logo

|

Home >

shaivism-a-perspective >

holy-ash

Om symbol

Holy Ash

Om symbol

The holy Ash is the substance the devotees wear on their bodies with adoration and respect. This along with the rudrAxa beads (1) shows up the devotees of the Simple but Supreme Lord shiva. The holy Ash has lots of spiritual sense. There are lots of hymns telling the glory of the holy Ash. ((2) - for example). Ash - the substance that is arrived when things are completely burnt off. In natural terms it is a final state. The state where it has nothing left to burn off ! This indicates the transience of the beings and the Permanence of the Supreme that smears in this ash. This also indicates the matured state of bliss the devotees would be heading towards which stands beyond perturbance - transformation (nothing to burn off).

In the Veda, Rudra Ganas are hailed as “निलग्रीवाः शितिकण्ठाः” (with blue throat, ash smeared white throat).

Taittiriya Shakha advises, “सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् ।” (Never neglect the truth, Never neglect the dharma. Never neglect the welfare. Never neglect the Vibhuti.) 

Veda Samhita references for Bhasma:

क्रीळ॑न्नो रश्म॒ आ भु॑वः॒ सं भस्म॑ना वा॒युना॒ वेवि॑दानः । ता अ॑स्य सन्धृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥ RV ५.०१९.०५


स॒मु॒द्रं ग॑च्छ॒ स्वाहा॑ ऽन्तरि॑क्षं गच्छ॒ स्वाहा॑ दे॒वᳪ स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑ऽहोरा॒त्रे ग॑च्छ॒ स्वाहा॑ छन्दा॑ᳪसि गच्छ॒ स्वाहा॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॑ य॒ज्ञं ग॑च्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ दि॒व्यं नभो॑ गच्छ॒ स्वाहा॒ ऽग्निं वै॑श्वान॒रं ग॑च्छ॒ स्वाहा॒ मनो॑ मे॒ हार्दि॑ यच्छ॒ दिवं॑ ते धू॒मो ग॑च्छतु॒ स्वर्ज्योति॑: पृथि॒वीं भस्म॒नाऽऽपृ॑ण॒ स्वाहा॑ ।। २१ ।। SY 6

आपो॑ देवी॒: प्रति॑ गृभ्णीत॒ भस्मै॒तत्स्यो॒ने कृ॑णुध्वᳪ सुर॒भा उ॑ लो॒के । तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रं बि॑भृता॒प्स्वे॒नत् ।। ३५ ।।  SY 12


प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । स॒ᳪसृज्य॑ मा॒तृभि॒ष्ट्वं ज्योति॑ष्मा॒न् पुन॒रा ऽस॑दः ।। ३८ ।। SY 12

सं॒ज्ञान॑मसि काम॒धर॑णं॒ मयि॑ ते काम॒धर॑णं भूयात् । अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि॒ । चित॑ स्थ परि॒चित॑ ऊर्ध्व॒चित॑: श्रयध्वम् ।। ४६ ।।  SY 12

अ॒पां त्वेम॑न्त्सादयाम्य॒पां त्वोद्म॑न्त्सादयाम्य॒पां त्वा॒ भस्म॑न्त्सादयाम्य॒पां त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाऽय॑ने सादयाम्यर्ण॒वे त्वा॒ सद॑ने सादयामि समु॒द्रे त्वा॒ सद॑ने सादयामि सरि॒रे त्वा॒ सद॑ने सादयाम्य॒पां त्वा॒ क्षये॑ सादयाम्य॒पां त्वा॒ सधि॑षि सादयाम्य॒पां त्वा॒ सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ योनौ॑ सादयाम्य॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि गाय॒त्रेण॑ त्वा॒ छन्द॑सा सादयामि॒ त्रै॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि॒ जाग॑तेन त्वा॒ छन्द॑सा सादया॒म्यानु॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा सादयामि ।। ५३ ।।  SY 13

इन्द्र॑स्य क्री॒डोऽदि॑त्यै पाज॒स्यं॒ दि॒शां ज॒त्रवोऽदि॑त्यै भ॒सज्जी॒मूता॑न् हृदयौप॒शेना॒न्तरि॑क्षं पुरी॒तता॒ नभ॑ उद॒र्ये॒ण चक्रवा॒कौ मत॑स्नाभ्यां॒ दिवं॑ वृ॒क्काभ्यां॑ गि॒रीन् प्ला॒शिभि॒रुप॑लान् प्ली॒ह्ना व॒ल्मीका॑न् क्लो॒मभि॑र्ग्लौ॒भिर्गुल्मा॑न् हि॒राभि॒: स्रव॑न्तीर्ह्र॒दान् कु॒क्षिभ्या॑ᳪ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना ।। ८ ।।  SY 25

वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ᳪ शरी॑रम् । ओ३म् क्रतो॑ स्मर । क्लि॒बे स्म॑र । कृ॒तᳪ स्म॑र ।। १५ ।। SY 40

वि॒त्ताय॑नी मेऽसि ति॒क्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तमव॑तान्मा व्यथि॒तं वि॒देर॒ग्निर्नभो॒ नामाग्ने॑ अङ्गिरो॒ यो᳚ऽस्यां पृ॑थि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वाऽऽद॒धेऽग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यां तृ॒तीय॑स्यां पृथि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वाऽऽद॑धे सि॒ꣳ॒हीर॑सि महि॒षीर॑स्यु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथतां ध्रु॒वाऽसि॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुम्भस्वेन्द्र घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त्पातु॒ मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पा॑तु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्वात्पा॑तु वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑तु सि॒ꣳ॒हीर॑सि सपत्नसा॒ही स्वाहा॑ सि॒ꣳ॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहा॑ सि॒ꣳ॒ही र॑सि राय॒स्पोष॒वनिः॒ स्वाहा॑ सि॒ꣳ॒हीर॑स्यादित्य॒वनिः॒ स्वाहा॑ सि॒ꣳ॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा वि॒श्वायु॑रसि पृथि॒वीं दृꣳ॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृꣳहाच्युत॒क्षिद॑सि॒ दिवं॑ दृꣳहा॒ग्नेर्भस्मा᳚स्य॒ग्नेः पुरी॑षमसि ॥
KY 1.1.2.12

अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ । प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ॥ प्रेद॑ग्ने॒ ज्योति॑ष्मान्, याहि शि॒वेभि॑र॒र्चिभि॒स्त्वम् । बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न्मा हिꣳ॑सीस्त॒नुवा᳚ प्र॒जाः ॥ स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आ ऽस्मि॑न् ह॒व्या जु॑होतन ॥ प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ श‍ृण्वे॒ वि यथ्सूऱ्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ ॥ आपो॑ देवीः॒ प्रति॑ गृह्णीत॒ भस्मै॒तथ्स्यो॒ने कृ॑णुध्वꣳ सुर॒भावु॑ लो॒के । तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी᳚र्मा॒तेव॑ पु॒त्रं बि॑भृ॒ता स्वे॑नम् ॥ अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥ गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम् । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि ॥ प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । स॒ꣳ॒सृज्य॑ मा॒तृभि॒स्त्वं ज्योति॑ष्मा॒न् पुन॒रास॑दः ॥ पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॒स्याꣳ शि॒वत॑मः ॥ पुन॑रू॒र्जा निव॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ॥ स॒ह र॒य्यानिव॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑ ॥ पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः । घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ बोधा॑ नो अ॒स्य वच॑सो यविष्ठ॒ मꣳहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒नुवं॑ वन्दे अग्ने ॥ स बो॑धि सू॒रिर्म॒घवा॑ वसु॒दावा॒ वसु॑पतिः । यु॒यो॒ध्य॑स्मद्द्वेषाꣳ॑सि ॥
KY 1.6.2.3

अ॒पां त्वेमन्᳚थ्सादयाम्य॒पां त्वोद्मन्᳚थ्सादयाम्य॒पां त्वा॒ भस्मन्᳚थ्सादयाम्य॒पां त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाय॑ने सादयाम्यर्ण॒वे सद॑ने सीद समु॒द्रे सद॑ने सीद सलि॒ले सद॑ने सीदा॒पां क्षये॑ सीदा॒पाꣳ सधि॑षि सीदा॒पां त्वा॒ सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ योनौ॑ सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि गाय॒त्री छंद॑स्त्रि॒ष्टुप्छन्दो॒ जग॑ती॒ छन्दो॑ऽनु॒ष्टुप्छंदः॑ प॒ङ्क्तिश्छंदः॑ ॥
KY 1.4.3.1

इन्द्र॑स्य क्रो॒डोदि॑त्यै पाज॒स्यं॑ दि॒शां ज॒त्रवो॑ जी॒मूता᳚न्हृदयौप॒शाभ्या॑म॒न्तरि॑क्षं पुरि॒तता॒ नभ॑ उद॒र्ये॑णेन्द्रा॒णीं प्ली॒ह्ना व॒ल्मीका᳚न्क्लो॒म्ना गि॒रीन्प्ला॒शिभिः॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना ॥
KY 1.5.7.16

नैनं॒ प्रति॑नुदन्ते । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । क्वा॑ सः । अ॒ग्निः का॒र्यः॑ । यो᳚ऽस्मै प्र॒जां प॒शून्प्र॑ज॒नय॒तीति॑ । शल्कै॒स्ताꣳ रात्रि॑म॒ग्निमि॑न्धीत । तस्मि॑न्नुपव्यु॒षम॒रणी॒ निष्ट॑पेत् । यथ॑र्ष॒भाय॑ वाशि॒ता न्या॑विच्छा॒यति॑ । ता॒दृगे॒व तत् । अ॒पो॒दूह्य॒ भस्मा॒ग्निं म॑न्थति ॥ KY 2.1.1.9

अ॒ग्नेर्भस्मा᳚स्य॒ग्नेः पुरी॑षमसि । सं॒ज्ञान॑मसि काम॒धर॑णम् । मयि॑ ते काम॒धर॑णं भूयात् । सं वः॑ सृजामि॒ हृद॑यानि । सꣳसृ॑ष्टं॒ मनो॑ अस्तु वः । सꣳसृ॑ष्टः प्रा॒णो अ॑स्तु वः । सं या वः॑ प्रि॒यास्त॒नुवः॑ । संप्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु॒ संप्रि॑यः । संप्रि॑यास्त॒नुवो॒ मम॑ ॥
KY 2.1.2.1.17

वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते । यस्या᳚ग्निहो॒त्रे॑ऽधिश्रि॑ते॒ श्वाऽन्त॒रा धाव॑ति । रु॒द्रः खलु॒ वा ए॒षः । यद॒ग्निः । यद्गाम॑न्वत्याव॒र्तये᳚त् । रु॒द्राय॑ प॒शूनपि॑दध्यात् । अ॒प॒शुर्यज॑मानः स्यात् । यद॒पो᳚ऽन्वतिषि॒ञ्चेत् । अ॒ना॒द्यम॒ग्नेरापः॑ । अ॒ना॒द्यमा᳚भ्या॒मपि॑ दध्यात् । गार्ह॑पत्या॒द्भस्मा॒दाय॑ । इ॒दं विष्णु॒र्विच॑क्रम॒ इति॑ वैष्ण॒व्यर्चाऽह॑व॒नीया᳚द्ध्व॒ꣳ॒सय॒न्नुद्द्र॑वेत् । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञेनै॒व य॒ज्ञꣳ संत॑नोति । भस्म॑ना प॒दमपि॑ वपति॒ शान्त्यै᳚ ॥
KY 2.1.4.6

अवि॑दहन्त श्रपय॒तेति॒ वाचं॒ विसृ॑जते । य॒ज्ञमे॒व ह॒वीग्ष्य॑भिव्या॒हृत्य॒ प्रत॑नुते । पु॒रो॒रुच॒मवि॑दाहाय॒ श‍ृत्यै॑ करोति । म॒स्तिष्को॒ वै पु॑रो॒डाशः॑ । तं यन्नाभि॑वा॒सये᳚त् । आ॒विर्म॒स्तिष्कः॑ स्यात् । अ॒भिवा॑सयति । तस्मा॒द्गुहा॑ म॒स्तिष्कः॑ । भस्म॑ना॒ऽभिवा॑सयति । तस्मा᳚न्मा॒ꣳ॒सेनास्थि॑ छ॒न्नम् ॥
KY 2.3.2.7

Upanishad references for Bhasma:

यथा तत्स्वामिन इव सर्वज्ञ ईशः पशुपतिः । तज्ज्ञानं केनोपायेन जायते । पुनः स तमुवाच विभूतिधारणादेव । तत्प्रकारः कथमिति । कुत्रकुत्र धार्यम् । पुनः स तमुवाच सद्योजातादिपञ्चब्रह्ममन्त्रैर्भस्म संगृह्याग्निरिति भस्मेत्यनेनाभिमन्त्र्य मानस्तोक इति समुद्धृत्य जलेन संसृज्य त्र्यायुपमिति शिरोललाटवक्षःस्कन्धेष्विति तिसृभिस्त्र्यायुपैस्त्रियम्बकैस्तिस्रो रेखाः प्रकुर्वीत । व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति । तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय । अथ सनत्कुमारः प्रमाणं पृच्छति । त्रिपुण्ड्रधारणस्य त्रिधः रेखा आललाटादाचक्षुषोराभ्रुवोर्मध्यतश्च । यास्य प्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकः स्वात्मा क्रियाशक्तिः ऋग्वेदः प्रातःसवनं प्रजापतिर्देवो देवतेति । यास्य द्वितीया रेखा सा दक्षिणाग्निरुकारः सत्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदो माध्यन्दिनसवनं विष्णुर्देवो देवतेति । यास्य तृतीया रेखा साहवनीयो मकारस्तमो द्यौर्लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं महादेवो देवतेति त्रिपुण्ड्रं भस्मना करोति । यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स महापातकोपपातकेभ्यः पूतो भवति । स सर्वान्देवान्ध्यातो भवति । स सर्वेषु तीर्थेषु स्नातो भवति । स सकलरुद्रमन्त्रजापी भवति । न स पुनरावर्तते न स पुनरावर्तते ॥ Jabali Upanishad

अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वंह वा इदं भस्म मन एतानि चक्षूंषि यस्माद्व्रतमिदं पाशुपतं यद्भस्म नाङ्गानि संस्पृशेत्तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाश विमोक्षणाय ॥ ५॥  Atharvashira Upanishad

