यति ॥ ५-३८॥
    
    आक्रुष्टस्ताडितस्तस्मादधिक्षिप्तस्तिरस्कृत ।
    क्षमेदक्षममानानां स्वर्गमोक्षजिगीषया ॥ ५-३९॥
    
    यैव ब्रह्मविदां प्राप्तिर्यैव प्राप्तिस्तपस्विनाम ।
    यैव योगाभियुक्तानां गतिः सैव क्षमावताम ॥ ५-४०॥
    
    ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः ।
    निर्मलः सुविशुद्धश्च विज्ञेयः सूर्यरश्मिवत ॥ ५-४१॥
    
    मेध्यामेध्यरसं यद्वदपि वत्स विना करैः ।
    नैव लिप्यति तद्दोषैस्तद्वज्ज्ञानी सुनिर्मलः ॥ ५-४२॥
    
    एषामेकतमे स्नातः शुद्धभावः शिवं व्रजेत ।
    अशुद्धभावः स्नातो .अपि पूजयन्नाप्नुयात्फलम ॥ ५-४३॥
    
    जलं मन्त्रं दया दानं सत्यमिन्द्रियसंयमः ।
    ज्ञानं भावात्मशुद्धिश्च शौचमष्टविधं श्रुतम ॥ ५-४४॥
    
    अङ्गुष्ठतलमूले च ब्राह्मं तीर्थमवस्थितम ।
    तेनाचम्य भवेच्छुद्धः शिवमन्त्रेण भावितः ॥ ५-४५॥
    
    यदधः कन्यकायाश्च तत्तीर्थं दैवमुच्यते ।
    तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम  ॥ ५-४६॥
    
    मध्यमाङ्गुलिमध्येन तीर्थमारिषमुच्यते ।
    करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम ॥ ५-४७॥
    
    वामपाणितले तीर्थमौमम्नाम प्रकीर्तितम ।
    शिवोमातीर्थसंयोगात्कुर्यात्स्नानाभिषेचनम ॥ ५-४८॥
    
    देवान्दैवेन तीर्थेन तर्पयेदकृताम्भसा ।
    उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः ॥ ५-४९॥
    
    प्राचीनावीतिना कार्यं पित‍ईणां तिलवारिणा ।
    तर्पणं सर्वभूतानामारिषेण निवीतिना ॥ ५-५०॥
    
    सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा ।
    प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते ॥ ५-५१॥
    
    पित‍ईणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत ।
    उपस्थाय ततः सूर्यं यजेच्छिवमनन्तरम ॥ ५-५२॥
    
     ॥ इति शिवोपनिषदि शिवभस्मस्नानाध्यायः पञ्चमः ॥
    
    
    अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत ।
    यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत ॥ ६-१॥
    
    यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत ।
    शिवाय स शिवे लोके कल्पकोटिं प्रमोदते ॥ ६-२॥
    
    यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत ।
    गुरोर्वा होमयेद्वापि तस्य पुण्यफलं शृणु ॥ ६-३॥
    
    श्रीमद्भिः स महायानैर्भोगान्भुङ्क्ते शिवे पुरे ।
    वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत ॥ ६-४॥
    
    कपित्थमेकं यः पक्वमीश्वराय निवेदयेत ।
    वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-५॥
    
    एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत ।
    वर्षाणाम्युतं भोगैः क्रीडते स शिवे पुरे ॥ ६-६॥
    
    एकं वटफलं पक्वं यः शिवाय निवेदयेत ।
    वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-७॥
    
    यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम ।
    शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ ६-८॥
    
    यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम ।
    तावदष्टायुतान्युच्चैः शिवलोके महीयते ॥ ६-९॥
    
    द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत ।
    भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं शृणु ॥ ६-१०॥
    
    यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम ।
    तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ६-११॥
    
    द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च ।
    तदेव राजवृक्षेषु पारावतफलेषु च ॥ ६-१२॥
    
    यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे ।
    अष्टलक्षं महाभोगैः कृडते स शिवे पुरे ॥ ६-१३॥
    
    बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च ।
    जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च ॥ ६-१४॥
    
    पनसं नारिकेलं वा शिवाय विनिवेदयेत ।
    वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-१५॥
    
    पुरुषं च प्रियालं च मधूककुसुमानि च ।
    जम्बूफलानि पक्वानि वैकङ्कतफलानि च ॥ ६-१६॥
    
    निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले ।
    दशवर्षसहस्राणि रुद्रलोके महीयते ॥ ६-१७॥
    
    क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत ।
    वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६-१८॥
    
    वालुकात्रपुसादीनि यः फलानि निवेदयेत ।
    शिवाय गुरवे वापि पक्वं च करमर्दकम ॥ ६-१९॥
    
    दशवर्षसहस्राणि रुद्रलोके महीयते ।
    बदराणि सुपक्वानि तिन्तिडीकफलानि च ॥ ६-२०॥
    
    दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च ।
    एवमादीनि चान्यानि शाकमूलफलानि च ॥ ६-२१॥
    
    निवेदयति शर्वाय शृणु यत्फलमाप्नुयात ।
    एकैकस्मिन्फले भोगान्प्राप्नुयादनुपूर्वशः ॥ ६-२२॥
    
    पञ्चवर्षसहस्राणि रुद्रलोके महीयते ।
    गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम ॥ ६-२३॥
    
    निवेदयीत शर्वाय तस्य पुण्यफलं शृणु ।
    यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत ॥ ६-२४॥
    
    तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
    यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत ॥ ६-२५॥
    
    गुरवे वापि तद्भक्त्या तस्य पुण्यफलं शृणु ।
    इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते ॥ ६-२६॥
    
    साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम ।
    निवेद्य परमेशाय शुक्तिमात्ररसस्य तु ॥ ६-२७॥
    
    वर्षकोटिं महाभोगैः शिवलोके महीयते ।
    निवेद्य फाणितं शुद्धं शिवाय गुरवे .अपि वा ॥ ६-२८॥
    
    रसात्सहस्रगुणितं फलं प्राप्नोति मानवः ।
    गुडस्य फलमेकं यः शिवाय विनिवेदयेत ॥ ६-२९॥
    
    अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते ।
    खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम ॥ ६-३०॥
    
    खण्डात्सहस्रगुणितं शर्कराया निवेदने ।
    मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत ॥ ६-३१॥
    
    कल्पकोटिं नरः साग्रं शिवलोके महीयते ।
    परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम ॥ ६-३२॥
    
    मासं निवेद्य शर्वाय शृणु यत्फलमाप्नुयात ।
    अशेषफलदानेन यत्पुण्यं परिकीर्तितम ॥ ६-३३॥
    
    तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने ।
    पनसानि च दिव्यानि स्वादूनि सुरभीणि च ॥ ६-३४॥
    
    निवेदयेत्तु शर्वाय तस्य पुण्यफलं शृणु ।
    कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः ॥ ६-३५॥
    
    पिबन्शिवामृतं दिव्यं महाभोगैः प्रमोदते ।
    दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत ॥ ६-३६॥
    
    सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ।
    महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः ॥ ६-३७॥
    
    तत्पुण्यं सकलं प्राप्य शिवलोके महीयते ।
    यदिष्टमात्मनः किंचिदन्नपानफलादिकम ॥ ६-३८॥
    
    तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता ।
    न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित ॥ ६-३९॥
    
    किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते ।
    न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम ॥ ६-४०॥
    
    पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम ।
    सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम ॥ ६-४१॥
    
    अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात ।
    तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते ॥ ६-४२॥
    
    तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना ।
    यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम ॥ ६-४३॥
    
    नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम ।
    यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते ॥ ६-४४॥
    
    तावद्वर्षसहस्राणि सुरलोके महीयते ।
    पलाशकदलीपद्म- पत्त्राणि च विशेषतः ॥ ६-४५॥
    
    दत्त्वा शिवाय गुरवे शृणु यत्फलमाप्नुयात ।
    यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम ॥ ६-४६॥
    
    तावदब्दायुतानां स लोके भोगानवाप्नुयात ।
    यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत ॥ ६-४७॥
    
    तावन्ति वर्षलक्षाणि शिवलोके महीयते ।
    यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत ॥ ६-४८॥
    
    ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु ।
    यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत ॥ ६-४९॥
    
    तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
    जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम ॥ ६-५०॥
    
    इत्येतानि सुगन्धीनि फलानि विनिवेदयेत ।
    फले फले महाभोगैर्वर्षलक्षं तु यत्नतः ॥ ६-५१॥
    
    कामिकेन विमानेन क्रीडते स शिवे पुरे ।
    त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ ॥ ६-५२॥
    
    वर्षकोटिं महाभोगैः शिवलोके महीयते ।
    पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत ॥ ६-५३॥
    
    वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ।
    यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत ॥ ६-५४॥
    
    मोदते स शिवे लोके वर्षकोटीश्चतुर्दश ।
    मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे ॥ ६-५५॥
    
    प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ।
    माणिक्यं कलशं पात्रीं स्थाल्यादीन्भाण्डसंपुटान ॥ ६-५६॥
    
    दत्त्वा शिवाग्रजस्तेभ्यः शिवलोके महीयते ।
    तोयाधारपिधानानि मृद्वस्त्रतरुजानि वा ॥ ६-५७॥
    
    वंशालाबुसमुत्थानि दत्त्वाप्नोति शिवं पुरम ।
    पञ्चसंमार्जनीतोयं गोमयाञ्जनकर्पटान ॥ ६-५८॥
    
    मृत्कुम्भपीटिकां दद्याद्भोगाञ्छिवपुरे लभेत ।
    यः पुष्पधूपगन्धानां दधिक्षीरघृताम्भसाम ॥ ६-५९॥
    
    दद्यादाधारपात्राणि शिवलोके स गच्छति ।
    वंशतालादिसंभूतं पुष्पाधारकरण्डकम ॥ ६-६०॥
    
    इत्येवमाद्यान्यो दद्याच्छिवलोकमवाप्नुयात ।
    यः स्रुक्स्रुवादिपात्राणि होमार्थं विनिवेदयेत ॥ ६-६१॥
    
    वर्षकोटिं महाभागैः शिवलोके महीयते ।
    यः सर्वधातुसंयुक्तं दद्याल्लवणपर्वतम ॥ ६-६२॥
    
    शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ।
    कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ६-६३॥
    
    स गोत्रभृत्यसंयुक्तो वसेच्छिवपुरे नरः ।
    विमानयानैः श्रीमद्भिः सर्वकामसमन्वितैः ॥ ६-६४॥
    
