logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolउपमन्युकृतं शिवस्तोत्रम्- Upamanyukrutam Shivastotram Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Upamanyukrutam Shivastotram उपमन्युकृतं शिवस्तोत्रम् - PDF उपमन्युकृतं शिवस्तोत्रम् जय शङ्कर पार्वतीपते मृड शंभो शशिखण्डमण्डन । मदनान्तक भक्तवत्सल प्रियकैलास दयासुधांबुधे ॥१॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः । शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥ महतः परितः प्रसर्पतस्तमसो दर्शनमेदिनो भिदे । दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥३॥ न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः । कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु नः ॥४॥ त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न हि वक्तुमीश सा । मधुरं हि पयः स्वभावतो ननु कीद्रुक्सितशर्करान्वितम् ॥५॥ सविषोऽप्यमृतायते भवाच्छवमुण्डाभरणोऽपि पावनः । भव एव भवान्तकः सतां समद्रुष्टिर्विषमोक्षणोऽपि सन् ॥६॥ अपि शूलधरो निरामयो द्रुढवैराग्यरतोऽपि रागवान् । अपि भैक्ष्यचरो महेश्वरश्चरितं चित्रमिदं हि ते प्रभो ॥७॥ वितरत्यभिवाञ्छितं द्रुशा परिद्रुष्टः किल कल्पपादपः । हृदये स्मृत एव धीमते नमतेऽभीष्टफलप्रदो भवान् ॥८॥ सहसैव भुजङ्गपाशवान्विनिगृह्णाति न यावदन्तकः । अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥९॥ सविषैरिव भीमपन्नगैर्विषयैरेभिरलं परिक्षतम् । अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥१०॥ मुनयो बहवोऽद्य धन्यतां गमिताः स्वाभिमतार्थदर्शिनः । करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुषा ॥११॥ प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् । विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥१२॥ बहवो भवताऽनुकंपिताः किमितीशान न माऽनुकंपसे । दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥१३॥ अशुचिं यदि माऽनुमन्यसे किमिदं मूर्ध्नि कपालदाम ते । उत शाठ्यमसाधुसङ्गिनं विषलक्ष्मासि न किं द्विजिह्वधृक् ॥१४॥ क्व द्दशं विदधामि किं करोम्यनुतिष्ठामि कथं भयाकुलः । क्व नु तिष्ठसि रक्ष रक्ष मामयि शंभो शरणागतोऽस्मि ते ॥१५॥ विलुठाम्यवनौ किमाकुलः किमुरो हन्मि शिरश्छिनद्मि वा । किमु रोदिमि रारटीमि किं कृपणं मां न यदीक्षसे प्रभो ॥१६॥ शिव सर्वग शर्व शर्मदं प्रणतो देव दयां कुरुष्व मे । नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोऽस्तु ते ॥१७॥ शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका । शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥१८॥ उपमन्युकृतं स्तवोत्तमं जपतः शंभुसमीपवर्तिनः । अभिवाञ्छितभाग्यसम्पदः परमायुः प्रददाति शङ्करः ॥१९॥ उपमन्युकृतं स्तवोत्तमं प्रजपेद्यस्तु शिवस्य सन्निधौ । शिवलोकमवाप्य सोऽचिरात्सह तेनैव शिवेन मोदते ॥२०॥ इत्युपमन्युकृतं शिवस्तोत्रं संपूर्णम् ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্