अथ जाबालो भुसुण्डः कैलासशिखरावासमोंकारस्वरूपिणं महादेवमुमार्धकृतशेखरं सोमसूर्याग्निनयनमनन्तेन्दुरविप्रभं व्याघ्रचर्माम्बरधरं मृगहस्तं भस्मोद्धूलितविग्रहं तिर्यक्त्रिपुण्ड्ररेखाविराजमानभालप्रदेशं स्मितसम्पूर्णपञ्चविध- पञ्चाननं वीरासनारूढमप्रमेयमनाद्यनन्तं निष्कलं निर्गुणं शान्तं निरञ्जनमनामयं हुंफट्कुर्वाणं शिवनामान्यनिशमुच्चरन्तं हिरण्यबाहुं हिरण्यरूपं हिरण्यवर्णं हिरण्यनिधिमद्वैतं चतुर्थं ब्रह्मविष्णुरुद्रातीतमेकमाशास्यं भगवन्तं शिवं प्रणम्य मुहुर्मुहुरभ्यर्च्य श्रीफलदलैस्तेन भस्मना च नतोत्तमाङ्गः कृताञ्जलिपुटः पप्रच्छाधीहि भगवन्वेदसारमुद्धृत्य त्रिपुण्ड्रविधिं यस्मादन्यानप्रेक्षमेव मोक्षोपलब्धिः । किं भस्मनो द्रव्यम् । कानि स्थानानि । मनवोऽप्यत्र के वा । कति वा तस्य धारणम् । के वात्राधिकारिणः । नियमस्तेषां को वा । मामन्तेवासिनमनुशासयामोक्षमिति । अथ स होवाच भगवान्परमेश्वरः परमकारुणिकः प्रमथान्सुरानपि सोऽन्वीक्ष्य पूतं प्रातरुदयाद्गोमयं ब्रह्मपर्णे निधाय त्र्यम्बकमिति मन्त्रेण शोषयेत् । येन केनापि तेजसा तत्स्वगृह्योक्तमार्गेण प्रतिष्ठाप्य वह्निं तत्र तद्गोमयद्रव्यं निधाय सोमाय स्वाहेति मन्त्रेण ततस्तिलब्रीहिभिः साज्यैर्जुहुयात् । अयं तेनाष्टोत्तरसहस्रं सार्धमेतद्वा । तत्राज्यस्य पर्णमयी जुहूर्भवति । तेन न पापं श‍ृणोति । तद्घोममन्त्रस्र्यम्बकमित्येव अन्ते स्विष्टकृत्पूर्णाहुतिस्तेनैवाष्टदिक्षु बलिप्रदानम् । तद्भस्म गायत्र्या सम्प्रोक्ष्य तद्धैमे राजते ताम्रे मृण्मये वा पात्रे निधाय रुद्रमन्त्रैः पुनरभ्युक्ष्य शुद्धदेशे संस्थापयेत् । ततो भोजयेद्ब्राह्मणान् । ततः स्वयं पूतो भवति । मानस्तोक इति सद्यो जातमित्यादि पञ्चब्रह्ममन्त्रैर्भस्म संगृह्याग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म देवा भस्म ऋषयो भस्म ।  सर्वं ह वा एतदिदं भस्म । पूतं पावनं नमामि सद्यः समस्ताघशासकमिति शिरसाभिनम्य । पूते वामहस्ते वामदेवायेति निधाय त्र्यम्बकमिति सम्प्रोक्ष्य शुद्धं शुद्धेनेति संमृज्य संशोध्य तेनैवापादशीर्षमुद्धूलनमाचरेत् । तत्र ब्रह्ममन्त्राः पञ्च । ततः शेषस्य भस्मनो विनियोगः । तर्जनीमध्यमानामिकाभिरग्नेर्भस्मासीति भस्म संगृह्य मूर्धानमिति मूर्धन्यग्रे न्यसेत् । त्र्यम्बकमिति ललाटे नीलग्रीवायेति कण्ठे कण्ठस्य दक्षिणे पार्श्वे त्र्यायुषमिति वामेति कपोलयोः कालायेति नेत्रयोस्त्रिलोचनायेति श्रोत्रयोः श‍ृणवामेति वक्त्रे प्रब्रवामेति हृदये आत्मन इति नाभौ नाभिरिति मन्त्रेण दक्षिणभुजमूले भवायेति तन्मध्ये रुद्रायेति तन्मणिबन्धे शर्वायेति तत्करपृष्ठे पशुपतय इति वामबाहुमूले उग्रायेति तन्मध्ये अग्रेवधायेति तन्मणिबन्धे दूरेवधायेति तत्करपृष्ठे नमो हन्त्र इति अंसे शङ्करायेति यथाक्रमं भस्म धृत्वा सोमायेति शिवं नत्वा ततः प्रक्षाल्य तद्भस्मापः पुनन्त्विति पिबेत् । नाधो त्याज्यं नाधो त्याज्यम् । एतन्मध्याह्नसायाह्नेषु त्रिकालेषु विधिवद्भस्मधारणमप्रमादेन कार्यम् । प्रमादात्पतितो भवति । ब्राह्मणानामयमेव धर्मोऽयमेव धर्मः । एवं भस्मधारणमकृत्वा नाश्नीयादापोऽन्नमन्यद्वा । प्रमादात्त्यक्त्वा भस्मधारणं न गायत्रीं जपेत् । न जुहुयादग्नौ तर्पयेद्देवानृषीन्पित्रादीन् । अयमेव धर्मः सनातनः सर्वपापनाशको मोक्षहेतुः । नित्योऽयं धर्मो ब्राह्मणानां ब्रह्मचारिगृहिवानप्रस्थयतीनाम् । एतदकरणे प्रत्यवैति ब्राह्मणः । अकृत्वा प्रमादेनैतदष्टोत्तरशतं जलमध्ये स्थित्वा गायत्रीं जप्त्वोपोषणेनैकेन शुद्धो भवति । यतिर्भस्मधारणं त्यक्त्वैकदोपोष्य द्वादशसहस्रप्रणवं जप्त्वा शुद्धो भवति । अन्यथेन्द्रो यतीन्सालावृकेभ्यः पातयति । भस्मनो यद्यभावस्तदा नर्यभस्मदाहनजन्यमन्यद्वावश्यं मन्त्रपूतं धार्यम् । एतत्प्रातः प्रयुञ्जानो रत्रिकृतात्पापात्पूतो भवति । स्वर्णस्तेयात्प्रमुच्यते । मध्यन्दिने माध्यन्दिनं कृत्वोपस्थानान्तं ध्यायमान आदित्याभिमुखोऽधीयानः सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । ब्राह्मणवधात्पूतो भवति । गोवधात्पूतो भवति । अश्ववधात्पूतो भवति । गुरुवधात्पूतो भवति । मातृवधात्पूतो भवति । पितृवधात्पूतो भवति । त्रिकालमेतत्प्रयुञ्जानः सर्ववेदपारायणफलमवाप्नोति । सर्वतीर्थफलमश्नुते । अनपब्रुवः सर्वमायुरेति । विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् । एवमावर्तयेदुपनिषदमित्याह भगवान्सदाशिवः साम्बः सदाशिवः साम्बः ॥ इति प्रथमोऽध्यायः ॥ १॥ अथ भुसुण्डो जाबालो महादेवं साम्बं प्रणम्य पुनः पप्रच्छ किं नित्यं ब्राह्मणानां कर्तव्यं यदकरणे प्रत्यवैति ब्राह्मणः । कः पूजनीयः । को वा ध्येयः । कः स्मर्तव्यः । कथं ध्येयः । क्व स्थातव्यमेतद्ब्रूहीति । समासेन तं होवाच । प्रागुदयान्निर्वर्त्य शौचादिकं ततः स्नायात् । मार्जनं रुद्रसूक्तैः । ततश्चाहतं वासः परिधत्ते पाप्मनोपहृत्यै । उद्यन्तमादित्यमभिध्यायन्नुद्धूलिताङ्गं कृत्वा यथास्थानं भस्मना त्रिपुण्ड्रं श्वेतेनैव रुद्राक्षाञ्छ्वेतान्बिभृयात् । नैतत्संमर्शः । तथान्ये । मूर्ध्नि चत्वारिंशत् । शिखायामेकं त्रयं वा । श्रोत्रयोर्द्वादश । कण्ठे द्वात्रिंशत् । बाह्वोः षोडशषोडश ।  द्वादशद्वादश मणिबन्धयोः । षट्षडङ्गुष्ठयोः । ततः सन्ध्यां सकुशोऽहरहरुपासीत । अग्निर्ज्योतिरित्यादिभिरग्नौ जुहुयात् । शिवलिङ्गं त्रिसन्ध्यमभ्यर्च्य कुशेष्वासीनो ध्यात्वा साम्बं मामेव वृषभारूढं हिरण्यबाहुं हिरण्यवर्णं हिरण्यरूपं पशुपाशविमोचकं पुरुषं कृष्णपिङ्गलमूर्ध्वरेतं विरूपाक्षं विश्वरूपं सहस्राक्षं सहस्रशीर्षं सहस्रचरणं विश्वतोबाहुं विश्वात्मानमेकमद्वैतं निष्कलं निष्क्रियं शान्तं शिवमक्षरमव्ययं हरिहरहिरण्यगर्भस्रष्टारमप्रमेयमनाद्यन्तं रुद्रसूक्तैरभिषिच्य सितेन भस्मना श्रीफलदलैश्च त्रिशाखैरार्द्रैरनार्द्रैर्वा । नैतत्र संस्पर्शः । तत्पूजासाधनं कल्पयेच्च नैवेद्यम् । ततश्चैकादशगुणरुद्रो जपनीयः । एकगुणोऽनन्तः । षडक्षरोऽष्टाक्षरो वा शैवो मन्त्रो जपनीयः ।  ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । ततः शिवायेत्यक्षरत्रयम् । ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । ततो महादेवयेति पञ्चाक्षराणि । नातस्तारकः परमो मन्त्रः ।  तारकोऽयं पञ्चाक्षरः । कोऽयं शैवो मनुः । शैवस्तारकोऽयमुपदिश्यते मनुरविमुक्ते शैवेभ्यो जीवेभ्यः ।  शैवोऽयमेव मन्त्रस्तारयति । स एव ब्रह्मोपदेशः । ब्रह्म सोमोऽहं पवनः सोमोऽहं पवते सोमोऽहं जनिता मतीनां सोमोऽहं जनिता पृथिव्याः सोमोऽहं जनिताऽग्नेः सोमोऽहं जनिता सूर्यस्य सोमोऽहं जनितेन्द्रस्य सोमोऽहं जनितोत विष्णोः सोमोऽहमेव जनिता स यश्चन्द्रमसो देवानां भूर्भुवस्वरादीनां सर्वेषां लोकानां च । विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्सर्वस्य सोमोऽहमेव जनिता विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भादीनहं जायमानान्पश्यामि । यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेशैवमेव । अयमेवात्मान्तरात्मा ब्रह्मज्योतिर्यस्मान्न मत्तोऽन्यः परः । अहमेव परो विश्वाधिकः । मामेव विदित्वामृतत्वमेति । तरति शोकम् । मामेव विदित्वा सांसृतिकीं रुजं द्रावयति । तस्मादहं रुद्रो यः सर्वेषां परमा गतिः । सोऽहं सर्वाकारः । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तं मामेव विदित्वोपासीत । भूतेभिर्देवेभिरभिष्टुतोऽहमेव । भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । सोमोऽत एव योऽहं सर्वेषामधिष्ठाता सर्वेषां च भूतानां पालकः । सोऽहं पृथिवी । सोऽहमापः । सोऽहं तेजः । सोऽहं वायुः । सोऽहं कालः । सोऽहं दिशः । सोऽहमात्मा । मयि सर्वं प्रतिष्ठितम् । ब्रह्मविदाप्नोति परम् । ब्रह्मा शिवो मे अस्तु सदाशिवोम् । अचक्षुर्विश्वतश्चक्षुरकर्णो विश्वतः कर्णोऽपादो विश्वतःपादोऽपाणिर्विश्वतःपाणिराहमशिरा विश्वतःशिरा विद्यामन्त्रैकसंश्रयो विद्यारूपो विद्यामयो विश्वेश्वरोऽहमजरोऽहम् । मामेवं विदित्वा संसृतिपाशात्प्रमुच्यते । तस्मादहं पशुपाशविमोचकः । पशवश्चामानवान्तं मध्यवर्तिनश्च युक्तात्मानो यतन्ते मामेव प्राप्तुम् । प्राप्यन्ते मां न पुनरावर्तन्ते । त्रिशूलगां काशीमधिश्रित्य त्यक्तासवोऽपि मय्येव संविशन्ति । प्रज्वलवह्निगं हविर्यथा न यजमानमासादयति तथासौ त्यक्त्वा कुणपं न तत्तादृशं पुरा प्राप्नुवन्ति । एष एवादेशः । एष उपदेशः । एष एव परमो धर्मः । सत्यात्तत्र कदाचिन्न प्रमदितव्यं तत्रोद्धूलनत्रिपुण्ड्राभ्याम् । तथा रुद्राद्याक्षधारणात्तथा मदर्चनाच्च । प्रमादेनापि नान्तर्देवसदने पुरीषं कुर्यात् । व्रतान्न प्रमदितव्यम् । तद्धि तपस्तद्धि तपः काश्यामेव मुक्तिकामानाम् । न तत्त्याज्यं न तत्त्याज्यं मोचकोऽहमविमुक्ते निवसताम् । नाविमुक्तात्परमं स्थानम् । नाविमुक्तात्परमं स्थानम् । काश्यां स्थानानि चत्वारि । तेषामभ्यर्हितमन्तर्गृहम् । तत्राप्यविमुक्तमभ्यर्हितम् । तत्र स्थानानि पञ्च । तन्मध्ये शिवागारमभ्यर्हितम् । तत्र प्राच्यामैश्वर्यस्थानम् । दक्षिणायां विचालनस्थानम् । पश्चिमायां वैराग्यस्थानम् । उत्तरायां ज्ञानस्थानम् । तस्मिन्यदन्तर्निर्लिप्तमव्ययमनाद्यन्त- मशेषवेदवेदान्तवेद्यमनिर्देश्यमनिरुक्तमप्रच्यवमाशास्यमद्वैतं सर्वाधारमनाधारमनिरीक्ष्यमहरहर्ब्रह्मविष्णुपुरन्दराद्यमरवरसेवितं मामेव ज्योतिःस्वरूपं लिङ्गं मामेवोपासितव्यं तदेवोपासितव्यम् । नैव भावयन्ति तल्लिङ्गं भानुश्चन्द्रोऽग्निर्वायुः । स्वप्रकाशं विश्वेश्वराभिधं पातालमधितिष्ठति । तदेवाहम् । तत्रार्चितोऽहम् । साक्षादर्चितः । त्रिशाखैर्बिल्वदलैर्दीप्तैर्वा योऽभिसम्पूजयेन्मन्मना मय्याहितासुर्मय्येवार्पिताखिलकर्मा भस्मदिग्धाङ्गो रुद्राक्षभूषणो मामेव सर्वभावेन प्रपन्नो मदेकपूजानिरतः  सम्पूजयेत् । तदहमश्नामि । तं मोचयामि संसृतिपाशात् । अहरहरभ्यर्च्य विश्वेश्वरं लिङ्गं तत्र रुद्रसूक्तैरभिषिच्य तदेव स्नपनपयस्त्रिः पीत्वा महापातकेभ्यो मुच्यते । न शोकमाप्नोति । मुच्यते संसारबन्धनात् । तदनभ्यर्च्य नाश्नीयात्फलमन्नमन्यद्वा । यदश्नीयाद्रेतोभक्षीभवेत् । नापः पिबेत् । यदि पिबेत्पूयपो भवेत् । प्रमादेनैकदा त्वनभ्यर्च्य मां भुक्त्वा भोजयित्वा केशान्वापयित्वा गव्यानां पञ्च संगृह्योपोष्य जले रुद्रस्नानम् । जपेत्त्रिवारं रुद्रानुवाकम् । आदित्यं पश्यन्नभिध्याय- न्स्वकृतकर्मकृद्रौद्रेरेव मन्त्रैः कुर्यान्मार्जनम् । ततो भोजयित्वा ब्राह्मणान्पूतो भवति । अन्यथा परेतो यातनामश्नुते । पत्रैः फलैर्वा जलैर्वान्यैर्वाभिपूज्य विश्वेश्वरं मां ततोऽश्नीयात् । कापिलेन पयसाभिषिच्य रुद्रसूक्तेन मामेव शिवलिङ्गरूपिणं ब्रह्महत्यायाः पूतो भवति । कापिलेनाज्येनाभिषिच्य स्वर्णस्तेयात्पूतो भवति । मधुनाभिषिच्य गुरुदारगमनात्पूतो भवति । सितया शर्करयाभिषिच्य सर्वजीववधात्पूतो भवति । क्षीरादिभिरेतैरभिषिच्य सर्वानवाप्नोति कामान् । इत्येकैकं महान्प्रस्थशतं महान्प्रस्थशतमानैः शतैरभिपूज्य मुक्तो भवति संसारबन्धनात् । मामेव शिवलिङ्गरूपिणमार्द्रायां पौर्णमास्यां वामावास्यायां वा महाव्यतीपाते ग्रहणे संक्रान्तावभिषिच्य तिलैः सतण्डुलैः सयवैः सम्पूज्य बिल्वदलैरभ्यर्च्य कापिलेनाज्यान्वित- गन्धसारधूपैः परिकल्प्य दीपं नैवेद्यं साज्यमुपहारं कल्पयित्वा दद्यात्पुष्पाञ्जलिम् । एवं प्रयतोऽभ्यर्च्य मम सायुज्यमेति । शतैर्महाप्रस्थैरखण्डैस्तण्डुलैरभिषिच्य चन्द्रलोककामश्चन्द्रलोकमवाप्नोति । तिलैरेतावद्भिरभिषिच्य वायुलोककामो वायुलोकमवाप्नोति । माषैरेतावद्भिरभिषिच्य वरुणलोककामो वरुणलोकमवाप्नोति । यवैरेतावद्भिरभिषिच्य सूर्यलोककामः सूर्यलोकमवाप्नोति । एतैरेतावद्भिर्द्विगुणैरभिषिच्य स्वर्गलोककामः स्वर्गलोकमवाप्नोति । एतैरेतावद्भिश्चतुर्गुणैरभिषिच्य चतुर्जालं ब्रह्मकोशं यन्मृत्युर्नावपश्यति । तमतीत्य मल्लोककामो मल्लोकमवाप्नोति  नान्यं मल्लोकात्परम् । यमवाप्य न शोचति । न स पुनरावर्तते न स पुनरावर्तते । लिङ्गरूपिणं मां सम्पूज्य चिन्तयन्ति योगिनः सिद्धाः सिद्धिं गताः । यजन्ति यज्वानः । मामेव स्तुवन्ति वेदाः साङ्गाः सोपनिषदः सेतिहासः । न मत्तोऽन्यदहमेव सर्वम् । मयि सर्वं प्रतिष्ठितम् । ततः काश्यां प्रयतैरेवाहमन्वहं पूज्यः । तत्र गणा रौद्रानना नानामुखा नानाशस्त्रधारिणो नानारूपधरा नानाचिह्निताः । ते सर्वे भस्मदिग्धाङ्गा रुद्राक्षाभरणाः कृताञ्जलयो नित्यमभिध्यायन्ति । तत्र पूर्वस्यं दिशि ब्रह्मा कृताञ्जलिरहर्निशं मामुपास्ते । दक्षिणस्यां दिशि विष्णुः कृत्वैव मूर्धाञ्जलिं मामुपास्ते । प्रतीच्यामिन्द्रः सन्नताङ्ग उपास्ते । उदीच्यामग्निकायमुमानुरक्ता हेमाङ्गविभूषणा हेमवस्त्रा मामुपासते मामेव वेदाश्चतुर्मूर्तिधराः । दक्षिणायां दिशि मुक्तिस्थानं तन्मुक्तिमण्डपसंज्ञितम् । तत्रानेकगणाः पालकाः सायुधाः पापघातकाः । तत्र ऋषयः शाम्भवाः पाशुपता महाशैवा वेदावतंसं शैवं पञ्चाक्षरं जपन्तस्तारकं सप्रणवं मोदमानास्तिष्ठन्ति । तत्रैका रत्नवेदिका । तत्राहमासीनः काश्यां त्यक्तकुणपाञ्छैवानानीय स्वस्याङ्के संनिवेश्य भसितरुद्राक्षभूषितानुपस्पृश्य मा भूदेतेषां जन्म मृतिश्चेति तारकं शवं मनुमुपदिशामि । ततस्ते मुक्ता मामनुविशन्ति विज्ञानमयेनाङ्गेन । न पुनरावर्तन्ते हुताशनप्रतिष्ठं हविरिव तत्रैव मुक्त्यर्थमुपदिश्यते शैवोऽयं मन्त्रः पञ्चाक्षरः । तन्मुक्तिस्थानम् । तत ओङ्काररूपम् । ततो मदर्पितकर्मणां मदाविष्टचेतसां मद्रूपता भवति । नान्येषमियं ब्रह्मविद्येयं ब्रह्मविद्या । मुमुक्षवः काश्यामेवासीना वीर्यवन्तो विद्यावन्तः । विज्ञानमयं ब्रह्मकोशम् । चतुर्जालं ब्रह्मकोशम् । यन्मृत्युर्नावपश्यति । यं ब्रह्मा नावपश्यति । यं विष्णुर्नावपश्यति । यमिन्द्राग्नी नावपश्येताम् । यं वरुणादयो नावपश्यन्ति । तमेव तत्तेज प्लुष्टविड्भावं हैममुमां संश्लिष्य वसन्तं चन्द्रकोटिसमप्रभं चन्द्रकिरीटं सोमसूर्याग्निनयनं भूतिभूषितविग्रहं शिवं मामेवमभिध्यायन्तो मुक्तकिल्बिषास्त्यक्तबन्धा मय्येव लीना भवन्ति । ये चान्ये काश्यां पुरीष कारिणः प्रतिग्रहरतास्त्यक्तभस्मधारणास्त्यक्तरुद्राक्षधारणास्त्यक्त- सोमवारव्रतास्त्यक्तग्रहयागास्त्यक्तविश्वेश्वरार्चनास्त्यक्त- पञ्चाक्षरजपास्त्यक्तभैरवार्चना भैरवीं घोरादियातनां नानाविधां काश्यां परेता भुक्त्वा ततः शुद्धा मां प्रपद्यन्ते च । अन्तर्गृहे रेतो मूत्रं पुरीषं वा विसृजन्ति तदा तेन सिञ्चन्ते पितॄन् । तमेव पापकारिणं मृतं पश्यन्नीललोहितो भैरवस्तं पातयत्यस्रमण्डले ज्वलज्ज्वलनकुण्डेष्वन्येष्वपि । ततश्चाप्रमादेन निवसेदप्रमादेन निवसेत्काश्यां लिङ्गरूपिण्यामित्युपनिषत् ॥  Bhasmajabala Upanishad