    भोगान्भुक्त्वा तु विपुलांस्तदन्ते स महीपतिः ।
    मनःशिलां हरीतालं राजपट्टं च हिङ्गुलम ॥ ६-६५॥
    
    गैरिकं मणिदन्तं च हेमतोयं तथाष्टमम ।
    यश्च तं पर्वतवरं शालितण्डुलकल्पितम ॥ ६-६६॥
    
    शिवायगुरवे वापि तस्य पुण्यफलं शृणु ।
    कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-६७॥
    
    यः सर्वधान्यशिखरैरुपेतं यवपर्वतम ।
    घृततैलनदीयुक्तं तस्य पुण्यफलं शृणु ॥ ६-६८॥
    
    कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ।
    समस्तकुलजैः सार्धं तस्यान्ते स महीपतिः ॥ ६-६९॥
    
    तिलधेनुं प्रदद्याद्यः कृत्वा कृष्णाजिने नरः ।
    कपिलायाः प्रदानस्य यत्फलं तदवाप्नुयात ॥ ६-७०॥
    
    घृतधेनुं नरः कृत्वा कांस्यपात्रे सकाञ्चनान ।
    निवेद्य गोप्रदानस्य समग्रं फलमाप्नुयात ॥ ६-७१॥
    
    द्वीपिचर्मणि यः स्थाप्य प्रदद्याल्लवणाढकम ।
    अशेषरसदानस्य यत्पुण्यं तदवाप्नुयात ॥ ६-७२॥
    
    मरिचाढेन कुर्वीत  मारीचं नाम पर्वतम ।
    दद्याद्यज्जीरकं पूर्वमाग्नेयं हिङ्गुमुत्तमम ॥ ६-७३॥
    
    दक्षिणे गुडशुण्ठीं च नैरृते नागकेसरम ।
    पिप्पलीं पश्चिमे दद्याद्वायव्ये कृष्णजीरकम ॥ ६-७४॥
    
    कौबेर्यामजमोदं च त्वगेलाश्चेशदैवते ।
    कुस्तुम्बर्याः प्रदेयाः स्युर्बहिः प्राकारतः स्थिताः ॥ ६-७५॥
    
    ककुभामन्तरालेषु समन्तात्सैन्धवं न्यसेत ।
    सपुष्पाक्षततोयेन शिवाय विनिवेदयेत ॥ ६-७६॥
    
    यावत्तद्दीपसंख्यानं सर्वमेकत्र पर्वते ।
    तावद्वर्षशतादूर्ध्वं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-७७॥
    
    कूश्माण्डं मध्यतः स्थाप्य कालिङ्गं पूर्वतो न्यसेत ।
    दक्षिणे क्षीरतुम्बीं तु वृन्ताकं पश्चिमे न्यसेत ॥ ६-७८॥
    
    पटीसान्युत्तरे स्थाप्य कर्कटीमीशदैवते ।
    न्यसेद्गजपटोलांश्च मधुरान्वह्निदैवते ॥ ६-७९॥
    
    कारवेल्लांश्च नैरृत्यां वायव्यां निम्बकं फलम ।
    उच्चावचानि चान्यानि फलानि स्थापयेद्बहिः ॥ ६-८०॥
    
    अभ्यर्च्य पुष्पधूपैश्च समन्तात्फलपर्वतम ।
    शिवाय गुरवे वापि प्रणिपत्य निवेदयेत ॥ ६-८१॥
    
    यावत्तत्फलसंख्यानं तद्दीपानां च मध्यतः ।
    तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६-८२॥
    
    मूलकं मध्यतः स्थाप्य तत्पूर्वे वालमूलकम ।
    आग्नेय्यां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकम ॥ ६-८३॥
    
    पालक्यं नैरृते स्थाप्य सुमुखं पश्चिमे न्यसेत ।
    कुहद्रकं च वायव्यामुत्तरे वापि तालिकीम ॥ ६-८४॥
    
    कुसुम्भशाकमैशान्यां सर्वशाकानि तद्बहिः ।
    पूर्वक्रमेण विन्यस्य शिवाय विनिवेदयेत ॥ ६-८५॥
    
    यावत्तन्मूलनालानां पत्त्रसंख्या च कीर्तिता ।
    तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६-८६॥
    
    दत्त्वा लभेन्महाभोगान्गुग्गुल्वद्रेः पलद्वयम ।
    वर्षकोटिद्वयं स्वर्गे द्विगुणं गुडमिश्रितैः ॥ ६-८७॥
    
    गुडार्द्रकं सलवणमाम्रमञ्जरिसंयुतम ।
    निवेद्य गुरवे भक्त्या सौभाग्यं परमं लभेत ॥ ६-८८॥
    
    हस्तारोप्येण वा कृत्वा महारत्नान्वितां महीम ।
    निवेदयित्वा शर्वाय शिवतुल्यः प्रजायते ॥ ६-८९॥
    
    वज्रेन्द्रनीलवैडूर्य- पद्मरागं समौक्तिकम ।
    कीटपक्षं सुवर्णं च महारत्नानि सप्त वै ॥ ६-९०॥
    
    यश्च सिंहासनं दद्यान्महारत्नान्वितं नृपः ।
    क्षुद्ररत्नैश्च विविधैस्तस्य पुण्यफलं शृणु ॥ ६-९१॥
    
    कुलत्रिंशकसंयुक्तः सान्तःपुरपरिच्छदः ।
    समस्तभृत्यसंयुक्तः शिवलोके महीयते ॥ ६-९२॥
    
    तत्र भुक्त्वा महाभोगान्शिवतुल्यपराक्रमः ।
    आमहाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात ॥ ६-९३॥
    
    यदि चेद्राज्यमाकङ्क्षेत्ततः सर्वसमाहितः ।
    सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत ॥ ६-९४॥
    
    जन्मकोटिसहस्राणि जन्मकोटिशतानि च ।
    राज्यं कृत्वा ततश्चान्ते पुनः शिवपुरं व्रजेत ॥ ६-९५॥
    
    एतदेव फलं ज्ञेयं मकुटाभरणादिषु ।
    रत्नासनप्रदानेन पादुके विनिवेदयेत ॥ ६-९६॥
    
    दद्याद्यः केवलं वज्रं शुद्धं गोधूममात्रकम ।
    शिवाय स शिवे लोके तिष्ठेदाप्रलयं सुखी ॥ ६-९७॥
    
    इन्द्रनीलप्रदानेन स वैडूर्यप्रदानतः ।
    मोदते विविधैर्भोगैः कल्पकोटिं शिवे पुरे ॥ ६-९८॥
    
    मसूरमात्रमपि यः पद्मरागं सुशोभनम ।
    निवेदयित्वा शर्वाय मोदते कालमक्षयम ॥ ६-९९॥
    
    निवेद्य मौक्तिकं स्वच्छमेकभागैकमात्रकम ।
    भोगैः शिवपुरे दिव्यैः कल्पकोटिं प्रमोदते ॥ ६-१००॥
    
    कीटपक्षं महाशुद्धं निवेद्य यवमात्रकम ।
    शिवायाद्यः शिवे लोके मोदते कालमक्षयम ॥ ६-१०१॥
    
    हेम्ना कृत्वा च यः पुष्पमपि माषकमात्रकम ।
    निवेदयित्वा शर्वाय वर्षकोटिं वसेद्दिवि ॥ ६-१०२॥
    
    क्षुद्ररत्नानि यो दद्याद्धेम्नि बद्धानि शम्भवे ।
    मोदते स शिवे लोके कल्पकोट्ययुतं नरः ॥ ६-१०३॥
    
    यथा यथा महारत्नं शोभनं च यथा यथा ।
    तथा तथा महत्पुण्यं ज्ञेयं तच्छिवदानतः ॥ ६-१०४॥
    
    भूमिभागे स विस्तीऋणे जम्बूद्वीपं प्रकल्पयेत ।
    अष्टावरणसंयुक्तं नगेन्द्राष्टकभूषितम ॥ ६-१०५॥
    
    तन्मध्ये कारयेद्दिव्यं मेरुप्रासादमुत्तमम ।
    अनेकशिखराकीर्णमशेषामरसंयुतम ॥ ६-१०६॥
    
    बहिः सुवर्णनिचितं सर्वरत्नोपशोभितम ।
    चतुःप्रग्रीवकोपेतं चक्षुर्लिङ्गसमायुतम ॥ ६-१०७॥
    
    चतुर्दिक्षु वनोपेतं चतुर्भिः संयुतैः शरैः ।
    चतुर्णां पुरयुक्तेन प्राकारेण च संयुतम ॥ ६-१०८॥
    
    मेरुप्रासादमित्येवं हेमरत्नविभूषितम ।
    यः कारयेद्वनोपेतं सो .अनन्तफलमाप्नुयात ॥ ६-१०९॥
    
    भूम्यम्भःपरमाणूनां यथा संख्या न विद्यते ।
    शिवायतनपुण्यस्य तथा संख्या न विद्यते ॥ ६-११०॥
    
    कुलत्रिंशकसंयुक्तः सर्वभृत्यसमन्वितः ।
    कलत्रपुत्रमित्रैश्च सर्वस्वजनसंयुतः ॥ ६-१११॥
    
    आश्र्तितोपाश्रितैः सर्वैरशेषगणसंयुतः ।
    यथा शिवस्तथैवायं शर्वलोके स पूज्यते ॥ ६-११२॥
    
    न च मानुष्यकं लोकमागच्छेत्कृपणं पुनः ।
    सर्वज्ञः परिपूर्णश्च मुक्तः स्वात्मनि तिष्ठति ॥ ६-११३॥
    
    यः शिवाय वनं कृत्वा मुदाब्दसलिलोत्थितम  ।
    तद्दण्डकोपशोभं च हस्ते कुर्वीत सर्वदा ॥ ६-११४॥
    
    शोभयेद्भूतनाथं वा चन्द्रशालां क्वचित्क्वचित ।
    वेदीं वाथाभ्यपद्यन्त प्रोन्नताः स्तम्भपङ्क्तयः ॥ ६-११५॥
    
    शातकुम्भमयीं वापि सर्वलक्षणसंयुताम ।
    ईश्वरप्रतिमां सौम्यां कारयेत्पुरुषोच्छ्रिताम ॥ ६-११६॥
    
    त्रिशूलसव्यहस्तां च वरदाभयदायिकां ।
    सव्यहस्ताक्षमालां च जटाकुसुमभूषिताम ॥ ६-११७॥
    
