प्रातःस्मरामिस्मर-दर्पनाशं
गंगाधरंभस्मविभूषिताङ्गम्।
कारुण्यपीयूषसुस्ष्टदृष्टिं
श्रीतारकेशंकरुणानिधानम्।१।
प्रातःप्रवुद्धोमनसामहेशं
त्रिलोकनाथंत्रिपुरासुरारिम्।
स्मरामिदेवंमनुजेन्द्रवन्द्यं
श्रीतारकेशंकरुणानिधानम्।2।
शशाङ्कभालंकलितापनाशं
शान्तंशिवंसुन्दरमेकरूपम्।
स्मरामिनाथंनयनाभिरामं
श्रीतारकेशंकरुणानिधानम्॥3॥
ओङ्कारवाच्यंपरमंवरेण्यं
भवंविभुम्शाश्वतमादिदेवम्।
स्मरामिसत्यंकिलबोधरूपम्
श्रीतारकेशंकरुणानिधानम्॥४॥
सर्वम् महादेवमचिन्त्यतत्त्वं
वेदान्तवेद्यंननुवेद-सारम्।
स्मरामिसृष्टि-स्थिति-नाशहेतुम्
श्रीतारकेशंकरुणानिधानम्॥५॥
इतिश्रीश्रीजगन्नाथाश्रमपूज्यपादशिष्यश्रीहृषीकेशाश्रमविरचितंश्रीश्रोतारकेश्वरप्रातःस्मरण-समाप्तम् ।