ॐ तदेति । सद्योजातात्पृथिवी । तस्याः स्यान्निवृत्तिः । तस्याः कपिलवर्णानन्दा । तद्गोमयेन विभूतिर्जाता । वामदेवादुदकम् । तस्मात्प्रतिष्ठा । तस्याः कृष्णवर्णाभद्रा । तद्गोमयेन भसितं जातम् । अघोराद्वह्निः । तस्माद्विद्या । तस्या रक्तवर्णा सुरभिः । तद्गोमयेन भस्म जातम् । तत्पुरुषाद्वायुः । तस्माच्छान्तिः । तस्याः श्वेतवर्णा सुशीला । तस्या गोमयेन क्षारं जातम् । ईशानादाकाशम् । तस्माच्छान्त्यतीता । तस्याश्चित्रवर्णा सुमनाः । तद्गोमयेन रक्षा जाता । विभूतिर्भसितं भस्म क्षारं रक्षेति भस्मनो भवन्ति पञ्च नामानि । पञ्चभिर्नामभिर्भृशमैश्वर्यकारणाद्भूतिः । भस्म सर्वाघभक्षणात् । भासनाद्भसितम् । क्षारणदापदां क्षारम् । भूतप्रेतपिशाचब्रह्मराक्षसापस्मारभवभीतिभ्योऽभिरक्षण अद्रक्षेति ॥ 

अथ भुसुण्डः कालाग्निरुद्रमग्नीषोमात्मकं भस्मस्नानविधिं पप्रच्छ । अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकं भस्म सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते । रौद्री घोरा या तैजसी तनूः । सोमः शक्त्यमृतमयः शक्तिकरी तनूः । अमृतं यत्प्रतिष्ठा सा तेजोविद्याकला स्वयम् । स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी ॥ १॥ द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका । तथैव रसशक्तिश्च सोमात्मा चानलात्मिका ॥ २॥ वैद्युदादिमयं तेजो मधुरादिमयो रसः । तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम् ॥ ३॥ अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते । अत एव हविः क्लृप्तमग्नीषोमात्मकं जगत् ॥ ४॥ ऊर्ध्वशक्तिमयं सोम अधोशक्तिमयोऽनलः । ताभ्यां सम्पुटितस्तस्माच्छश्वद्विश्वमिदं जगत् ॥ ५॥ अग्नेरूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम् । यावदग्न्यात्मकं सौम्यममृतं विसृत्यधः ॥ ६॥ अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वगा । यावदादहनश्चोर्ध्वमधस्तात्पावनं भवेत् ॥ ७॥ आधारशक्त्यावधृतः कालाग्निरयमूर्ध्वगः । तथैव निम्नगः सोमः शिवशक्तिपदास्पदः ॥ ८॥ शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिमयः शिवः । तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किंचन ॥ ९॥ असकृच्चाग्निना दग्धं जगत्तद्भस्मसात्कृतम् । अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म यत्ततः ॥ १०॥ यश्चेत्थं भस्मसद्भावं ज्ञात्वाभिस्नाति भस्मना । अग्निरित्यादिभिर्मन्त्रैर्दग्धपापः स उच्यते ॥ ११॥ अग्नेर्वीर्यं च तद्भस्म सोमेनाप्लावितं पुनः । अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ १२॥ योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः । शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्तते ॥ १३॥ अतो मृत्युञ्जयायेत्थममृतप्लावनं सताम् । शिवशक्त्यमृतस्पर्शे लब्ध एव कुतो मृतिः ॥ १४॥ यो वेद गहनं गुह्यं पावनं च तथोदितम् । अग्नीषोमपुटं कृत्वा न स भूयोऽभिजायते ॥ १५॥ शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेन यः । प्लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते सोऽमृत्वाय कल्पत इति ॥ १६॥