    पद्मसिंहासनासीनां वृषस्थां वा समुच्छ्रिताम ।
    विमानस्थां रथस्थां वा वेदिस्थां वा प्रभान्विताम ॥ ६-११८॥
    
    सौम्यवक्त्रां करालां वा महाभैरवरूपिणीम ।
    अत्युच्छ्रितां सुविस्तीर्णां नृत्यस्थां योगसंस्थिताम ॥ ६-११९॥
    
    कुर्यादसंभवे हेम्नस्तारेण विमलेन च ।
    आरकूटमयीं वापि ताम्रमृच्छैलदारुजाम ॥ ६-१२०॥
    
    अशेषकैः सरूपैश्च वर्णकैर्वा पटे लिखेत ।
    कुड्ये वा फलके वापि भक्त्या वित्तानुसारतः ॥ ६-१२१॥
    
    एकां सपरिवारां वा पार्वतीं गणसंयुताम ।
    प्रतीहारसमोपेतां  कुर्यादेवाविकल्पतः ॥ ६-१२२॥
    
    पीठं वा कारयेद्रौप्यं ताम्रं पित्तलसंभवम ।
    चतुर्मुखैकवक्त्रं वा बहिः काञ्चनसंस्कृतम ॥ ६-१२३॥
    
    पृथक्पृथगनेकानि कारयित्वा मुखानि तु ।
    सौम्यभैरवरूपाणि शिवस्य बहुरूपिणः ॥ ६-१२४॥
    
    नानाभरणयुक्तानि हेमरौप्यकृतानि च ।
    शिवस्य रथयात्रायां तानि लोकस्य दर्शयेत ॥ ६-१२५॥
    
    उक्तानि यानि पुण्यानि संक्षेपेण पृथक्पृथक ।
    कृत्वैकेन ममैतेषामक्षयं फलमाप्नुयात ॥ ६-१२६॥
    
    मातुः पितुः सहोपायैर  दशभिर्दशभिः कुलैः ।
    कलत्रपुत्रमित्राद्यैर्भृत्यैर्युक्तः स बान्धवैः ॥ ६-१२७॥
    
    अयुतेन विमानानां सर्वकामयुतेन च ।
    भुङ्क्ते स्वयं महाभोगानन्ते मुक्तिमवाप्नुयात ॥ ६-१२८॥
    
    मण्डपस्तम्भपर्यन्ते कीलयेद्दर्पणान्वितम ।
    अभिषिच्य जना यस्मिन्पुजां कुवन्ति बिल्वकैः ॥ ६-१२९॥
    
    कालकालकृतिं कृत्वा कीलयेद्यः शिवाश्रमे ।
    सर्वलोकोपकाराय पूजयेच्च दिने दिने ॥ ६-१३०॥
    
    धूपवेलाप्रमाणार्थं कल्पयेद्यः शिवाश्रमे ।
    क्षरन्तीं पूर्यमाणां वा सदायामे घटीं नृपः ॥ ६-१३१॥
    
    एषामेकतमं पुण्यं कृत्वा पापविवर्जितः ।
    शिवलोके नरः प्राप्य सर्वज्ञः स सुखी भवेत ॥ ६-१३२॥
    
    रथयात्रां प्रवक्ष्यामि शिवस्य परमात्मनः ।
    सर्वलोकहितार्थाय महाशिल्पिविनिर्मिताम ॥ ६-१३३॥
    
    रथमध्ये समावेश्य यथा यष्टिं तु कीलयेत ।
    यष्टेर्मध्ये स्थितं कार्यं विमानमतिशोभितम ॥ ६-१३४॥
    
    पञ्चभौमं त्रिभौमं वा दृढवंशप्रकल्पितम ।
    कर्मणा सुनिबद्धं च रज्जुभिश्च सुसंयुतम ॥ ६-१३५॥
    
    पञ्चशालाण्डिकैर्युक्तं नानाभक्तिसमन्वितम ।
    चित्रवर्णपरिच्छन्नं पटैर्वा वर्णकान्वितैः ॥ ६-१३६॥
    
    लम्बकैः सूत्रदाम्ना च घण्टाचामरभूषितम ।
    बुद्बुदैरर्धचन्द्रैश्च दर्पणैश्च समुज्ज्वलम ॥ ६-१३७॥
    
    कदल्यर्धध्वजैर्युक्तं महाच्छत्त्रं महाध्वजम ।
    पुष्पमालापरिक्षिप्तं सर्वशोभासमन्वितम ॥ ६-१३८॥
    
    महारथविमाने .अस्मिन्स्थापयेद्गणसंयुतम ।
    ईश्वरप्रतिमां हेम्नि प्रथमे पुरमण्डपे ॥ ६-१३९॥
    
    मुखत्रयं च बध्नीयाद्बहिः कुर्यात्तथाश्रितम ।
    पुरे पुरे बहिर्दिक्षु गृहकेषु समाश्रितम ॥ ६-१४०॥
    
    चतुष्कं शिववक्त्राणां संस्थाप्य प्रतिपूजयेत ।
    दिनत्रयं प्रकुर्वीत स्नानमर्चनभोजनम ॥ ६-१४१॥
    
    नृत्यक्रीडाप्रयोगेण गेयमङ्गलपाठकैः ।
    महावादित्रनिर्घोषैः पौषपूर्णिमपर्वणि ॥ ६-१४२॥
    
    भ्रामयेद्राजमार्गेण चतुर्थे .अहनि तद्रथम ।
    ततः स्वस्थानमानीय तच्छेषमपि वर्धयेत ॥ ६-१४३॥
    
    अवधार्य जगद्धात्री प्रतिमामवतारयेत ।
    महाविमानयात्रैषा कर्तव्या पट्टके .अपि वा ॥ ६-१४४॥
    
    वंशैर्नवैः सुपक्वैश्च कटं कुर्याद्भरक्षमम  ।
    वृत्तं द्विगुणदीर्घं च चतुरश्रमधः समम ॥ ६-१४५॥
    
    सर्वत्र चर्मणा बद्धं महायष्टिसमाश्रितम ।
    मुखं बद्धं च कुर्वीत वंशमण्डलिना दृढम ॥ ६-१४६॥
    
    कटे .अस्मिंस्तानि वस्त्राणि स्थाप्य बध्नीत यत्नतः ।
    उपर्युपरि सर्वाणि तन्मध्ये प्रतिमां न्यसेत ॥ ६-१४७॥
    
    वर्णकैः कुङ्कुमाद्यैश्च चित्रपुष्पैश्च पूजयेत ।
    नानाभरणपूजाभिर्मुक्ताहारप्रलम्बिभिः ॥ ६-१४८॥
    
    रथस्य महतो मध्ये स्थाप्य पट्टद्वयं दृढम ।
    अधरोत्तरभागेन मध्ये छिद्रसमन्वितम ॥ ६-१४९॥
    
    कटियष्टेरधोभागं स्थाप्य छिद्रमयं शुभैः ।
    आबद्ध्य कीलयेद्यत्नाद्यष्ट्यर्धं च ध्वजाष्टकम ॥ ६-१५०॥
    
    कटस्य पृष्टं सर्वत्र कारयेत्पटसंवृतम ।
    तत्पटे च लिखेत्सोमं सगणं सवृषं शिवम ॥ ६-१५१॥
    
    विचित्रपुष्पस्रग्दाम्ना समन्ताद्भूषयेत्कटम ।
    रवकैः किङ्किणीजालैर्घण्टाचामरभूषितैः ॥ ६-१५२॥
    
    महापूजाविशेषैश्च कौतूहलसमन्वितम ।
    वाद्यारम्भोपचारेण मार्गशोभां प्रकल्पयेत ॥ ६-१५३॥
    
    तद्रथं भ्रामयेद्यत्नाद्राजमार्गेण सर्वतः ।
    ततः स्वाश्रममानीय स्थापयेत्तत्समीपतः ॥ ६-१५४॥
    
    महाशब्दं ततः कुर्यात्तालत्रयसमन्वितम ।
    ततस्तुष्णीं स्थिते लोके तच्छान्तिमिह धारयेत ॥ ६-१५५॥
    
    शिवं तु सर्वजगतः शिवं गोब्राह्मणस्य च ।
    शिवमस्तु नृपाणां च तद्भक्तानां जनस्य च ॥ ६-१५६॥
    
    राजा विजयमाप्नोति पुत्रपौत्रैश्च वर्धताम ।
    धर्मनिष्ठश्च भवतु प्रजानां च हिते रतः ॥ ६-१५७॥
    
    कालवर्षी तु पर्जन्यः सस्यसंपत्तिरुत्तमा ।
    सुभिक्षात्क्षेममाप्नोति कार्यसिद्धिश्च जायताम ॥ ६-१५८॥
    
    दोषाः प्रयान्तु नाशं च गुणाः स्थैर्यं भजन्तु वः ।
    बहुक्षीरयुता गावो हृष्टपुष्टा भवन्तु वः ॥ ६-१५९॥
    
    एवं शिवमहाशान्तिमुच्चार्य जगतः क्रमात ।
    अभिवर्ध्य ततः शेषमैश्वरीं सार्वकामिकीम ॥ ६-१६०॥
    
    शिवमालां समादाय सदासीपरिचारिकः ।
    फलैर्भक्षैश्च संयुक्तां गृह्य पात्रीं निवेशयेत ॥ ६-१६१॥
    
    पात्रीं च धारयेन्मूर्ध्ना सोष्णीषां देवपुत्रकः ।
    अलंकृतः शुक्लवासा धार्मिकः सततं शुचिः ॥ ६-१६२॥
    
    ततश्च तां समुत्क्षिप्य पाणिना धारयेद्बुधः ।
    प्रब्रूयादपरश्चात्र शिवधर्मस्य भाजकः ॥ ६-१६३॥
    
    तोयं यथा घटीसंस्थमजस्रं क्षरते तथा ।
    क्षरते सर्वलोकानां तद्वदायुरहर्निशम ॥ ६-१६४॥
    
    यदा सर्वं परित्यज्य गन्तव्यमवशैर्ध्रुवम ।
    तदा न दीयते कस्मात्पाथेयार्थमिदं धनम ॥ ६-१६५॥
    
    कलत्रपुत्रमित्राणि पिता माता च बान्धवाः ।
    तिष्ठन्ति न मृतस्यार्थे परलोके धनानि च ॥ ६-१६६॥
    
    नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा ।
    यतः सर्वैः परित्यक्तं नरं धर्मो .अनुगच्छति ॥ ६-१६७॥
    
