सदाशिवाष्टकम

Sadashiva Ashtakam


सदा शिव अष्टकम

श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं

शीर्षजटागणभारं गरळाहारं समस्तसंहारम । 
कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥१॥ 

चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्रयीपालम । 
कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥२॥ 

कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम । 
संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥३॥ 

कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम । 
विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥४॥ 

त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैव संशान्तम । 
लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे ॥५॥ 

सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदालयावेशम । 
विगताशेषक्लेशं देशं सर्वेष्टसंपदां वन्दे ॥६॥ 

करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकम । 
परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥७॥

भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम । 
प्रमथसमूहसहायं सायंप्रातर्निरन्तरं वन्दे ॥८॥ 

यस्तु पदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम । 
पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम ॥९॥ 

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं सदाशिवाष्टकं संपूर्णम ॥


Back to Sanskrit Scriptures and Stotras Page
Back to Scriptures and Stotras Page
Back to Shaivam Home Page