अथ भुसुण्डः कालाग्निरुद्रं विभूतियोगमनुब्रूहीति होवाच विकटाङ्गामुन्मत्तां महाखलां मलिनामशिवादिचिह्नान्वितां पुनर्धेनुं कृशाङ्गां वत्सहीनामशान्तामदुघ्धदोहिनीं निरिन्द्रियां जग्धतृणां केशचेलास्थिभक्षिणीं सन्धिनीं नवप्रसूतां रोगार्तां गां विहाय प्रशस्तगोमयमाहरेद्गोमयं स्वस्थं ग्राह्यं शुभे स्थाने वा पतितमपरित्यज्यात ऊर्ध्वं मर्दयेद्गव्येन गोमयग्रहणं कपिला वा धवला वा अलाभे तदन्या गौः स्याद्दोषवर्जिता कपिलागोर्भस्मोक्तं लब्धं गोभस्म नो चेदन्यगोक्षारं यत्र क्वापि स्थितं च यत्तन्न हि धार्यं संस्कारसहितं धार्यम् । तत्रैते श्लोका भवन्ति । विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते । गुणत्रयाश्रया विद्या सा विद्या च तदाश्रया ॥ १॥ गुणत्रयमिदं धेनुर्विद्याभूद्गोमयं शुभम् । मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥ वत्सस्तु स्मृतयश्चास्य तत्सम्भूतं तु गोमयम् । आगाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेत् ॥ ३॥ गावो भग गावो इति प्राशयेत्तर्पणं जलम् । उपोष्य च चतुर्दश्यां शुक्ले कृष्णेऽथवा व्रती ॥ ४॥ परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः । कृतस्नानो धौतवस्त्रः पयोर्धं च सृजेच्च गाम् ॥ ५॥ उत्थाप्य गां प्रयत्नेन गायत्र्या मूत्रमाहरेत् । सौवर्णे राजते ताम्रे धारयेन्मृण्मये घटे ॥ ६॥ पौष्करेऽथ पलाशे वा पात्रे गोश‍ृङ्ग एव वा । आदधीत हि गोमूत्रं गन्धद्वारेति गोमयम् ॥ ७॥ अभूमिपातं गृह्णीयात्पात्रे पूर्वोदिते गृही । गोमयं शोधयेद्विद्वान्श्रीर्मे भजतुमन्त्रतः ॥ ८॥ अलक्ष्मीर्म इति मन्त्रेण गोमयं धान्यवर्जितम् । संत्वासिंचामि मन्त्रेण गोमये क्षिपेत् ॥ ९॥ पञ्चानां त्विति मन्त्रेण पिण्डानां च चतुर्दश । कुर्यात्संशोध्य किरणैः सौरकैराहरेत्ततः ॥ १०॥ निदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान् । स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमीजयेत् ॥ ११॥ पिण्डांश्च निक्षिपेत्तत्र आद्यन्तं प्रणवेन तु । षडक्षरस्य सूक्तस्य व्याकृतस्य तथाक्षरैः ॥ १२॥ स्वाहान्ते जुहुयात्तत्र वर्णदेवाय पिण्डकान् । आघारावाज्यभागौ च प्रक्षिपेद्व्याहृतीः सुधीः ॥ १३॥ ततो निधनपतये त्रयोविंशज्जुहोति च । होतव्याः पञ्च ब्रह्माणि नमो हिरण्यबाहवे ॥ १४॥ इति सर्वाहुतिर्हुत्वा चतुर्थ्यन्तैश्च मन्त्रकैः । ऋतंसत्यं कद्रुद्राय यस्य वकङ्कतीति च ॥ १५॥ एतैश्च जुहुयाद्विद्वाननाज्ञातत्रयं तथा । व्याहृतीरथ हुत्वा च ततः स्विष्टकृतं हुनेत् ॥ १६॥ होमशेषं तु निर्वर्त्य पूर्णपात्रोदकं तथा । पूर्णमसीति यजुषा जलेनान्येन बृंहयेत् ॥ १७॥ ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत् । प्राच्यामिति दिशां लिङ्गैर्दिक्षु तोयं विनिक्षिपेत् ॥ १८॥ ब्रह्मणे दक्षिणां दत्त्वा शान्त्यै पुलकमाहरेत् । आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये ॥ १९॥ जातवेदसमेनं त्वां पुलकैश्छादयाम्यहम् । मन्त्रेणानेन तं वह्निं पुलकैश्छादयेत्ततः ॥ २०॥ त्रिदिनं ज्वलनस्थित्यै छादनं पुलकैः स्मृतम् । ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुञ्जीत वाग्यतः ॥ २१॥ भस्माधिक्यमभीप्सुस्तु अधिकं गोमयं हरेत् । दिनत्रयेण यदि वा एकस्मिन्दिवसेऽथवा ॥ २२॥ तृतीये वा चतुर्थे वा प्रातः स्नात्वा सिताम्बरः । शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ २३॥ शुक्लदन्तो भस्मदिग्धो मन्त्रेणानेन मन्त्रवित् । ॐ तद्ब्रह्मेति चोच्चार्य पौलकं भस्म संत्यजेत् ॥ २४॥ तत्र चावाहनमुखानुपचारांस्तु षोडश । कुर्याद्व्याहृतिभिस्त्वेवं ततोऽग्निमुपसंहरेत् ॥ २५॥ अग्निर्भस्मेति मन्त्रेण गृह्णीयाद्भस्म चोत्तरम् । अग्निरित्यादिमन्त्रेण प्रमृज्य च ततः परम् ॥ २६॥ संयोज्य गन्धसलिलैः कपिलामूत्रकेण वा । चन्द्रकुङ्कुमकाश्मीरमुशिरं चन्दनं तथा ॥ २७॥ अगरुत्रितयं चैव चूर्णयित्वा तु सूक्ष्मतः । क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममन्त्रतः ॥ २८॥ प्रणवेनाहरेद्विद्वान्बृहतो वटकानथ । अणोरणीयनिति हि मन्त्रेण च विचक्षणः ॥ २९॥ इत्थं भस्म सुसम्पाद्य शुष्कमादय मन्त्रवित् । प्रणवेन विमृज्याथ सप्तप्रणवमन्त्रितम् ॥ ३०॥ ईशानेति शिरोदेशे मुखं तत्पुरुषेण तु । उरुदेशमघोरेण गुह्यं वामेन मन्त्रयेत् ॥ ३१॥ सद्योजातेन वै पादान्सर्वाङ्गं प्रणवेन तु । तत उद्धूल्य सर्वाङ्गमापादतलमस्तकम् ॥ ३२॥ आचम्य वसनं धौतं ततश्चैतत्प्रधारयेत् । पुनराचम्य कर्म स्वं कर्तुमर्हसि सत्तम ॥ ३३॥ अथ चतुर्विधं भस्म कल्पम् । प्रथममनुकल्पम् । द्वितीयमुपकल्पम् । उपोपकल्पं तृतीयम् । अकल्पं चतुर्थम् । अग्निहोत्रं समुद्भूतं विरजानलजमनुकल्पम् । वने शुष्कं शकृत्संगृह्य कल्पोक्तविधिना कल्पितमुपकल्पं स्यात् । अरण्ये शुष्कगोमयं चूर्णीकृत्य गोमूत्रैः पिण्डीकृत्य यथाकल्पं संस्कृतमुपोपकल्पम् ।  शिवालयस्थमकल्पं शतकल्पं च । इत्थं चतुर्विधं भस्म पापं निकृन्तयेन्मोक्षं ददातीति भगवान्कालाग्निरुद्रः ॥ ३४॥