    तस्माद्धर्मं समुद्दिश्य यः शेषामभिवर्धयेत ।
    समस्तपापनिर्मुक्तः शिवलोकं स गच्छति ॥ ६-१६८॥
    
    उपर्युपरि वित्तेन यः शेषामभिवर्धयेत ।
    तस्येयमुत्तमा देया यतश्चान्या न वर्धते ॥ ६-१६९॥
    
    इत्येवं मध्यमां शेषां वर्धयेद्वा कनीयसीम ।
    ततस्तेषां प्रदातव्या सर्वशोकस्य शान्तये ॥ ६-१७०॥
    
    येनोत्तमा गृहीता स्याच्शिवशेषा महीयसी ।
    प्रापणीया गृहं तस्य तथैव शिरसा वृता ॥ ६-१७१॥
    
    ध्वजच्छत्त्रविमानाद्यैर्महावादित्रनिःस्वनैः ।
    गृहद्वारं ततः प्राप्तमर्चयित्वा निवेशयेत ॥ ६-१७२॥
    
    दद्याद्गोत्रकलत्राणां भृत्यानां स्वजनस्य च ।
    तर्पयेच्चानतान  भक्त्या वादित्रध्वजवाहकान ॥ ६-१७३॥
    
    एवमादीयते भक्त्या यः शिवस्योत्तमा गृहे ।
    शोभया राजमार्गेण तस्य धर्मफलं शृणु ॥ ६-१७४॥
    
    समस्तपापनिर्मुक्तः समस्तकुलसंयुतः ।
    शिवलोकमवाप्नोति सभृत्यपरिचारकः ॥ ६-१७५॥
    
    तत्र दिव्यैर्महाभोगैर्विमानैः सार्वकामिकैः ।
    कल्पानां क्रीडते कोटिमन्ते निर्वाणमाप्नुयात ॥ ६-१७६॥
    
    रथस्य यात्रां यः कुर्यादित्येवमुपशोभया ।
    भक्षभोज्यप्रदानैश्च तत्फलं शृनु यत्नतः ॥ ६-१७७॥
    
    अशेषपापनिर्मुक्तः सर्वभृत्यसमन्वितः ।
    कुलत्रिंशकमुद्धृत्य सुहृद्भिः स्वजनैः सह ॥ ६-१७८॥
    
    सर्वकामयुतैर्दिव्यैः स्वच्छन्दगमनालयैः ।
    महाविमानैः श्रीमद्भिर्दिव्यस्त्रीपरिवारितः ॥ ६-१७९॥
    
    इच्छया क्रीडते भोगैः कल्पकोटिं शिवे पुरे ।
    ज्ञानयोगं ततः प्राप्य संसारादवमुच्यते ॥ ६-१८०॥
    
    शिवस्य रथयात्रायामुपवासपरः क्षमी ।
    पुरतः पृष्ठतो वापि गच्छंस्तस्य फलं शृणु ॥ ६-१८१॥
    
    अशेषपापनिर्मुक्तः शुद्धः शिवपुरं गतः ।
    महारथोपमैर्यानैः कल्पाशीतिं प्रमोदते" ॥ ६-१८२॥
    
    ध्वजच्छत्त्रपताकाभिर्दीपदर्पणचामरैः ।
    धूपैर्वितानकलशैरुपशोभा सहस्रशः ॥ ६-१८३॥
    
    गृहीत्वा याति पुरतः स्वेच्छया वा परेच्छया ।
    संपर्कात्कौतुकाल्लाभाच्छिवलोके व्रजन्ते ते ॥ ६-१८४॥
    
    शिवस्य रथयात्रां तु यः प्रपश्यति भक्तितः ।
    प्रसङ्गात्कौतुकाद्वापि ते .अपि यान्ति शिवं पुरम ॥ ६-१८५॥
    
    नानायत्नादिशेषान्ते नानाप्रेक्षणकानि च ।
    कुर्वीत रथयात्रायां रमते च विभूषिता ॥ ६-१८६॥
    
    ते भोगैर्विविधैर्दिव्यैः शिवासन्ना गणेश्वराः ।
    क्रीडन्ति रुद्रभवने कल्पानां विंशतीर्नराः ॥ ६-१८७॥
    
    महता ज्ञानसङ्घेन तस्माच्छिवरथेन च ।
    पृथक्जीवा मृता यान्ति शिवलोकं न संशयः ॥ ६-१८८॥
    
    श्रीपर्वते महाकाले वाराणस्यां महालये ।
    जल्पेश्वरे कुरुक्षेत्रे केदारे मण्डलेश्वरे ॥ ६-१८९॥
    
    गोकर्णे भद्रकर्णे च शङ्कुकर्णे स्थलेश्वरे ।
    भीमेश्वरे सुवर्णाक्षे कालञ्जरवने तथा ॥ ६-१९०॥
    
    एवमादिषु चान्येषु शिवक्षेत्रेषु ये मृताः ।
    जीवाश्चराचराः सर्वे शिवलोकं व्रजन्ति ते ॥ ६-१९१॥
    
    प्रयागं कामिकं तीर्थमविमुक्तं तु नैष्ठिकम ।
    श्रीपर्वतं च विज्ञेयमिहामुत्र च सिद्धिदम ॥ ६-१९२॥
    
    प्रसङ्गेनापि यः पश्येदन्यत्र प्रस्थितः क्वचित ।
    श्रीपर्वतं महापुण्यं सो .अपि याति शिवं पुरम ॥ ६-१९३॥
    
    व्रजेद्यः शिवतीर्थानि सर्वपापैः प्रमुच्यते ।
    पापयुक्तः शिवज्ञानं प्राप्य निर्वाणमाप्नुयात ॥ ६-१९४॥
    
    तीर्थस्थानेषु यः श्राद्धं शिवरात्रे प्रयत्नतः ।
    कल्पयित्वानुसारेण कालस्य विषुवस्य च ॥ ६-१९५॥
    
    तीर्थयात्रागतं शान्तं हाहाभूतमचेतनम ।
    क्षुत्पिपासातुरं लोके पांसुपादं त्वरान्वितम ॥ ६-१९६॥
    
    संतर्पयित्वा यत्नेन म्लानलक्ष्मीमिवाम्बुभिः ।
    पाद्यासनप्रदानेन कस्तेन पुरुषः समः ॥ ६-१९७॥
    
    अश्नन्ति यावत्तत्पिण्डं तीर्थनिर्धूतकल्मषाः ।
    तावद्वर्षसहस्राणि तद्दातास्ते शिवे पुरे ॥ ६-१९८॥
    
    दद्याद्यः शिवसत्त्रार्थं महिषीं सुपयस्विनीम ।
    मोदते स शिवे लोके युगकोटिशतं नरः ॥ ६-१९९॥
    
    आर्ताय शिवभक्ताय दद्याद्यः सुपयस्विनीम ।
    अजामेकां सुपुष्टाङ्गीं तस्य पुण्यफलं शृणु ॥ ६-२००॥
    
    यावत्तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च ।
    तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ ६-२०१॥
    
    मृदुरोमाञ्चितां कृष्णां निवेद्य गुरवे नरः ।
    रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात ॥ ६-२०२॥
    
    गजाश्वरथसंयुक्तैर्विमानैः सार्वकामिकैः ।
    सानुगः क्रीडते भोगैः कल्पकोटिं शिवे पुरे ॥ ६-२०३॥
    
    निवेद्याश्वतरं पुष्टमदुष्टं गुरवे नरः ।
    संगतिं सोपकरणं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-२०४॥
    
    दिव्याश्वयुक्तैः श्रीमद्भिर्विमानैः सार्वकामिकैः ।
    कोटिं कोटिं च कल्पानां तदन्ते स्यान्महीपतिः ॥ ६-२०५॥
    
    अपि योजनमात्राय शिबिकां परिकल्पयेत ।
    गुरोः शान्तस्य दान्तस्य तस्य पुण्यफलं शृणु ॥ ६-२०६॥
    
    विमानानां सहस्रेण सर्वकामयुतेन च ।
    कल्पकोट्ययुतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥ ६-२०७॥
    
    छागं मेषं मयूरं च कुक्कुटं शारिकां शुकम ।
    बालक्रीडनकानेतानित्याद्यानपरानपि ॥ ६-२०८॥
    
    निवेदयित्वा स्कन्दाय तत्सायुज्यमवाप्नुयात ।
    भुक्त्वा तु विपुलान्भोगांस्तदन्ते स्याद्द्विजोत्तमः ॥ ६-२०९॥
    
    मुसलोलूखलाद्यानि गृहोपकरणानि च ।
    दद्याच्छिवगृहस्थेभ्यस्तस्य पूण्यफलं शृणु ॥ ६-२१०॥
    
    प्रत्येकं कल्पमेकैकं गृहोपकरणैर्नरः ।
    अन्ते दिवि वसेद्भोगैस्तदन्ते च गृही भवेत ॥ ६-२११॥
    
    खर्जूरतालपत्त्रैर्वा चर्मणा वा सुकल्पितम ।
    दत्त्वा कोट्यासनं वृत्तं शिवलोकमवाप्नुयात ॥ ६-२१२॥
    
    प्रातर्नीहारवेलायां हेमन्ते शिवयोगिनाम ।
    कृत्वा प्रतापनायाग्निं शिवलोके महीयते ॥ ६-२१३॥
    
    सूर्यायुतप्रभादीप्तैर्विमानैः सार्वकामिकैः ।
    कल्पकोटिशतं भोगान्भुक्त्वा स तु महीपतिः ॥ ६-२१४॥
    
    यः प्रान्तरं विदेशं वा गच्छन्तं शिवयोगिनम ।
    भोजयीत यथाशक्त्या शिवलोके महीयते ॥ ६-२१५॥
    
    यश्छत्त्रं धारयेद्ग्रीष्मे गच्छते शिवयोगिने ।
    स मृतः पृथिवीं कृत्स्नामेकच्छत्त्रामवाप्नुयात ॥ ६-२१६॥
    
    यः समुद्धरते मार्गे मात्रोपकरणासनम ।
    शिवयोगप्रवृत्तस्य तस्य पुण्यफलं शृणु ॥ ६-२१७॥
    
    कल्पायुतं नरः साग्रं भुक्त्वा भोगाञ्छिवे पुरे ।
    तदन्ते प्राप्नुयाद्राज्यं सर्वैश्वर्यसमन्वितम ॥ ६-२१८॥
    
