कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुरत्
शेषस्यूतनृसिंहपाणिनखर प्रोतादि कोलामिषः ।
विश्वैकार्णवताविहारमुदितौ यौ मत्स्यकूर्मावुभौ
कर्षन्धीवरतां गतोऽस्यतु स नो मोहं महाभैरवः ॥ १॥
नीलरुचि वेदकरवह्नि नयनं सत्
शूलककपालडमरुं च सहपाशम् ।
नग्नशुनवाहनसकिङ्किणिविभूषं
प्रोच्चगति केशधरसर्पवरहारम् ॥ २॥
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ।
भैरवं भैरवीयुक्तं अन्यैश्च निजकिङ्करैः ॥ ३॥
कल्पवृक्षस्य मूले तु रत्नमण्टपमध्यमे ।
मणिसिंहासनासीनं नानाभरणभूषितम् ॥ ४॥
तरुणादित्यसङ्काशं रक्तमाल्याम्बरोज्ज्वलम् ।
उद्यत्पिङ्गजटाबद्ध चारुचन्द्रकलाधरम् ॥ ५॥
कमलं स्वर्णपात्रं च वरं चाभयमेव च ।
शङ्खं पीयूषकुम्भं च बिभ्राणं करपङ्कजैः ॥ ६॥
देव्या चम्पकवर्णाङ्ग्या समालिङ्गितविग्रहम् ।
स्वपादपद्मभक्तानां वर्षन्तं स्वर्णधारया ॥ ७॥
करुणासागरं देवं स्वर्णाकर्षणभैरवम् ।
सिद्धविद्याधरैर्नित्यं स्तूयमानं समाश्रये ॥ ८॥
स्वर्णप्रदः स्वर्णवर्षी स्वर्णाकर्षणभैरवः ।
भक्तप्रियो भक्तवश्यो भक्ताभीष्टफलप्रदः ॥ ९॥
सिद्धिदः करुणामूर्तिः प्रणताभीष्टपूरकः ।
निधिसिद्धिप्रदः स्वर्णसिद्धिदो रससिद्धिदः ॥ १०॥
एतैः पदैः शुभैर्दिव्यैर्योऽर्चयेत्स्वर्णभैरवम् ।
स्वर्णसिद्धिमवाप्रोति भैरवस्य प्रसादतः ॥ ११॥
गाङ्गेयपात्रं डमरुं त्रिशूलं पाशं करैः सन्दधतं त्रिणेत्रम् ।
देव्या युतं श्वानवराश्रितं तं स्वर्णाभिधं भैरवमाश्रयेऽहम् ॥ १२॥
ब्रह्मा यस्य मनोर्मुनिः निगदितस्त्रिष्ठुप् च छन्दः स्वयं
स्वर्णाकर्षणभैरवो हरिहर ब्रह्मात्मको देवता ।
आं बीजं सह शक्तिरित्यभिहितस्तस्यैव सूत्रात्मनः
स्तोत्रध्यानपुरस्सरं मनुवरं वक्ष्यामि सम्प्रत्यहम् ॥ १३॥
मन्दारद्रुममूलभाजि महिते माणिक्यसिंहासने
दिव्ये रत्नमये सुचम्पकरुचा देव्या समालिङ्गितः ।
भक्तेभ्यो वररत्नपात्रभरितं स्वर्णं दधानोऽनिशं
स्वर्णाकर्षण भैरवो विजयते स्वर्गापवर्गैकभूः ॥ १४॥
ॐ ऐं क्लां क्लीं क्लूं इति व्याहरद्भ्यो
भिक्षां हैमीं यः स्वयं सम्प्रयच्छन् ।
कारुण्याब्धिः कल्पमूलाधिवासः
स्वर्णाकर्षो भैरवो नोऽस्तु भूत्यै ॥ १५॥
ॐ ह्रां ह्रीं हूं इत्यन्वहं जापकानां
वर्षन्तं द्राक् स्वर्णवृष्टिं समग्राम् ।
नित्यं स्वच्छं सूर्यकोटिप्रकाशं
स्वर्णाकर्षं भैरवं भावयामि ॥ १६॥
मरकतमणिपात्रे सम्भृतं स्वर्णपूरं
स्वमनुमननकृद्भ्यः सादरं सम्प्रदात्रे ।
कुरु हृदय सपर्या सेव्यमानाय नित्यं
सुरवरभुजगेन्द्रैरापदुद्धारणाय ॥ १७॥
नमोऽजामलबद्धाय कल्पमूलनिवासिने ।
स्वर्णाकर्षणशीलाय साधकानां हितात्मने ॥ १८॥
लोकेश्वरायाम्बुरुहासनाद्यैः बर्हिर्मुखैरर्चितपादुकाय ।
दारिद्र्यनिर्मूलनकर्मठाय कारुण्यवारां निधये नमस्ते ॥ १९॥
दीनानाथविपन्नरक्षणरतैराज्ञाप्रतीक्षाकरैः
सिद्धैः साध्यनृकिन्नरोरगसुरैः नित्यं परीतात्मने ।
सानन्दाय समुल्लसद्वरमणिप्रद्योततेजोजुषे
स्वर्णाकर्षणभैरवाय सततं कुर्मो नमस्यां वयम् ॥ २०॥
स्वर्णाकर्षिण्या स्वदेव्याऽऽश्रिताय स्वैरारावोदारसिंहासनाय ।
कुर्मो नित्यं शर्मदात्रे नमस्यां मद्दारिद्र्य द्वेषिणे भैरवाय ॥ २१॥
स्वर्णप्रदानाध्वरदीक्षिताय स्वतेजसाक्रान्तदिगन्तराय ।
सौभाग्यसम्पत्सदनाय नित्यं श्रीं ह्रीं महाभैरव ते नमोऽस्तु ॥ २२॥
चिन्तामणि स्वजनकल्पितपारिजात-
मन्दार वीतमणिमण्टपमध्यगाय ।
स्वर्णप्रदाननिरताय सदा सपर्यां
कुर्मो वयं त्रिकरणैर्वरभैरवाय ॥ २३॥
मूले कल्पतरोः प्रभामणिकृते भद्रासने संस्थितो
हस्ताम्भोरुह रत्नपात्रभरितैः कार्तस्वरैर्भासुरैः ।
अर्थीन् विद्रुतदुर्गतीन् विरचयन्नुद्यद्दिनेशद्युतिः
स्वर्णाकर्षण भैरवो भवतु मे दारिद्र्यविद्रावकः ॥ २४॥
कनक मणिविराजद् भूषणैर्भूषिताङ्गं
सकलमुनिजनानां स्वर्णदातारमीशम् ।
निगम शुनकवाहं भैरवं शूलपाणिं
विपुलवरजटालं सन्ततं भावयेऽहम् ॥ २५॥
स्वर्णाकर्षण भैरव मन्त्रमयं स्तोत्रमन्वहं जपताम् ।
निधिसिद्धिरसस्वर्णसिद्धयश्च झडिति जायते पुंसाम् ॥ २६॥
इति श्रीविजयासारावलीतान्तर्गतं स्वर्णाकर्षणभैरवस्तोत्रं सम्पूर्णम् ।