अथ भुसुण्डः कालाग्निरुद्रं भस्मस्नानविधिं ब्रूहीति होवाचाथ प्रणवेन विमृज्याथ सप्तप्रणवेनाभिमन्त्रितमागमेन तु तेनैव दिग्बन्धनं कारयेत्पुनरपि तेनास्त्रमन्त्रेणाङ्गानि मूर्धादीन्युद्धूलयेन्मलस्नानमिदमीशानाद्यैः पञ्चभिर्मन्त्रैस्तनुं क्रमाद्धूलयेत् । ईशानेति शिरोदेशं मुखं तत्पुरुषेण तु । ऊरुदेशमघोरेण गुह्यकं वामदेवतः । सद्योजातेन वै पादो सर्वाङ्गं प्रणवेन तु । आपादतलमस्तकं सर्वाङ्गं तत उद्धूलाचम्य वसनं धौतं श्वेतं प्रधारयेद्विधिस्नानमिदम् ॥ तत्र श्लोका भवन्ति । भस्ममुष्टिं समादाय संहितामन्त्रमन्त्रिताम् । मस्तकात्पादपर्यन्तं मलस्नानं पुरोदितम् ॥ १॥ तन्मन्त्रेणैव कर्तव्यं विधिस्नानं समाचरेत् । ईशाने पञ्चधा भस्म विकिरेन्मूर्ध्नि यत्रतः ॥ २॥ मुखे चतुर्थवक्त्रेण अघोरेणाष्टधा हृदि । वामेन गुह्यदेशे तु त्रिदशस्थानभेदतः ॥ ३॥ अष्टावन्तेन साध्येन पादावद्धूल्य यत्रतः । सर्वाङ्गोद्धूलनं कार्यं राजन्यस्य यथाविधि ॥ ४॥ मुखं विना च तत्सर्वमुद्धूल्य क्रमयोगतः । सन्ध्याद्वये निशीथे च तथा पूर्वावसानयोः ॥ ५॥ सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् । स्त्रियं नपुंसकं गृध्रं बिडालं बकमूषिकम् ॥ ६॥ स्पृष्ट्वा तथाविधानन्यान्भस्मस्नानं समाचरेत् । देवाग्निगुरुवृद्धानां समीपेऽन्त्यजदर्शने ॥ ७॥ अशुद्धभूतले मार्गे कुर्यानोद्धूलनं व्रती । शङ्खतोयेन मूलेन भस्मना मिश्रणं भवेत् ॥ ८॥ योजितं चन्दनेनैव वारिणा भस्मसंयुतम् । चन्दनेन समालिम्पेज्ज्ञानदं चूर्णमेव तत् ॥ ९॥ मध्याह्नात्प्राग्जलैर्युक्तं तोयं तदनुवर्जयेत् ॥ अथ भुसुण्डो भगवन्तं कालाग्निरुद्रं त्रिपुण्ड्रविधिं पप्रच्छ ॥ तत्रैते श्लोका भवन्ति । त्रिपुण्ड्रं कारयेत्पश्चाद्ब्रह्मविष्णुशिवात्मकम् । मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः ॥ १०॥ अनामामध्यमाङ्गुष्ठैरथवा स्यात्त्रिपुण्ड्रकम् । उद्धूलयेन्मुखं विप्रः क्षत्रियस्तच्छिरोदिनम् ॥ ११॥ द्वात्रिंशस्थानके चार्धं षोडशस्थानकेऽपि वा । अष्टस्थाने तथा चैव पञ्चस्थानेऽपि योजयेत् ॥ १२॥ उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोस्तथा । नासावक्रे गले चैवमंसद्वयमतः परम् ॥ १३॥ कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः । नाभौ गुह्यद्वये चैवमूर्वोः स्फिग्बिम्बजानुनी ॥ १४॥ जङ्घाद्वये च पादौ च द्वात्रिंशत्स्थानमुत्तमम् । अष्टमूर्त्यष्टविद्येशान्दिक्पालान्वसुभिः सह ॥ १५॥ धरो ध्रुवश्च सोमश्च कृपश्चैवानिलोऽनलः । प्रत्यूपश्च प्रभासश्च वसवोऽष्टावितीरिताः ॥ १६॥ एतेषां नाममन्त्रेण त्रिपुण्ड्रान्धारयेद्बुधः । विदध्यात्षोडशस्थाने त्रिपुण्ड्रं तु समाहितः ॥ १७॥ शीर्षके च ललाटे च कर्णे कण्ठेंऽसकद्वये । कूर्परे मणिबन्धे च हृदये नाभिपार्श्वयोः ॥ १८॥ पृष्ठे चैकं प्रतिस्थानं जपेत्तत्राधिदेवताः । शिवं शक्तिं च सादाख्यमीशं विद्याख्यमेव च ॥ १९॥ वामादिनवशक्तीश्च एताः षोडश देवताः । नासत्यो दस्रकश्चैव अश्विनौ द्वौ समीरितौ ॥ २०॥ अथवा मूर्ध्न्यलीके च कर्णयोः श्वसने तथा । बाहुद्वये च हृदये नाभ्यामूर्वोर्युगे तथा ॥ २१॥ जानुद्वये च पदयोः पृष्ठभागे च षोडश । शिवश्चेन्द्रश्च रुद्रार्कौ विघ्नेशो विष्णुरेव च ॥ २२॥ श्रीश्चैव हृदयेशश्च तथा नाभौ प्रजापतिः । नागश्च नागकन्याश्च उभे च ऋषिकन्यके ॥ २३॥ पादयोश्च समुद्राश्च तीर्थाः पृष्ठेऽपि च स्थिताः । एवं वा षोडशस्थानमष्टस्थानम्थोच्यते ॥ २४॥ गुरुस्थानं ललाटं च कर्णद्वयमनन्तरम् । असयुग्मं च हृदयं नाभिरित्यष्टमं भवेत् ॥ २५॥ ब्रह्मा च ऋषयः सप्त देवताश्च प्रकीर्तिताः । अथवा मस्तकं बाहू हृदयं नाभिरेव च ॥ २६॥ पञ्चस्थानान्यमून्याहुर्भस्मतत्त्वविदो जनाः । यथासम्भवतः कुर्याद्देशकलाद्यपेक्षया ॥ २७॥ उद्धूलनेऽप्यशक्तश्चेत्त्रिपुण्ड्रादीनि कारयेत् । ललाटे हृदये नाभौ गले च मणिबन्धयोः ॥ २८॥ बाहुमध्ये बाहुमूले पृष्ठे चैव च शीर्षके ॥ ललाटे ब्रह्मणे नमः । हृदये हव्यवाहनाय नमः । नाभौ स्कन्दाय नमः । गले विष्णवे नमः । मध्ये प्रभञ्जनाय नमः । मणिबन्धे वसुभ्यो नमः । पृष्ठे हरये नमः । कुकुदि शम्भवे नमः । शिरसि परमात्मने नमः । इत्यादिस्थानेषु त्रिपुण्ड्रं धारयेत् ॥ त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं प्रभुम् । स्मरन्नमः शिवायेति ललाटे तत्त्रिपुण्ड्रकम् ॥ २९॥ कूर्पराधः पितृभ्यां तु ईशानाभ्यां तथोपरि । ईशाभ्यां नम इत्युक्त्वा पार्श्वयोश्च त्रिपुण्ड्रकम् ॥ ३०॥ स्वच्छाभ्यां नम इत्युक्त्वा धारयेत्तत्प्रकोष्ठयोः । भीमायेति तथा पृष्ठे शिवायेति च पार्श्वयोः ॥ ३१॥ नीलकण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः । पापं नाशयते कृत्स्नमपि जन्मान्तरार्जितम् ॥ ३२॥ कण्ठोपरि कृतं पापं नष्टं स्यात्तत्र धारणात् । कर्णे तु धारणात्कर्णरोगादिकृतपातकम् ॥ ३३॥ बाह्वोबाहुकृतं पापं वक्षःसु मनसा कृतम् । नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा ॥ ३४॥ पार्श्वयोर्धारणात्पापं परस्त्र्यालिङ्गनादिकम् । तद्भस्मधारणं कुर्यात्सर्वत्रैव त्रिपुण्ड्रकम् ॥ ३५॥ ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् । गुणलोकत्रयाणां च धारणं तेन वै श्रुतम् ॥ ३६॥ 

अथ भुसुण्डः कालाग्निरुद्रं नामपञ्चकस्य माहात्म्यं ब्रूहीति होवाच । अथ वसिष्ठवंशजस्य शतभार्यासमेतस्य धनञ्जयस्य ब्राह्मणस्य ज्येष्ठभार्यापुत्रः करुण इति नाम तस्य शुचिस्मिता भार्या । असौ करुणो भ्रातृवैरमसहमानो भवानीतटस्थं नृसिंहमगमत् । तत्र देवसमीपेऽन्येनोपायनार्थं समर्पितं जम्बीरफलं गृहीत्वाजिघ्रत्तदा तत्रस्था अशपन्पाप मक्षिको भव वर्षाणां शतमिति । सोऽपि शापमादाय मक्षिकः सन्स्वचेष्टितं तस्यै निवेद्य मां रक्षेति स्वभार्यामवदत्तदा मक्षिकोऽभवत्तमेवं ज्ञात्वा ज्ञातयस्तैलमध्ये ह्यमारयन्त्सा मृतं पतिमादायारुन्धतीमगमद्भो शुचिस्मिते शोकेनालमरुन्धत्याहामुं जीवयाम्यद्य विभूतिमादायेति एषाग्निहोत्रजं भस्म ॥ मृत्युञ्जयेन मन्त्रेण मृतजन्तौ तदाक्षिपत् । मन्दवायुस्तदा जज्ञे व्यजनेन शुचिस्मिते ॥ १॥ उदतिष्ठत्तदा जन्तुर्भस्मनोऽस्य प्रभावतः । ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत् ॥ २॥ भस्मैव जीवयामास काश्यां पञ्च तदाभवन् । देवानपि तथाभूतान्मामप्येतादृशं पुरा ॥ ३॥ तस्मात्तु भस्मनां जन्तुं जीवयामि तदानघे । इत्येवमुक्त्वा भगवान्दधीचिः समजायत ॥ ४॥ स्वरूपं च ततो गत्वा स्वमाश्रमपदं ययाविति ॥ इदानीमस्य भस्मनः सर्वाघभक्षणसामर्थ्यं विधत्त इत्याह । श्रीगौतमविवाहकाले तामहल्यां दृष्ट्वा सर्वे देवाः कामातुरा अभवन् तदा नष्टज्ञाना दुर्वाससं गत्वा पप्रच्छुस्तद्दोषं शमयिष्यामीत्युवाच ततः शतरुद्रेण मन्त्रेण मन्त्रितं भस्म वै पुरा मयापि दत्तं ब्रह्महत्यादि शान्तम् । इत्येवमुक्त्वा दुर्वासा दत्तवान्भस्म चोत्तमम् । जाता मद्वचनात्सर्वे यूयं तेऽधिकतेजसः ॥ ५॥ शतरुद्रेण मन्त्रेण भस्मोद्धूलितविग्रहाः । निर्धूतरजसः सर्वे तत्क्षणाच्च वयं मुने ॥ ६॥ आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम् । अस्य भस्मनः शक्तिमन्यां श‍ृणु । एतदेव हरिशङ्करयोर्ज्ञानप्रदम् । ब्रह्महत्यादि पापनाशकम् । महाविभूतिदमिति शिववक्षसि स्थितं नखेनादाय प्रणवेनाभिमन्त्र्य गायत्र्या पञ्चाक्षरेणाभिमन्त्र्य हरिर्मस्तकगात्रेषु समर्पयेत् । तथा हृदि ध्यायस्वेति हरिमुक्त्वा हरः स्वहृदि ध्यात्वा दृष्टो दृष्ट इति शिवमाह । ततो भस्म भक्षयेति हरिमाह हरस्ततः । भक्षयिष्ये शिवं भस्म स्नात्वाहं भस्मना पुरा ॥ ७॥ पृष्टेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः । तत्राश्चर्यमतीवासीत्प्रतिबिम्बसमद्युतिः ॥ ८॥ वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात् । तदाप्रभृति शुक्लाभो वासुदेवः प्रसन्नवान् ॥ ९॥ न शक्यं भस्मनो ज्ञानं प्रभावं ते कुतो विभो । नमस्तेऽस्तु नमस्तेऽस्तु त्वामहं शरणं गतः ॥ १०॥ त्वत्पादयुगले शम्भो भक्तिरस्तु सदा मम । भस्मधारणसम्पन्नो मम भक्तो भविष्यति ॥ ११॥ अत एवैषा भूतिर्भूतिकरीत्युक्ता । अस्य पुरस्ताद्वसव आसन्रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा उत्तरतो ब्रह्मविष्णुमहेश्वरा याभ्यां सूर्याचन्द्रमसौ पार्श्वयोस्तदेतदृचाभ्युक्तम् । ऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधिविश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते । य एतद्बृहज्जाबालं सार्वकामिकं मोक्षद्वारमृङ्मयं यजुर्मयं साममयं ब्रह्ममयममृतमयं भवति । य एतद्बृहज्जाबालं बालो वा वेद स महान्भवति । स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति । मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां वा बध्नीत । सप्तद्वीपवती भूभिर्दक्षिणार्थं नावकल्पते । तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति ॥ १२॥

