logo

|

Home >

Scripture >

scripture >

Sanskrit

तारकेश्वर सुप्रभातम् Sri Tarakeshwara Suprabhatam

श्री हृषीकेशाश्रम विरचितं

देवेन्द्रमौलिपरिवन्दित !चन्द्रभाल !
स्मेराननाखिलगुरोभुजगेन्द्रमाल !
संहारकृत्यकरणे !धृतरूपकाल !
श्रीतारकेश्वरविभो !तवसुप्रभातम्॥१॥

शम्भो !प्रभो !भवभयापहदीनबन्धो !
गङ्गाधर !स्मरहरेड्य !कृपैकसिन्धो !
दारिद्र्यदुःख-शमनायमहाकृशानो !
श्रीतारकेश्वरविभो !तवसुप्रभातम्॥२॥

संसारदाव-शमनेननुवारिवाह !
तापार्त-भक्तजनता- हृदयाधिवास !
क्लान्तप्रपन्न-जनदुःखनिवारकस्त्वं !
श्रीतारकेश्वरविभो !तवसुप्रभातम्॥३॥

गौरीमुखाम्बुज-विकाशनसूर्यरूप !
ध्वान्तापह !स्मितमुखामर-मौलि-सेव्य।
देवाधिदेव !करुणावरुणालयस्त्वं !
श्रीतारकेश्वरविभो !तवसुप्रभातम्॥४॥

पूर्वाम्वधौस्नपनकृत्यमवाप्यसूर्यो।
नम्रोरविर्नमतितेचरणारविन्दम्।
गौरीप्रियेड्यगिरिष !स्मरदर्शनाश।
श्रीतारकेश्वरविभो !तबसुप्रभातम्॥५॥

प्राचीवघूस्तवपदेनतकन्धरेयं
आरक्त-वक्त्रकमलापरिपूजनाय।
रक्ताम्बुजाञ्जलियुताभवमङ्गलाय
श्रीतारकेश्वरविभो !तवसुप्रभातम्॥६॥

नद्यःप्रसन्नसलिलाश्चरणारविन्द
-सम्पूजनेकृतधिय: स्वतरङ्गहस्तैः।
आदायफुल्लकमलानिसमुल्लसन्ति
श्रीतारकेश्वरविभो !तवसुप्रभातम्॥७॥

आशानभश्चधरणीतरणिश्चवायु:
पूतानलश्चसलिलंसकलंचविश्वम्।
नौतीड्य !पादकमलंभुवनैकसारं
श्रीतारकेश्वरविभो !तवसुप्रभातम्॥८॥

आनीयगाङ्ग-सलिलंचरणव्रजेण
क्लिष्टोऽपिहृष्टमनसापरिपूजनाय |
द्वारिस्थितोजनगण: परिपूतभावः
श्रीतारकेश्वरविभो !तवसुप्रभातम्॥६॥

नानादिशःपरिगतास्तवमन्दिरेऽस्मिन्
आगत्यताप-तपनैःपरिदह्यमाना: ।
धन्याःप्रभो !करुणयापरयाकृतार्था:
श्रीतारकेश्वरविभो !तवसुप्रभाताम्॥१०॥

शर्वरीप्रगतानाथ !कूजन्तिविहगाःशुभम्।
उत्तिष्ठोत्तिष्ठदेवेश !भक्तानांमङ्गलंकुरु॥११॥

उत्तिष्ठपार्वतीनाथ !परात्परतरप्रभो।
वेणु-वीणामृदङ्गाद्यौर्मङ्गलंनितरांतव॥१२॥

घण्टापटहशङ्खाद्यस्तवनैविविधस्तव
मङ्गलारात्रिकार्थायकालःसमागतःप्रभो॥१३॥

पूर्वाचलेसमारूढ़: सूर्योभुवनभासकः।
अनुरागाञ्जलिंयच्छन्रक्तःसंशोभतेरविः॥१४॥

जलाशयेप्रफुल्लानिकमलानिननुप्रभो
त्वत्पादाम्बुज-लाभायप्रतीक्षन्तेहिसाम्प्रतम्।।१५।।

शान्तोदान्तोविशुद्धात्माधर्माचारपरायणः।
त्वद्-दर्शनकृतोत्साहस्तवालयेसमागतः ||१६||

शुद्धोवापतितोवापिरुग्नःक्लिष्टमनास्तथा।
त्वद्-दर्शनकृतेसम्यग्वर्ततेपरयामुदा ||१७||

वृद्धोवातरुणोवापिविज्ञस्तथानिरक्षरः।
सधनोनिर्धेनोनित्यंभजतेत्वांपरेश्वर !॥१८॥

पुरुषोमहिलावाथतथाचैवनपुंसकः।
त्वत्कृपांपरमांलब्ध्वासर्व्वेयान्तिकृतार्थताम्।।१६।

वाणीतवगुणाख्यानेसेवायांचवपुस्तथा।
मनस्तवपद-ध्यानेप्रार्थनैषासदाप्रभो॥२०॥

सुप्रभातमिदंपुण्यंरचितंभक्तिभावतः।श्रीजगन्नाथ-शिष्येणहृषीकेशाख्यभिक्षुणा॥२१॥

इतिश्रीश्रीजगन्नाथाश्रमभगवत्पूज्यपादशिष्य-श्री-हृषीकेशाश्रमविरचितंश्रीश्रीतारकेश्वरसुप्रभातमसमाप्तम्।
 

Related Content

वैद्यनाथाष्टकम् - Vaidyanathashtakam

द्वादश ज्योतिर्लिङ्ग स्मरणम् - Dvadasha Jyotirlinga Smaranam

वेदसार शिवस्तव स्तोत्रम् (शङ्कराचार्य विरचितो) - Vedasara S

आर्तिहर स्तोत्रम् श्रिधर अय्यावाल् - Artihara Stotram of S

शिवमानसपूजास्तोत्रम् - Shivamanasapuja Stotram