    अभ्यङ्गोद्वर्तनं स्नानमार्तस्य शिवयोगिनः ।
    कृत्वाप्नोति महाभोगान्कल्पाञ्छिवपुरे नरः ॥ ६-२१९॥
    
    अपनीय समुच्छिष्टं भक्तितः शिवयोगिनाम ।
    दशधेनुप्रदानस्य फलमाप्नोति मानवः ॥ ६-२२०॥
    
    पञ्चगव्यसमं ज्ञेयमुच्छिष्टं शिवयोगिनाम ।
    तद्भुक्त्वा लभते शुद्धिं महतः पातकादपि ॥ ६-२२१॥
    
    नारी च भुक्त्वा सत्पुत्रं कुलाधारं गुणान्वितम ।
    राज्ययोग्यं धनाढ्यं च प्राप्नुयाद्धर्मतत्परम ॥ ६-२२२॥
    
    यश्च यां शिवयज्ञाय गृहस्थः परिकल्पयेत ।
    शिवभक्तो .अस्य महतः परमं फलमाप्नुयात ॥ ६-२२३॥
    
    शिवोमां च प्रयत्नेन भक्त्याब्दं यो .अनुपालयेत ।
    गवां लक्षप्रदानस्य संपूर्णं फलमाप्नुयात ॥ ६-२२४॥
    
    प्रातः प्रदद्यात्सघृतं सुकृतं बालपिण्डकम ।
    दूर्वां च बालवत्सानां  तस्य पुण्यफलं शृणु ॥ ६-२२५॥
    
    यावत्तद्बालवत्सानां पानाहारं प्रकल्पयेत ।
    तावदष्टायुतान्पूर्वैर्भोगान्भुङ्क्ते शिवे पुरे ॥ ६-२२६॥
    
    विधवानाथवृद्धानां प्रदद्याद्यः प्रजीवनम ।
    आभूतस्संप्लवं यावच्छिवलोके महीयते ॥ ६-२२७॥
    
    दद्याद्यः सर्वजन्तूनामाहारमनुयत्नतः ।
    त्रिः पृथ्वीं रत्नसंपूर्णां यद्दत्त्वा तत्फलं लभेत ॥ ६-२२८॥
    
    विनयव्रतदानानि यानि सिद्धानि लोकतः ।
    तानि तेनैव विधिना शिवमन्त्रेण कल्पयेत ॥ ६-२२९॥
    
    निवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च ।
    प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ॥ ६-२३०॥
    
    पुनर्यः कर्तरीं दद्यात्केशक्लेशापनुत्तये ।
    सर्वक्लेशविनिर्मुक्तः शिवलोके सुखी भवेत ॥ ६-२३१॥
    
    नासिकाशोधनं दद्यात्संदंशं शिवयोगिने ।
    वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ ६-२३२॥
    
    नखच्छेदनकं दत्त्वा शिवलोके महीयते ।
    वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-२३३॥
    
    दत्त्वाञ्जनशलाकां वा लोहाद्यां शिवयोगिने ।
    भोगाञ्छिवपुरे प्राप्य ज्ञानचक्षुरवाप्नुयात ॥ ६-२३४॥
    
    कर्णशोधनकं दत्त्वा लोहाद्यं शिवयोगिने ।
    वर्षकोटिं महाभोगैः शिवलोके महीयते ॥ ६-२३५॥
    
    दद्याद्यः शिवभक्ताय सूचीं कौपीनशोधनीम ।
    वर्षलक्षं स लक्षार्धं शिवलोके महीयते ॥ ६-२३६॥
    
    निवेद्य शिवयोगिभ्यः सूचिकं सूत्रसंयुतम ।
    वर्षलक्षं महाभोगैः क्रीडते स शिवे पुरे ॥ ६-२३७॥
    
    दद्याद्यः शिवयोगिभ्यः सुकृतां पत्रवेधनीम ।
    वर्षलक्षं महाभोगैः शिवलोके महीयते ॥ ६-२३८॥
    
    दद्याद्यः पुस्तकादीनां सर्वकार्यार्थकर्तृकाम ।
    पञ्चलक्षं महाभोगैर्मोदते स शिवे पुरे ॥ ६-२३९॥
    
    शमीन्धनतृणादीनां दद्यात्तच्छेदनं च यः ।
    क्रीडते स शिवे लोके वर्षलक्षचतुष्टयम ॥ ६-२४०॥
    
    शिवाश्रमोपभोगाय लोहोपकरणं महत ।
    यः प्रदद्याग्कुठाराद्यं तस्य पुण्यफलं शृणु ॥ ६-२४१॥
    
    यावत्तत्फलसंख्यानं लोहोपकरणे भवेत ।
    तावन्ति वर्षलक्षाणि शिवलोके महीयते ॥ ६-२४२॥
    
    शिवायतनवित्तानां रक्षार्थं यः प्रयच्छति ।
    धनुःखड्गायुधादीनि तस्य पुण्यफलं शृणु ॥ ६-२४३॥
    
    एकैकस्मिन्परिज्ञेयमायुधे चापि वै फलम ।
    वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ॥ ६-२४४॥
    
    यः स्वात्मभोगभृत्यर्थं कुसुमानि निवेदयेत ।
    शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥ ६-२४५॥
    
    यावदन्यो.अन्यसंबन्धास्तस्यांशाः परिकीर्तिताः ।
    वर्षलक्षं स तावच्च शिवलोके प्रमोदते ॥ ६-२४६॥
    
    नष्टापहृतमन्विष्य पुनर्वित्तं निवेदयेत ।
    शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥ ६-२४७ ॥
    
    यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम ।
    नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत ॥ ६-२४८॥
    
    देवद्रव्यं हृतं नष्टमन्वेष्यमपि यत्नतः ।
    न प्राप्नोति तदा तस्य प्राप्नुयाद्द्विगुणं फलम ॥ ६-२४९॥
    
    ताम्रकुम्भकटाहाद्यं यः शिवाय निवेदयेत ।
    शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥ ६-२५०॥
    
    यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम ।
    नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत ॥ ६-२५१॥
    
    स्नानसत्त्रोपभोगाय तस्य पुण्यफलं शृणु ।
    यावत्तत्फलसंख्यानं ताम्रोपकरणे स्थितम ॥ ६-२५२॥
    
    पले पले वर्षकोटिं मोदते स शिवे पुरे ।
    यः पत्त्रपुष्पवस्तूनां दद्यादाधारभाजनम ॥ ६-२५३॥
    
    तद्वस्तुदातुर्यत्पुण्यं तत्पुण्यं सकलं भवेत ।
    दत्त्वोपकरणं किंचिदपि यो वित्तमर्थिनाम ॥ ६-२५४॥
    
    यद्वस्तु कुरुते तेन तत्प्रदानफलं लभेत ।
    यः शौचपीतवस्त्राणि क्षाराद्यैः शिवयोगिनाम ॥ ६-२५५॥
    
    स पापमलनिर्मुक्तः शिवलोकमवाप्नुयात ।
    यः पुष्पपट्टसंयुक्तं पटगर्भं च कम्बलम ॥ ६-२५६॥
    
    प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु ।
    तेषां च वस्त्रतन्तूनां यावत्संख्या विधीयते ॥ ६-२५७॥
    
    तावद्वर्षसहस्राणि भोगान्भुङ्क्ते शिवे पुरे ।
    श्लक्ष्णवस्त्राणि शुक्लानि दद्याद्यः शिवयोगिने ॥ ६-२५८॥
    
    चित्रवस्त्राणि तद्भक्त्या तस्य पुण्यफलं शृणु ।
    यावत्तत्सूक्ष्मवस्त्राणां तन्तुसंख्या विधीयते ॥ ६-२५९॥
    
    तावद्युगानि संभोगैः शिवलोके महीयते ।
    शङ्खपात्रं तु विस्तीर्णं भाण्डं वापि सुशोभनम ॥ ६-२६०॥
    
    प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु ।
    दिव्यं विमानमारूढः सर्वकामसमन्वितम ॥ ६-२६१॥
    
    कल्पकोट्ययुतं साग्रं शिवलोके महीयते ।
    शुक्त्यादीनि च पात्राणि शोभनान्यमलानि च ॥ ६-२६२॥
    
    निवेद्य शिवयोगिभ्यः शङ्खार्धेन फलं लभेत ।
    स्फाटिकानां च पात्राणां शङ्खतुल्यफलं स्मृतम ॥ ६-२६३॥
    
    शैलजानां तदर्धेन पात्राणां च तदर्धकम ।
    तालखर्जूरपात्राणां वंशजानां निवेदने ॥ ६-२६४॥
    
    अन्येषामेवमादीनां पुण्यं वार्क्ष्यार्धसंमितम ।
    वंशजार्धसमं पुण्यं फलपात्रनिवेदने ॥ ६-२६५॥
    
    नानापर्णपुटाणां च साराणां वा फलार्धकम ।
    यस्ताम्रकांस्यपात्राणि शोव्हनान्यमलानि च ॥ ६-२६६॥
    
    स्नानभोजनपानार्थं दद्याद्यः शिवयोगिने ।
    ताम्रां कांसीं त्रिलोहीं वा यः प्रदद्यात्त्रिपादिकाम ॥ ६-२६७॥
    
    भोजने भोजनाधारं गुरवे तत्फलं शृणु ।
    यावत्तत्पलसंख्यानं त्रिपाद्या भोजनेषु च ॥ ६-२६८॥
    
    तावद्युगसहस्राणि भोगान्भुङ्क्ते शिवे पुरे ।
    लोहं त्रिपादिकं दत्त्वा सत्कृत्वा शिवयोगिने ॥ ६-२६९॥
    
    दशकल्पान्महाभोगैर्नरः शिवपुरे वसेत ।
    यः प्रदद्यात्त्रिविष्टम्भं भिक्षापात्रसमाश्रयम ॥ ६-२७०॥
    
    वंशजं दारुजं वापि तस्य पुण्यफलं शृणु ।
    दिव्यस्त्रीभोगसंपन्नो विमाने महति स्थितः ॥ ६-२७१॥
    
    चतुर्युगसहस्रं तु भोगान्भुङ्क्ते शिवे पुरे ।
    भिक्षापात्रमुखाच्छादम्वस्त्रपर्णादिकल्पितम ॥ ६-२७२॥
    
    दत्त्वा शिवपुरे भोगान्कल्पमेकं वसेन्नरः ।
    संश्रयं यः प्रदद्याच्च भिक्षापात्रे कमण्डलौ ॥ ६-२७३॥
    
    कल्पितं वस्त्रसूत्राद्यैस्तस्य पुण्यफलं शृणु ।
    तद्वस्त्रपूततन्तूनां संख्या यावद्विधीयते ॥ ६-२७४॥
    
    तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
    सूत्रवल्कलवालैर्वा शिक्यभाण्डसमाश्रयम ॥ ६-२७५॥
    
    यः कृत्वा दामनीयोक्त्रं प्रग्रहं रज्जुमेव वा ।
    एवमादीनि चान्यानि वस्तूनि विनिवेदयेत ॥ ६-२७६॥
    
    शिवगोष्ठोपयोगार्थं तस्य पुण्यफलं शृणु ।
    यावत्तद्रज्जुसंख्यानं प्रदद्याच्छिवगोकुले ॥ ६-२७७॥
    
    तावच्चतुर्युगं देही शिवलोके महीयते ।
    यथा यथा प्रियं वस्त्रं शोभनं च यथा यथा ॥ ६-२७८ ॥
    
    तथा तथा महापुण्यं तद्दानादुत्तरोत्तरम ।
    यः पन्थानं दिशेत्पृष्टं प्रणष्टं च गवादिकं ॥ ६-२७९॥
    
    स गोदानसमं पुण्यं प्रज्ञासौख्यं च विन्दति ।
    कृत्वोपकारमार्तानां स्वर्गं याति न संशयः ॥ ६-२८०॥
    
    अपि कण्टकमुद्धृत्य किमुतान्यं महागुणम  ।
    अन्नपानौषधीनां च यः प्रदातारमुद्दिशेत ॥ ६-२८१॥
    
    आर्तानां तस्य विज्ञेयं दातुस्तत्सदृशं फलम ।
    शिवाय तस्य संरुद्धं कर्म तिष्ठति यद्विना ॥ ६-२८२॥
    
    तदल्पमपि यज्ञाङ्गं दत्त्वा यज्ञफलं लभेत ।
    अपि काशकुशं सूत्रं गोमयं समिदिन्धनम ॥ ६-२८३॥
    
    शिवयज्ञोपयोगार्थं प्रवक्ष्यामि समासतः ।
    सर्वेषां शिवभक्तानां दद्याद्यत्किंचिदादरात ।
    दत्त्वा यज्ञफलं विद्यात्किमु तद्वस्तुदानतः ॥ ६-२८४॥
    
     ॥ इति शिवोपनिषदि फलोपकरणप्रदानाध्यायः षष्ठः ॥
    
    
    अथ स्वर्गापवर्गार्थे प्रवक्ष्यामि समासतः ।
    सर्वेषां शिवभक्तानां शिवाचारमनुत्तमम ॥ ७-१॥
    
    शिवः शिवाय भूतानां यस्माद्दानं प्रयच्छति ।
    गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम ॥ ७-२॥
    
    नालक्षणे यथा लिङ्गे सांनिध्यं कल्पयेच्छिवः ।
    अल्पागमे गुरौ तद्वत्सांनिध्यं न प्रकल्पयेत ॥ ७-३॥
    
    शिवज्ञानार्थतत्त्वज्ञः प्रसन्नमनसं गुरुम ।
    शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतरः ॥ ७-४॥
    
    गुरुं च शिववद्भक्त्या नमस्कारेण पूजयेत ।
    कृताञ्जलिस्त्रिसंध्यं च भूमिविन्यस्तमस्तकः ॥ ७-५॥
    
    न विविक्तमनाचान्तम  चङ्क्रमन्तं तथाकुलम ।
    समाधिस्थं व्रजन्तं च नमस्कुर्याद्गुरुं बुधः ॥ ७-६॥
    
    व्याख्याने तत्समाप्तौ च संप्रश्ने स्नानभोजने ।
    भुक्त्वा च शयने स्वप्ने नमस्कुर्यात्सदा गुरुम ॥ ७-७॥
    
    ग्रामान्तरमभिप्रेप्सुर्गुरोः कुर्यात्प्रदक्षिणम ।
    सार्वाङ्गिकप्रणामं च पुनः कुर्यात्तदागतः ॥ ७-८॥
    
    पर्वोत्सवेषु सर्वेषु दद्याद्गन्धपवित्रकम ।
    शिवज्ञानस्य चारम्भे प्रवासगमनागतौ ॥ ७-९॥
    
    शिवधर्मव्रतारम्भे तत्समाप्तौ च कल्पयेत ।
    प्रसादनाय कुपितो विजित्य च रिपुं तथा ॥ ७-१०॥
    
    पुण्याहे ग्रहशान्तौ च दीक्षायां च सदक्षिणम ।
    आवार्य पदसंप्राप्तौ पवित्रे चोपविग्रहे ॥ ७-११॥
    
    उपानच्छत्त्रशयनं वस्त्रमासनभूषणम ।
    पात्रदण्डाक्षसूत्रं वा गुरुसक्तं न धारयेत ॥ ७-१२॥
    
    हास्यनिष्ठीवनास्फोटमुच्चभाष्यविजृम्भणम ।
    पादप्रसारणं गतिं न कुर्याद्गुरुसंनिधौ ॥ ७-१३॥
    
    हीनान्नपानवस्त्रः स्यान्नीचशय्यासनो गुरोः ।
    न यथेष्टश्च संतिष्ठेत्कलहं च विवर्जयेत ॥ ७-१४॥
    
    प्रतिवाते .अनुवाते वा न तिष्ठेद्गुरुणा सह ।
    असंश्रये च सततं न किंचित्कीर्तयेद्गुरोः ॥ ७-१५॥
    
    अन्यासक्तो न भुञ्जानो न तिष्ठन्नपराङ्मुखः ।
    न शयनो न चासीनः संभास्येद्गुरुणा सह ॥ ७-१६॥
    
    दृष्ट्वैव गुरुमायान्तमुत्तिष्ठेद्दूरतस्त्वरम ।
    अनुज्ञातश्च गुरुणा संविशेच्चानुपृष्ठतः ॥ ७-१७॥
    
    न कण्ठं प्रावृतं कुर्यान्न च तत्रावसक्तिकाम ।
    न पादधावनस्नानं यत्र पश्येद्गुरुः स्थितः ॥ ७-१८॥
    
    न दन्तधावनाभ्यङ्गमायामोद्वर्तनक्रियाः ।
    उत्सर्गपरिधानं च गुरोः कुर्वीत पश्यतः ॥ ७-१९॥
    
    गुरुर्यदर्पयेत्किंचिद्गृहासन्नं तदञ्जलौ ।
    पात्रे वा पुरतः शिष्यस्तद्वक्त्रमभिवीक्षयन ॥ ७-२०॥
    
    यदर्पयेद्गुरुः किंचि तन्नम्रः पुरतः स्थितः ।
    पाणिद्वयेन गृह्णीयत्स्थापयेत्तच्च सुस्थितम ॥ ७-२१॥
    
    न गुरोः कीर्तयेन्नाम परो.अक्षमपि केवलम ।
    समानसंज्ञमन्यं वा नाह्वयीत तदाख्यया ॥ ७-२२॥
    
    स्वगुरुस्तद्गुरुश्चैव यदि स्यातां समं क्वचित ।
    गुरोर्गुरुस्तयोः पूज्यः स्वगुरुश्च तदाज्ञया ॥ ७-२३॥
    
    अनिवेद्य न भुञ्जीत भुक्त्वा चास्य निवेदयेत ।
    नाविज्ञाप्य गुरुं गच्छेद्बहिः कार्येण केनचित ॥ ७-२४॥
    
    गुर्वाज्ञया कर्म कृत्वा तत्समाप्तौ निवेदयेत ।
    कृत्वा च नैत्यकं सर्वमधीयीताज्ञया गुरोः ॥ ७-२५॥
    
    मृद्भस्मगोमयजलं पत्त्रपुष्पेन्धनं समित ।
    पर्याप्तमष्टकं ह्येतद्गुर्वर्थं तु समाहरेत ॥ ७-२६॥
    
    भैषज्याहारपात्राणि वस्त्रशय्यासनं गुरोः ।
    आनयेत्सर्वयत्नेन प्रार्थयित्वा धनेश्वरान ॥ ७-२७॥
    
    गुरोर्न खण्डयेदाज्ञामपि प्राणान्परित्यजेत ।
    कृत्वाज्ञां प्राप्नुयान्मुक्तिं लङ्घयन्नरकं व्रजेत ॥ ७-२८॥
    
    पर्यटेत्पृथिवीं कृत्स्नां सशैलवनकाननाम ।
    गुरुभैषज्यसिद्ध्यर्थमपि गच्छेद्रसातलम ॥ ७-२९॥
    
    यदादिशेद्गुरुः किंचित्तत्कुर्यादविचारतः ।
    अमीमांस्या हि गुरवः सर्वकार्येषु सर्वथा ॥ ७-३०॥
    
    नोत्थापयेत्सुखासीनं शयानं न प्रबोधयेत ।
    आसीनो गुरुमासीनमभिगच्छेत्प्रतिष्ठितम ॥ ७-३१॥
    
    पथि प्रयान्तं यान्तं च यत्नाद्विश्रमयेद्गुरुम ।
    क्षित्पिपासातुरं स्नातं ज्ञात्वा शक्तं च भोजयेत ॥ ७-३२॥
    
    अभ्यङ्गोद्वर्तनं स्नानं भोजनष्ठीवमार्जनम ।
    गात्रसंवाहनं रात्रौ पादाभ्यङ्गं च यत्नतः ॥ ७-३३॥
    
    प्रातः प्रसाधनं दत्त्वा कार्यं संमार्जनाञ्जनम ।
    नानापुष्पप्रकरणं श्रीमद्व्याख्यानमण्डपे ॥ ७-३४॥
    
    स्थाप्यासनं गुरोः पूज्यं शिवज्ञानस्य पुस्तकम ।
    तत्र तिष्ठेत्प्रतीक्षंस्तद्गुरोरागमनं क्रमात ॥ ७-३५॥
    
    गुरोर्निन्दापवादं च श्रुत्वा कर्णौ पिधापयेत ।
    अन्यत्र चैव सर्पेत्तु निगृह्णीयादुपायतः ॥ ७-३६॥
    
    न गुरोरप्रियं कुर्यात्पीडितस्तारितो .अपि वा ।
    नोच्चारयेच्च तद्वाक्यमुच्चार्य नरकं व्रजेत ॥ ७-३७॥
    
    गुरुरेव पिता माता गुरुरेव परः शिवः ।
    यस्यैव निश्चितो भावस्तस्य मुक्तिर्न दूरतः ॥ ७-३८॥
    