अथ जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवान् त्रिपुण्ड्रविधिं नो ब्रूहीति स होवाच सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्याग्निरिति भस्मेत्यभिमन्त्र्य मानस्तोक इति समुद्धृत्य त्रियायुषमिति जलेन सम्मृज्य त्र्यम्बकमिति शिरोललाटवक्षःस्कन्धेषु धृत्वा पूतो भवति मोक्षी भवति । शतरुद्रेण यत्फलमवप्नोति तत्फलमश्नुते स एष भस्मज्योतिरिति वै याज्ञवल्क्यः ॥ १॥ जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात्किं फलमश्नुत इति स होवाच तद्भस्मधारणादेव मुक्तिर्भवति तद्भस्मधारणादेव शिवसायुज्यमवाप्नोति न स पुनरावर्तते न स पुनरावर्तते स एष भस्मज्योतिरिति वै याज्ञवल्क्यः ॥ २॥ जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात्किं फलमश्नुते न वेति तत्र परमहंसानामसंवर्तक- आरुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेय- रैवतकभुसुण्डप्रभृतयो विभूतिधारणादेवमुक्ताः स्युः स एष भस्मज्योतिरिति वै याज्ञवल्क्यः ॥ ३॥ जनको ह वैदेहः स होवाच याज्ञवल्क्य भस्मस्नानेन किं जायत इति यस्य कस्यचिच्छरीरे यावन्तो रोमकूपास्तावन्ति लिङ्गानि भूत्वा तिष्ठन्ति ब्राह्मणो वा क्षत्रियो वा वैश्यो वा शूद्रो वा तद्भस्मधारणादेतच्छब्दस्य रूपं यस्यां तस्यां ह्येवावतिष्ठते ॥ ४॥ जनको  ह वैदेहः स होवाच पैप्पलादेन सह प्रजापतिलोअकं जगाम तं गत्वोवाच भो प्रजापते त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति तं प्रजापतिरब्रवीद्- यथैवेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रस्येति ॥ ५॥ अथ पैप्पलादो वैकुण्ठं जगाम तं गत्वोवाच भो विष्णो त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति यथैवेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रकस्येति विष्णुराह ॥ ६॥ अथ पैप्पलादः कालाग्निरुद्रं परिसमेत्योवाचाधीहि भगवन् त्रिपुण्ड्रस्य विधिमिति त्रिपुण्ड्रस्य विधिर्मया वक्तुं न शक्य इति सत्यमिति होवाचाथ भस्मच्छन्नः संसारान्मुच्यते भस्मशय्याशयानस्तच्छब्दगोचरः शिवसायुज्यमवाप्नोति न स पुनरावर्तते रुद्राध्यायी सन्नमृतत्वं च गच्छति स एष भस्मज्योतिर्विभूति- धारणाद्ब्रह्मैकत्वं च गच्छति विभूतिधारणादेव सर्वेषु तीर्थेषु स्नातो भवति विभूतिधारणाद्वाराणस्यां स्नानेन यत्फलमवाप्नोति तत्फलमश्नुते स एष भस्मज्योतिर्यस्य कस्यचिच्छरीरे त्रिपुण्ड्रस्य लक्ष्म वर्तते प्रथमा प्रजापतिर्द्वितीया विष्णुस्तृतीया सदाशिव इति स एष भस्मज्योतिरिति स एष भस्मज्योतिरिति ॥ ७॥ अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवन्रुद्राक्षधारणविधिं स होवाच रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते सदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति तन्नयनाज्जाता रुद्राक्षा इति होवाच तस्माद्रुद्राक्षत्वमिति तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति तत्फलमश्नुते स एष भस्मज्योती रुद्राक्ष इति तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदानफलं भवति । तद्रुद्राक्षे एकादशरुद्रत्वं च गच्छति । तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदानफलं भवति । एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच । मूर्ध्नि चत्वारिंशच्छिखायामेकं त्रयं वा श्रोत्रयोर्द्वादश कर्णे द्वात्रिंशद्बाह्वोः षोडश षोडश द्वादश द्वादश मणिबन्धयोः षट् षडङ्गुष्ठयोस्ततः सन्ध्यां सकुशोऽहरहरुपा- सीताग्निर्ज्योतिरित्यादिभिरग्नौ जुहुयात् ॥ ८॥ Brihat Jabala Upanishad

Grihya Sutras:

अथ समिद्धोमानंतरमग्निं पर्युक्ष्य त्रिः त्रिस्त्रिरेकैकं पर्युक्ष्य हुत्वा चेति सूत्रात् ।

अग्निः श्रद्धां च मेघां चाविनिपातितं स्मृति च मे ईलितो जातवेदा अयं श्रुतन्नः संप्रयच्छत्वित्यग्निमुपतिष्ठते ॥ ५ ॥

अग्निः श्रद्धामिति मंत्रेण माणवकाग्निमुपतिष्ठते तिष्ठन् उपस्थानं कुर्यात् तिष्ठनादित्यमुपतिष्ठत इति सूत्रादुपस्थानं तिष्ठता काय ।

सौपर्णव्रतभाषितं । दृष्टं वृद्धसम्प्रदायानुष्ठितं त्र्यायुषं पञ्चभिर्मन्त्रः प्रतिमन्वं ललाटे हृदये दक्षिणस्कन्धे वामे च ततः पृष्टे च पञ्चसु भस्मना I त्रिपुण्ड्रं करोति ॥ ६ ॥

कोदृशं त्रिपुण्ड्रं सौपणंव्रते परिशिष्टे भाषितं । पुनः कीदृशं वृद्धसंप्रदायैः पूवैर्ऋ-षिभिरनुष्ठितं कृतं । उक्तं च वीरभद्रपद्धतौ । ह्यायुष्याणि कुरुते भस्मना ललाटे दक्षिणांसे तथा सव्यहृत्कंठे त्र्यायुषमिति प्रतिमंत्रं । त्र्यायुष्याणि त्रिपुण्ड्राणि । पद्मपुराणे शंभुवचनं रामं प्रति । पापं नाशयते कृत्स्नमपि जन्मशताज्जितं । भस्मनात्सर्वपापानां स्मरणाच्च महेशितुः । भस्मेति च समाख्यातं, तस्य धारण-मुत्तमं ।। यथाविधि ललाटे वै वह्निर्यस्य प्रधारणात् । नाशयेल्लिखितां यामों पटस्थामिव हव्यभुक् । कण्ठे च घारणात्कंठभोगादिकृत पातकं बाह्वोर्बाहुक्कृतं पापं वक्षसि मनसा कृतं । नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा। पाश्वपोर्धारणाद्राम परस्त्र्यालिगनादिजम् । तद्भस्मधारणं शस्तं सर्वत्रैव त्रिपुण्ड्रकम् । ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च प्रघारणम् । गुणलोकत्रयाणां च घारणं तेन वै कृतमिति । कलाग्नि-रुद्रोपनिषदि । भानस्तोक इति समुद्धृत्य शं नो देवीरिति व्यायुषमिति च शिरो ललाटवक्षस्कंधेष्विति त्रिभिस्त्र्यायुषंस्त्र्यंबकैस्तित्त्रो रेखाः प्रकुर्वीतेति । त्रिपुण्ड्रं ब्राह्मणो विद्वान्मनसापि न लंघयेत् । श्रुत्या विघोयते यस्मात्तत्त्यागी पतितो भवेत् ।
मध्यमानामिकांगुष्ठैर्ललाटे भस्मना कृतम् । तत्त्रिपुष्ट्रं भवेछंखं महापातकनाशनं । इति लौगाक्षिसूत्रे । बृहन्नारदीये । त्रिपुण्ड्रघारिणो ये वै ते च भागवतोत्तमाः । रुद्राक्षालंकृता ये च विष्णुनामाभियंत्रिताः । इति ।

स एतेषां वेदानामेकं द्वौ त्रोन्सर्वान् वाघोते य एवं हुत्वाग्निमुपतिष्ठते ॥ ७ ॥

यः पुरुषः हुत्वा अन्यमपि होमं कृत्वा अग्निमुपतिष्ठते । उपस्थानं करोति । एवमुक्तप्रकारेण त्रिपुण्ड्रं करोति । स पुरुषो वेदानां चतुर्णां मध्ये एकं द्वौ वा श्रीन्सर्वान्वा अधीते । अयमर्थः एकत्र त्रिपुण्ड्रधारणादेकवेदाध्ययनमधीते । एवं द्वयोर्दों अधीते ।

त्रिस्त्रीन् चतुर्षु चतुरः पंचसु चतुर्णामध्ययनमघोते । तस्माद्यत्र होमस्तत्रावश्यकं त्रिपुण्ड्रधारणम् । ततः तछंयोरिति जपः । वीरभद्र बालत्रोधिन्यामुक्तत्वात् ॥

॥ इति दशमः खण्डः ॥

Having then sprinkled (water) round (the fire), he approaches the fire with the verse, ‘May Agni (vouchsafe) to me faith and insight, not-forgetting (what I have learned) and memory; may this praiseful Jatavedas give blessing to us.’ He makes with ashes the tripundhra sign which is set forth in the (treatise on the) Sauparnavrata, which is revealed, which agrees with the tradition handed down by the ancients, with the five mantras 'The threefold age' (see above, I, 28, 9), one by one, on five (places), viz. the forehead, the heart, the right shoulder and the left, and then on the back.]. He who approaches the fire after having sacrificed thus, studies of these Vedas, one, two, three, or all. - Shankhyayana Grihya Sutra

