logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolश्रीकाशीविश्वनाथस्तोत्रम् - Shri Kashivishvanatha StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shri Kashivishvanatha Stotram श्रीकाशीविश्वनाथस्तोत्रम् - PDF श्री काशीविश्वनाथ स्तोत्रम् ॥ कण्ठे यस्य लसत्कराळगरळं गङ्गाजलं मस्तके वामाङ्गे गिरिराजराजतनया जाया भवानी सती । नन्दिस्कन्दगणाधिराजसहिता श्रीविश्वनाथप्रभुः काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गळम् ॥१॥ यो देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्वयक्षोरगै- र्नागर्भूतलवासिभिर्द्विजवरैः संसेवितः सिद्धये । या गङ्गोत्तरवाहिनी परिसरे तीर्थैरसङ्ख्यैर्वृता सा काशी त्रिपुरारिराजनगरी देयात्सदा मङ्गळम् ॥२॥ तीर्थानां प्रवरा मनोरथकरी संसारपारापरानन्दा नन्दिगणेश्वरैरुपहिता देवैरशेषैः स्तुता । या शंभोर्मणिकुण्डलैककणिका विष्णोस्तपोदीर्घिका सेयं श्रीमणिकर्णिका भगवती देयात्सदा मङ्गळम् ॥३॥ एषा धर्मपताकिनी तटरुहासेवावसन्नाकिनी पश्यन्पातकिनी भगीरथतपःसाफल्यदेवाकिनी । प्रेमारूढपताकिनी गिरिसुता सा केकरास्वाकिनी काश्यामुत्तरवाहिनी सुरनदी देयात्सदा मङ्गळम् ॥४॥ विघ्नावासनिवासकारणमहागण्डस्थलालम्बितः सिन्दूरारुणपुञ्जचन्द्रकिरणप्रच्छादिनागाच्छविः श्रीविश्वेश्वरवल्लभो गिरिजया सानन्दकानन्दितः स्मेरास्यस्तव ढुण्ढिराजमुदितो देयात्सदा मङ्गळम् ॥५॥ केदारः कलशेश्वरः पशुपतिर्धर्मेश्वरो मध्यमो ज्येष्ठेशो पशुपश्च कन्दुकशिवो विघ्नेश्वरो जम्बुकः । चन्द्रेशो ह्यमृतेश्वरो भृगुशिवः श्रीवृद्धकालेश्वरो मध्येशो मणिकर्णिकेश्वरशिवो देयात्सदा मङ्गळम् ॥६॥ गोकर्णस्त्वथ भारभूतनुदनुः श्रीचित्रगुप्तेश्वरो यक्षेशस्तिलपर्णसङ्गमशिवो शैलेश्वरः कश्यपः । नागेशोऽग्निशिवो निधीश्वरशिवोऽगस्तीश्वरस्तारक- ज्ञानेशोऽपि पितामहेश्वरशिवो देयात्सदा मङ्गळम् ॥ ७॥ ब्रह्माण्डं सकलं मनोषितरसै रत्नैः पयोभिर्हरं खेलैः पूरयते कुटुम्बनिलयान् शंभोर्विलासप्रदा । नानादिव्यलताविभूषितवपुः काशीपुराधीश्वरी श्रीविश्वेश्वरसुन्दरी भगवती देयात्सदा मङ्गळम् ॥८॥ या देवी महिषासुरप्रमथनी या चण्डमुण्डापहा या शुम्भासुररक्तबीजदमनी शक्रादिभिः संस्तुता । या शूलासिधनुःशराभयकरादुर्गादिसन्दक्षिणा- माश्रित्याश्रितविघ्नशंसमयतु देयात्सदा मङ्गळम् ॥ ९॥ आद्या श्रीर्विकटा ततस्तु विरजा श्रीमङ्गळा पार्वती विख्याता कमला विशालनयना ज्येष्ठा विशिष्टानना । कामाक्षी च हरिप्रिया भगवती श्रीघण्टघण्टादिका मौर्या षष्टिसहस्रमातृसहिता देयात्सदा मङ्गळम् ॥ १०॥ आदौ पञ्चनदं प्रयागमपरं केदारकुण्डं कुरु- क्षेत्रं मानसकं सरोऽमृतजलं शावस्य तीर्थं परम् । मत्स्योदर्यथ दण्डखाण्डसलिलं मन्दाकिनी जम्बुकं घण्टाकर्णसमुद्रकूपसहितो देयात्सदा मङ्गळम् ॥ ११॥ रेवाकुण्डजलं सरस्वतिजलं दुर्वासकुण्डं ततो लक्ष्मीतीर्थलवाङ्कुशस्य सलिलं कन्दर्पकुण्डं तथा । दुर्गाकुण्डमसीजलं हनुमतः कुण्डप्रतापोर्जितः प्रज्ञानप्रमुखानि वः प्रतिदिनं देयात्सदा मङ्गळम् ॥१२॥ आद्यः कूपवरस्तु कालदमनः श्रीवृद्धकूपोऽपरो विख्यातस्तु पराशरस्तु विदितः कूपः सरो मानसः । जैगीषव्यमुनेः शशाङ्कनृपतेः कूपस्तु धर्मोद्भवः ख्यातः सप्तसमुद्रकूपसहितो देयात्सदा मङ्गळम् ॥१३॥ लक्ष्मीनायकबिन्दुमाधवहरिर्लक्ष्मीनृसिंहस्ततो गोविन्दस्त्वथ गोपिकाप्रियतमः श्रीनारदः केशवः गङ्गाकेशववामनाख्यतदनु श्वेतो हरिः केशवः प्रह्लादादिसमस्तकेशवगणो देयात्सदा मङ्गळम् ॥१४॥ लोलार्कोविमलार्कमायुखरविः संवर्तसञ्ज्ञो रविर्विख्यातो द्रुपदुःखस्वोल्कमरुणः प्रोक्तोत्तरार्को रविः । गङ्गार्कस्त्वथ वृद्धवृद्धिविबुधा काशीपुरीसंस्थिताः सूर्या द्वादशसंज्ञकाः प्रतिदिनं देयात्सदा मङ्गळम् ॥ १५॥ आद्यो ढुण्ढिविनायको गणपतिश्चिन्तामणिः सिद्धिदः सेनाविघ्नपतिस्तु वक्त्रवदनः श्रीपाशपाणिः प्रभुः । आशापक्षविनायकाप्रषकरो मोदादिकः षड्गुणो लोलार्कादिविनायकाः प्रतिदिनं देयात्सदा मङ्गळम् ॥१६॥ हेरम्बो नलकूबरो गणपतिः श्रीभीमचण्डीगणो विख्यातो मणिकर्णिकागणपतिः श्रीसिद्धिदो विघ्नपः। मुण्डश्चण्डमुखश्च कष्टहरणः श्रीदण्डहस्तो गणः श्रीदुर्गाख्यगणाधिपः प्रतिदिनं देयात्सदा मङ्गळम् ॥१७॥ आद्यो भैरवभीषणस्तदपरः श्रीकालराजः क्रमा- च्छ्रीसंहारकभैरवस्त्वथ रुरुश्चोन्मत्तको भैरवः । क्रोधश्चण्डकपालभैरववरः श्रीभूत नाथादयो ह्यष्टौ भैरवमूर्तयः प्रतिदिनं देयात्सदा मङ्गळम् ॥१८॥ आधातोऽम्बिकया सह त्रिनयनः सार्धं गणैर्नन्दितां काशीमाशु विशन् हरः प्रथमतो वार्षध्वजेऽवस्थितः । आयाता दश धेनवः सुकपिला दिव्यैः पयोभिर्हरं ख्यातं तद्वृषभध्वजेन कपिलं देयात्सदा मङ्गळम् ॥ १९॥ आनन्दाख्यवनं हि चम्पकवनं श्रीनैमिषं खाण्डवं पुण्यं चैत्ररथं त्वशाकविपिनं रम्भावनं पावनम् । दुर्गारण्यमथोऽपि कैरववनं वृन्दावनं पावनं विख्यातानि वनानि वः प्रतिदिनं देयात्सदा मङ्गळम् ॥२०॥ अलिकुलदलनीलः कालदंष्ट्राकराळः सजलजलदनीलो व्यालयज्ञोपवीतः । अभयवरदहस्तो डामरोद्दामनादः सकलदुरितभक्षो मङ्गळं वो ददातु ॥ २१॥ अर्धाङ्गे विकटा गिरिन्द्रतनयो गौरी सती सुन्दरी सर्वाङ्गे विलसद्विभूतिधवळो कालो विशालेक्षणः वीरेशः सहनन्दिभृङ्गिसहितः श्रीविश्वनाथः प्रभुः काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गळम् ॥२२॥ यः प्रातः प्रयतः प्रसन्नमनसा प्रेमप्रमोदाकुलः ख्यातं तत्र विशिष्टपादभुवनेशेन्द्रादिभिर्यत्स्तुतम् । प्रातः प्राङ्मुखमासनोत्तमगतो ब्रुयाच्छृणोत्यादरात् काशीवासमुखान्यवाप्य सततं प्रीते शिवे धूर्जटिः ॥२३॥ इति श्रीमच्छङ्कराचार्यविरचितं काशीविश्वनाथस्तोत्रं संपूर्णम् ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্