    आहाराचारधर्माणां यत्कुर्याद्गुरुरीश्वरः ।
    तथैव चानुकुर्वीत नानुयुञ्जीत कारणम ॥ ७-३९॥
    
    यज्ञस्तपांसि नियमात्तानि वै विविधानि च ।
    गुरुवाक्ये तु सर्वाणि संपद्यन्ते न संशयः ॥ ७-४०॥
    
    अज्ञानपङ्कनिर्मग्नं यः समुद्धरते जनम ।
    शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत ॥ ७-४१॥
    
    इति यः पूजयेन्नित्यं गुरुमूर्तिस्थमीश्वरम ।
    सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम ॥ ७-४२॥
    
    स्नात्वाम्भसा भस्मना वा शुक्लवस्त्रोपवीतवान ।
    दूर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत ॥ ७-४३॥
    
    रोचनालभनं कुर्याद्धूययेदात्मनस्तनुम ।
    अङ्गुलीयाक्षसूत्रं च कर्णमात्रे च धारयेत ॥ ७-४४॥
    
    गुरुरेवंविधः श्रीमान्नित्यं तिष्ठेत्समाहितः ।
    यस्माज्ज्ञानोपदेशार्थं गुरुरास्ते सदाशिवः ॥ ७-४५॥
    
    धारयेत्पादुके नित्यं मृदुवर्मप्रकल्पिते ।
    प्रगृह्य दण्डं छत्त्रं वा पर्यटेदाश्रमाद्बहिः ॥ ७-४६॥
    
    न भूमौ विन्यसेत्पादमन्तर्धानं विना गुरुः ।
    कुशपादकमाक्रम्य तर्पणार्थं प्रकल्पयेत ॥ ७-४७॥
    
    पादस्थानानि पत्त्राद्यैः कृत्वा देवगृहं विशेत ।
    पात्रास्तरितपादश्च  नित्यं भुञ्जीत वाग्यतः ॥ ७-४८॥
    
    न पादौ धावयेत्कांस्ये लोहे वा परिकल्पिते ।
    शौचयेत्तृणगर्भायां द्वितीयायां तथाचमेत ॥ ७-४९॥
    
    न रक्तमुल्बणं वस्त्रं धारयेत्कुसुमानि च ।
    न बहिर्गन्धमाल्यानि वासांसि मलिनानि च ॥ ७-५०॥
    
    केशास्थीनि कपालानि कार्पासास्थितुषाणि च ।
    अमेध्याङ्गारभस्मानि नाधितिष्ठेद्रजांसि च ॥ ७-५१॥
    
    न च लोष्टं विमृद्नीयान्न च छिन्द्यान्नखैस्तृणम ।
    न पत्त्रपुष्पमूल्यानि वंशमङ्गलकाष्ठिताम ॥ ७-५२॥
    
    एवमादीनि चान्यानि पाणिभ्यां न च मर्दयेत ।
    न दन्तखादनं कुर्याद्रोमाण्युत्पाटयेन्न च ॥ ७-५३॥
    
    न पद्भ्यामुल्लिखेद्भूमिं लोष्टकाष्ठैः करेण वा ।
    न नखांश्च नखैर्विध्यान्न कण्डूयेन्नखैस्तनुम ॥ ७-५४॥
    
    मुहुर्मुहुः शिरः श्मश्रु न स्पृशेत्करजैर्बुधः ।
    न लिक्षाकर्षणं कुर्यादात्मनो वा परस्य वा ॥ ७-५५॥
    
    सौवर्ण्यरौप्यताम्रैश्च शृङ्गदन्तशलाकया ।
    देहकण्डूयनं कार्यं वंशकाष्ठीकवीरणैः  ॥ ७-५६॥
    
    न विचित्तं प्रकुर्वीत दिशश्चैवावलोकयन ।
    न शोकार्तश्च संतिष्ठेद्धूत्वा पाणौ कपोलकम ॥ ७-५७॥
    
    न पाणिपादवाक्चक्षुः- श्रोत्रशिश्नगुदोदरैः ।
    चापलानि न कुर्वीत स सर्वार्थमवाप्नुयात ॥ ७-५८॥
    
    न कुर्यात्केनचिद्वैरमध्रुवे जीविते सति ।
    लोककौतूहलं पापं संध्यां च परिवर्जयेत ॥ ७-५९॥
    
    न कुद्वारेण वेश्मानि नगरं ग्राममाविशेत ।
    न दिवा प्रावृतशिरा रात्रौ प्रावृत्य पर्यटेत ॥ ७-६०॥
    
    नातिभ्रमणशीलः स्यान्न विशेच्च गृहाद्गृहम ।
    न चाज्ञानमधीयीत शिवज्ञानं समभ्यसेत ॥ ७-६१॥
    
    शिवज्ञानं परं ब्रह्म तदारभ्य न संत्यजेत ।
    ब्रह्मासाध्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः ॥ ७-६२॥
    
    कृताञ्जलिः स्थितः शिष्यो लघुवस्त्रमुदङ्मुखः ।
    शिवमन्त्रं समुच्चार्य प्राङ्मुखो .अध्यापयेद्गुरुः ॥ ७-६३॥
    
    नागदन्तादिसंभूतं चतुरश्रं सुशोभनम ।
    हेमरत्नचितं वापि गुरोरासनमुत्तमम ॥ ७-६४॥
    
    न शुश्रूषार्थकामाश्च न च धर्मः प्रदृश्यते ।
    न भक्तिर्न यशः क्रौर्यं न तमध्यापयेद्गुरुः ॥ ७-६५॥
    
    देवाग्निगुरुगोष्ठीषु व्याख्याध्ययनसंसदि ।
    प्रश्ने वादे .अनृते .अशौचे दक्षिणं बाहुमुद्धरेत ॥ ७-६६॥
    
    वशे सततनम्रः स्यात्संहृत्याङ्गानि कूर्मवत ।
    तत्संमुखं च निर्गच्छेन्नमस्कारपुरस्सरः ॥ ७-६७॥
    
    देवाग्निगुरुविप्राणां न व्रजेदन्तरेण तु ।
    नार्पयेन्न च गृह्णीयात्किंचिद्वस्तु तदन्तरा ॥ ७-६८॥
    
    न मुखेन धमेदग्निं नाधःकुर्यान्न लङ्घयेत ।
    न क्षिपेदशुचिं वह्नौ न च पादौ प्रतापयेत ॥ ७-६९॥
    
    तृणकाष्ठादिगहने जन्तुभिश्च समाकुले ।
    स्थाने न दीपयेदग्निं दीप्तं चापि ततः क्षिपेत ॥ ७-७०॥
    
    अग्निं युगपदानीय धारयेत प्रयत्नतः ।
    ज्वलन्तं न प्रदीपं च स्वयं निर्वापयेद्बुधः ॥ ७-७१॥
    
    शिवव्रतधरं दृष्ट्वा समुत्थाय सदा द्रुतम ।
    शिवो .अयमिति संकल्प्य हर्षितः प्रणमेत्ततः ॥ ७-७२॥
    
    भोगान्ददाति विपुलान्लिङ्गे संपूजितः शिवः ।
    अग्नौ च विविधां सिद्धिं गुरौ मुक्तिं प्रयच्छति ॥ ७-७३॥
    
    मोक्षार्थं पूजयेत्तस्माद्गुरुमूर्तिस्थमीश्वरम ।
    गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुक्तिमवाप्नुयात ॥ ७-७४॥
    
    सर्वपर्वसु यत्नेन ह्येषु संपूजयेच्छिवम ।
    कुर्यादायतने शोभां गुरुस्थानेषु सर्वतः ॥ ७-७५॥
    
    नरद्वयोच्छ्रिते पीठे सर्वशोभासमन्विते ।
    संस्थाप्य मणिजं लिङ्गं स्थाने कुर्याज्जगद्धितम ॥ ७-७६॥
    
    अन्नपानविशेषैश्च नैवेद्यमुपकल्पयेत ।
    भोजयेद्व्रतिनश्चात्र स्वगुरुं च विशेषतः ॥ ७-७७॥
    
    पूजयेच्च शिवज्ञानं वाचयीत च पर्वसु ।
    दर्शयेच्छिवभक्तेभ्यः सत्पूजां परिकल्पिताम ॥ ७-७८॥
    
    प्रियं ब्रूयात्सदा तेभ्यः प्रदेयं चापि शक्तितः ।
    एवं कृते विशेषेण प्रसीदति महेश्वरः ॥ ७-७९॥
    
    छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति केवलम ।
    इत्याद्यान्न वदेच्छब्दान्साक्षाद्ब्रूयात्तु मङ्गलम ॥ ७-८०॥
    
    अधेनुं धेनुमित्येव ब्रूयाद्भद्रमभद्रकम ।
    कपालं च भगालं स्यात्परमं मङ्गलं वदेत ॥ ७-८१॥
    
    ऐन्द्रं धनुर्मणिधनुर्दाहकाष्ठादि चन्दनम ।
    स्वर्यातं च मृतं ब्रूयाच्छिवीभूतं च योगिनम ॥ ७-८२॥
    
    द्विधाभूतं वदेच्छिन्नं भिन्नं च बहुधा स्थितम ।
    नष्टमन्वेषणीयं च रिक्तं पूर्णाभिवर्धितम ॥ ७-८३॥
    
    नास्तीति शोभनं सर्वमाद्यमङ्गाभिवर्धनम ।
    सिद्धिमद्ब्रूहि गच्छन्तं सुप्तं ब्रूयात्प्रवर्धितम ॥ ७-८४॥
    
    न म्लेच्छमूर्खपतितैः क्रूरैः संतापवेदिभिः ।
    दुर्जनैरवलिप्तैश्च क्षुद्रैः सह न संवदेत ॥ ७-८५॥
    
    नाधार्मिकनृपाक्रान्ते न दंशमशकावृते ।
    नातिशीतजलाकीर्णे देशे रोगप्रदे वसेत ॥ ७-८६॥
    
    नासनं शयनं पानं नमस्काराभिवादनम ।
    सोपानत्कः प्रकुर्वीत शिवपुस्तकवाचनम ॥ ७-८७॥
    
    आचार्यं दैवतं तीर्थमुद्धूतोदं मृदं दधि ।
    वटमश्वत्थकपिलां दीक्षितोदधिसंगमम ॥ ७-८८॥
    
    यानि चैषां प्रकाराणि मङ्गलानीह कानिचित ।
    शिवायेति नमस्कृत्वा प्रोक्तमेतत्प्रदक्षिणम ॥ ७-८९॥
    