तदाग्नेयं भस्म सङ्गा वामपाणितले निक्षिप्य 'मानस्तोके' इत्यद्भिः 'शं नो देवीरभिष्टये' इति संसृज्य संमेळ्य तिर्यक्रिपुण्ड्रमेकपुण्ड्रं वा ब्राह्मणस्य वर्तुळाकारं राज-न्यस्यार्धचन्द्राकृतिं वैश्यस्य ॥ ९

अङ्गानि सन्धापयति 'सरस्वती' इति शिरसि 'मेधावी' इति ललाटे 'तेजस्त्री' इति वक्षसि 'बर्चस्वी' इति 'आयुष्मान् ' दक्षिणेऽसे 'ब्रह्मवर्चसी' इत्युत्तरेंऽसे इति ग्रीवायां 'भूयासम्' इति पिठरे 'स्वस्ति' इति शिरस्यन्येपां स्त्रीणां वोर्ध्वपुण्ड्रम् ॥ १०  - Bodhayana Grihya Sutra

Narayana Bhashya: कीदृशं त्रिपुण्ड्रं सौपणंव्रते परिशिष्टे भाषितं । पुनः कीदृशं वृद्धसंप्रदायैः पूर्वैः ऋषिभिरनुष्ठितं कृतं । उक्तं च वीरभद्रपद्धतौ -  ह्यायुष्याणि कुरुते भस्मना ललाटे दक्षिणांसे तथा सव्यहृत्कंठे त्र्यायुषमिति प्रतिमंत्रं । त्र्यायुष्याणि त्रिपुण्ड्राणि । पद्मपुराणे शंभुवचनं रामं प्रति पापं नाशयते कृत्स्नमपि जन्मशताज्जितं । भस्मनात्सर्वपापानां स्मरणाच्च महेशितुः । भस्मेति च समाख्यातं, तस्य धारण- मुत्तमं ॥ यथाविधि ललाटे वै वह्निस्य प्रचारणात्। नाशयेल्लिखितां यामी पटस्थामिव हव्यभुक् । कण्ठे च धारणात्कंठभोगादिकृत पातकं बाह्वोर्बाहुकृतं पापं वक्षसि मनसा कृतं । नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा पाश्वपोषरणाद्राम परस्त्रया लिंगनादिजम् । तद्भस्मधारणं शस्तं सर्वत्रैव त्रिपुण्ड्रकम् । ब्रह्मविष्णुमहेशानां श्रव्यग्नीनां च प्रधारणम् । गुणलोकत्रयाणां च धारणं तेन वै कृतमिति । कालाग्निरुद्रोपनिषदि । मानस्तोक इति समुद्धृत्य शं नो देवीरिति ज्यायुषमिति च शिरो लाटवक्षस्कंधेष्विति त्रिभित्र्यायुषस्त्रयंबके स्तिस्रो रेखाः प्रकुर्वेतेति । त्रिपुण्ड्रं ब्राह्मणो विद्वान्मनसापि न लंघपेत् । श्रुत्या विधीयते यस्मात्तत्यागी पतितो भवेत् ।  मध्यमानामिकांगुष्ठैः ललाटे भस्मना कृतम् । तत्त्रिपुण्ड्रं भवेच्छंखं महापातकनाशनं । इति लौगाक्षिसूत्रे । बृहन्नारदीये त्रिपुण्ड्रधारिणो ये वै ते च भागवतोत्तमाः । द्राक्षालंकृता ये च विष्णुनामाभियंत्रिताः । इति । (What kind of Tripundra is described in the Suparna vow appendix? And what kind was practiced by the ancient sages in the old tradition? As stated in the Virabhadra manual - "One should apply the ash marks for longevity on the forehead, right shoulder, left heart-region and throat, reciting the Tryayusham mantra for each mark. The three marks of ash are called Tryayushyani (three marks of longevity).")

Itihasa / Puranas:

There are quite a lot of references in the Itihasa, Puranas for Bhasma. It is difficult to list them all here. So , here is a sample.

अष्टस्थानधृतं त्रिपुण्ड्रमलिके स्यादष्टमूर्तिप्रियं तद्वै द्वादशरुद्रदैवतमुमे तद्द्वादशाङ्गैर्धृतम् । मन्ये षोडशशीतलाङ्गकलया धार्यं त्रिपुण्ड्रं तनौ द्वात्रिंशस्थित वर्ष्मणि त्रिभुवनाधीशास्पदं प्राप्नुयात् ॥ ५९॥ धृतं ललाटेऽक्षि दधाति भाले पाणावथैणं शिरसीन्दुगङ्गाम् । वक्षस्सुचक्षुःश्रवसोरुहारं हारोभवेत् भूतिविभूतिभानैः ॥ ६०॥ यो वह्निसप्तकमनुप्रथितोरु भस्म- भूषस्त्रयायुषमनुप्रथितोरुपुण्ड्रः । भालैणवाहसख एणकृताङ्कमौलि- रेणीदृशार्धतनुरेणकरो भवेत् सः ॥ ६१॥ विरजानलजां समिद्भवां वा सितवर्णां किल धारयेद्विभूतिम् । स्मृतिजातानलभस्मधार्यमाहु- र्गृहिणां वै नियमेन सर्वथापि ॥ ६२॥ वनदावोत्थभवं वनेचरो यतयः सर्वगतं सितं सदा । अतिवर्णाश्रमधर्मतत्परः पितृकान्तारगतं विलेपयेत् ॥ ६३॥ विप्राणां पचनाग्निसम्भवमुमे धार्यं त्रिपुण्ड्रात्मना भस्मैवाधहरं भवेत् हितकृत्पादोद्भवानां सदा सङ्कीर्णेष्वपि रथ्यपथ्यविहितं भस्मैव तत्पावनम् ॥ ६४॥ धन्यानामिदमेव मङ्गलकरं सद्भाललिप्तं मुने ॥ ६५॥ भस्मत्रिपुण्ड्र परिमण्डिततुण्डगण्ड श्रीबाहुदण्डयुगलांस बृहत्पिचण्डः । चण्डांशुसूनुनिलयं न स जातु पश्येत् इन्दुप्रभासरसमौलिकटाक्षषण्डैः ॥ ६६॥ भवेत्स विभवाधिकः प्रतिभवेऽपि भावादरो भवोद्भवसमर्चनप्रभवितात्मभावः सदा । भजेत भसितं सितं यदि तदा तनुं सन्त्यजन् भवेत्किल हि ना नरः (यमादृतः) परमकातरः पामरः ॥ ६७॥ शिवे भसित भूषणो भवति भाग्यपूर्णो नरो वरश्रुतिपरायणोऽप्यहह भस्मपुण्ड्रोज्झितः । द्विजाधमकुलानल प्रबलधूमकेतुर्भवे- त्कदापि नरकालयान्न हि स जातु मुच्येत च ॥ ६८॥ धृतसितभसितत्रिपुण्ड्रभूषा यतिमतिगतिदायिनःस्तुतेशाः । कृतवरसुकृतोज्झितारिवर्गा- मितहिततपसा भवन्ति हाराः ॥ ६९॥ नाम्ना न शौचाचमनक्रियाभिः विद्यापि कृताकृताभिः । भस्मत्रिपुण्ड्रोज्झितभालगात्रः पात्रं स नामुष्मिकपुण्यहेतौ ॥ ७०॥ वीतैषणस्त्रिषवणं किल भस्मभूषो योषाविरुद्धहृदयः किल भक्तवर्यः । शाक्तः स मुक्तिपदवीमभिवीक्षितुं वै त्र्यक्षप्रसादमखिलं स तदा लभेत ॥ ७१॥ Shivarahasyam

The purANic events associated with the holy Ash show its significance. When the three daemons of impurities (tripura) were burnt down by the mere smile of the God, the ash that remained got settled on the Lord, Who danced there. Thus the tripurAri was smeared in the Ash that came out of burning out of the three impurities. When the cupid - the deva of lust, tried to fire his arrows on the yogic Lord, he was burnt by the Lord into a heap of ash. The unruffled Lord appeared decorated with that ash. At the times when everything reduces unto It, the Everexistant Lord wears that ash.

In the Padma Purana, पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः १०५   Lord Shambhu tells Rama: "The ash destroys all sins accumulated over hundreds of births. Through ash and remembrance of Maheshvara (Shiva), all sins are destroyed. This is called 'Bhasma' (sacred ash) and wearing it is considered supreme. When applied properly on the forehead according to ritual, it destroys sins just as fire consumes offerings. Wearing it on the throat destroys sins committed through the throat, on the arms destroys sins done by hands, on the chest destroys mental sins, on the navel destroys sins of lust, and on the back destroys related sins. O Rama, wearing the three lines of ash everywhere is recommended."

The devotees of the Lord, Who gives His form to the ardent worshipper, wear the same way the holy Ash on their body. This holy Ash is prepared in the ritual fire in a specified way (3) along with the chanting of the Holy Five Letters (4) and other vedic hymns. Thus obtained Holy Ash is worn on various specified places of the body including the forehead chanting the Holy Five Letters. (There are two broad categories of wearing the Holy Ash. One is uddUlanam that is sprinkling the Holy Ash on the body and the other is tripuNDram that is in three distinct bands)

Some of the upanishads that hail the glory of holy ash.

  • kAlAgnirudram
  • taitrIya
  • yogatattva
  • jApAli
  • sanyAsa
  • vAsudeva
  • bhasmajApAla
  • jApAla (bR^ihajjApAla)
  • nArada parivrAja
  • rAmarahasya
  • chANDilya
  • tripurAtApini
  • atharvashira

See Also:

1. பஸ்ம மஹாத்ம்யம்  
1. rudrAxam 
2. Holy Ash padhikam of thirunyAnachamban^dhar
3. Making and Glory of Holy Ash from periya purANam
4. The Holy Five Letters
5. bhasma jAbAla upanishad 

Related Content

Significance of Holy Ash The mark on the forehead of Hindus

The ascetic devotees completely smeared with Sacred Ash (Muz