    उपानच्छत्त्रवस्त्राणि पवित्रं करकं स्रजम ।
    आसनं शयनं पानं धृतमन्यैर्न धारयेत ॥ ७-९०॥
    
    पालाशमासनं शय्यां पादुके दन्तधावनम ।
    वर्जयेच्चापि निर्यासं रक्तं न तु समुद्भवम ॥ ७-९१॥
    
    संध्यामुपास्य कुर्वीत नित्यं देहप्रसाधनम ।
    स्पृशेद्वन्देच्च कपिलां प्रदद्याच्च गवां हितम ॥ ७-९२॥
    
    यः प्रदद्याद्गवां सम्यक्फलानि च विशेषतः ।
    क्षेत्रमुद्दामयेच्चापि तस्य पुण्यफलं शृणु ॥ ७-९३॥
    
    यावत्तत्पत्त्रकुसुम- कन्दमूलफलानि च ।
    तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ७-९४॥
    
    कृशरोगार्तवृद्धानां त्यक्तानां निर्जने वने ।
    क्षुत्पिपासातुराणां च गवां विह्वलचेतसाम ॥ ७-९५॥
    
    नीत्वा यस्तृणतोयानि वने यत्नात्प्रयच्छति ।
    करोति च परित्राणं तस्य पुण्यफलं शृणु ॥ ७-९६॥
    
    कुलैकविंशकोपेतः पत्नीपुत्रादिसंयुतः ।
    मित्रभृत्यैरुपेतश्च श्रीमच्छिवपुरं व्रजेत ॥ ७-९७॥
    
    तत्र भुक्त्वा महाभोगान्विमानैः सार्वकामिकैः ।
    स महाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात ॥ ७-९८॥
    
    गोब्राह्मणपरित्राणं सकृत्कृत्वा प्रयत्नतः ।
    मुच्यते पञ्चभिर्घोरैर्महद्भिः पातकैर्द्रुतम ॥ ७-९९॥
    
    अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ।
    अक्रोधो गुरुशुश्रूषा शौचं संतोषमार्जवम ॥ ७-१००॥
    
    अहिंसाद्या यमाः पञ्च यतीनां परिकीर्तिताः ।
    अक्रोधाद्याश्च नियमाः सिद्धिवृद्धिकराः स्मृताः ॥ ७-१०१॥
    
    दशलाक्षणिको धर्मः शिवाचारः प्रकीर्तितः ।
    योगीन्द्राणां विशेषेण शिवयोगप्रसिद्धये ॥ ७-१०२॥
    
    न विन्दति नरो योगं पुत्रदारादिसंगतः ।
    निबद्धः स्नेहपाशेन मोहस्तम्भबलीयसा ॥ ७-१०३॥
    
    मोहात्कुटुम्बसंसक्तस्तृष्णया शृङ्खलीकृतः ।
    बालैर्बद्धस्तु लोको .अयं मुसलेनाभिहन्यते ॥ ७-१०४॥
    
    इमे बालाः कथं त्याज्या जीविष्यन्ति मया विना ।
    मोहाद्धि चिन्तयत्येवं परमार्थौ न पश्यति ॥ ७-१०५॥
    
    संपर्कादुदरे न्यस्तः शुक्रबिन्दुरचेतनः ।
    स पित्रा केन यत्नेन गर्भस्थः परिपालितः ॥ ७-१०६॥
    
    कर्कशाः कठिना भक्षा जीर्यन्ते यत्र भक्षिताः ।
    तस्मिन्नेवोदरे शुक्रं किं न जीर्यति भक्ष्यवत ॥ ७-१०७॥
    
    येनैतद्योजितं गर्भे येन चैव विवर्धितम ।
    तेनैव निर्गतं भूयः कर्मणा स्वेन पाल्यते ॥ ७-१०८॥
    
    न कश्चित्कस्यचित्पुत्रः पिता माता न कस्यचित ।
    यत्स्वयं प्राक्तनं कर्म पिता मातेति तत्स्मृतम ॥ ७-१०९॥
    
    येन यत्र कृतं कर्म स तत्रैव प्रजायते ।
    पितरौ चास्य दासत्वं कुरुतस्तत्प्रचोदितौ ॥ ७-११०॥
    
    न कश्चित्कस्यचिच्छक्तः कर्तुं दुःखं सुखानि च ।
    करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम ॥ ७-१११॥
    
    कर्मदायादसंबन्धादुपकारः परस्परम ।
    दृश्यते नापकारश्च मोहेनात्मनि मन्यते ॥ ७-११२॥
    
    ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम ।
    ग्रामस्वामिप्रसादेन सुकृतं कर्षणं यथा ॥ ७-११३॥
    
    द्वयं देवत्वमोक्षाय ममेति न ममेति च ।
    ममेति बध्यते जन्तुर्न ममेति विमुच्यते ॥ ७-११४॥
    
    द्व्यक्षरं च भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम ।
    ममेति द्व्यक्षरं मृत्युस्त्र्यक्षरं न ममेति च ॥ ७-११५॥
    
    तस्मादात्मन्यहंकारमुत्सृज्य प्रविचारतः ।
    विधूयाशेषसङ्गांश्च मोक्षोपायं विचिन्तयेत ॥ ७-११६॥
    
    ज्ञानाद्योगपरिक्लेशं कुप्रावरणभोजनम ।
    कुचर्यां कुनिवासं च मोक्षार्थी न विचिन्तयेत ॥ ७-११७॥
    
    न दुःखेन विना सौख्यं दृश्यते सर्वदेहिनाम ।
    दुःखं तन्मात्रकं ज्ञेयं सुखमानन्त्यमुत्तमम ॥ ७-११८॥
    
    सेवायां पाशुपाल्ये च वानिज्ये कृषिकर्मणि ।
    तुल्ये सति परिक्लेशे वरं क्लेशो विमुक्तये ॥ ७-११९॥
    
    स्वर्गापवर्गयोरेकं यः शीघ्रं न प्रसाधयेत ।
    याति तेनैव देहेन स मृतस्तप्यते चिरम ॥ ७-१२०॥
    
    यदवश्यं पराधीनैस्त्यजनीयं शरीरकम ।
    कस्मात्तेन विमूढात्मा न साधयति शाश्वतम ॥ ७-१२१॥
    
    यौवनस्था गृहस्थाश्च प्रासादस्थाश्च ये नृपाः ।
    सर्व एव विशीर्यन्ते शुष्कस्निग्धान्नभोजनाः ॥ ७-१२२॥
    
    अनेकदोषदुष्टस्य देहस्यैको महान्गुणह ।
    यां यामवस्थामाप्नोति तां तामेवानुवर्तते ॥ ७-१२३॥
    
    मन्दं परिहरन्कर्म स्वदेहमनुपालयेत ।
    वर्षासु जीर्णकटवत्तिष्ठन्नप्यवसीदति ॥ ७-१२४॥
    
    न ते .अत्र देहिनः सन्ति ये तिष्ठन्ति सुनिश्चलाः ।
    सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्वकर्मभिः ॥ ७-१२५॥
    
    तुल्ये सत्यपि कर्तव्ये वरं कर्म कृतं परम ।
    यः कृत्वा न पुनः कुर्यान्नानाकर्म शुभाशुभम ॥ ७-१२६॥
    
    तस्मादन्तर्बहिश्चिन्तामनेकाकारसंस्थिताम ।
    संत्यज्यात्महितार्थाय स्वाध्यायध्यानमभ्यसेत ॥ ७-१२७॥
    
    विविक्ते विजने रम्ये पुष्पाश्रमविभूषिते ।
    स्थानं कृत्वा शिवस्थाने ध्यायेच्छान्तं परं शिवम ॥ ७-१२८॥
    
    ये .अतिरम्याण्यरण्यानि सुजलानि शिवानि तु ।
    विहायाभिरता ग्रामे प्रायस्ते दैवमोहिताः ॥ ७-१२९॥
    
    विवेकिनः प्रशान्तस्य यत्सुखं ध्यायतः शिवम ।
    न तत्सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा ॥ ७-१३०॥
    
    इति नामामृतं दिव्यं महाकालादवाप्तवान ।
    विस्तरेणानुपूर्वाच्च ऋष्यात्रेयः  सुनिश्चितम ॥ ७-१३१॥
    
    प्रज्ञामथा विनिर्मथ्य  शिवज्ञानमहोदधिम ।
    ऋष्यात्रेयः समुद्धृत्य प्राहेदमणुमात्रकम ॥ ७-१३२॥
    
    शिवधर्मे महाशास्त्रे शिवधर्मस्य चोत्तरे ।
    यदनुक्तं भवेत्किंचित्तदत्र परिकीर्तितम ॥ ७-१३३॥
    
    त्रिदैवत्यमिदं शास्त्रं मुनीन्द्रात्रेयभाषितम ।
    तिर्यङ्मनुजदेवानां सर्वेषां च विमुक्तिदम ॥ ७-१३४॥
    
    नन्दिस्कन्दमहाकालास्त्रयो देवाः प्रकीर्तिताः ।
    चन्द्रात्रेयस्तथात्रिश्च ऋष्यात्रेयो मुनित्रयम ॥ ७-१३५॥
    
    एतैर्महात्मबिः प्रोक्ताः शिवधर्माः समासतः ।
    सर्वलोकोपकारार्थं नमस्तेभ्यः सदा नमः ॥ ७-१३६॥
    
    तेषां शिष्यप्रशिष्यैश्च शिवधर्मप्रवक्तृभिः ।
    व्याप्तं ज्ञानसरः शार्वं विकचैरिव पङ्कजैः ॥ ७-१३७॥
    
    ये श्रावयन्ति सततं शिवधर्मं शिवार्थिनाम ।
    ते रुद्रास्ते मुनीन्द्राश्च ते नमस्याः स्वभक्तितः ॥ ७-१३८॥
    
    ये समुत्थाय शृण्वन्ति शिवधर्मं दिने दिने ।
    ते रुद्रा रुद्रलोकेशा न ते प्रकृतिमानुषाः ॥ ७-१३९॥
    
    शिवोपनिषदं ह्येतदध्यायैः सप्तभिः स्मृतम ।
    ऋष्यात्रेयसगोत्रेण मुनिना हितकाम्यया ॥ ७-१४०॥
    
    ॥ इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः ॥
    
    ॥ इति शिवोपनिषत्समाप्ता ॥
    

    Back to Sanskrit Scriptures and Stotras Page
    Back to Scriptures and Stotras Page
    Back to Shaivam Home Page