logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolशिवस्तुतिः (लङ्केश्वर विरचिता) - Langkeshvara Virachitaa Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shivastutih (Langkeshvara Virachitaa) शिवस्तुतिः (लङ्केश्वर विरचिता) - PDF शिवस्तुतिः (लङ्केश्वरविरचिता) गले कलितकालिमः प्रकटितेन्दुभालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे । उदञ्चितकपालकं जघनसीम्नि सन्दर्शितद्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १॥ वृषोपरि परिस्फुरद्धवळधाम धाम श्रियां कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् । क्वचित्पुनरुमाकुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥२॥ उदित्वरविलोचनत्रयविसुत्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम् । षिकासितजटाटवीविहरणोत्सवप्रोल्लसत्तरामरतरङ्गिणीतरलचूडमीडे मृडम् ॥३॥ विहाय कमलालयाविलसितानि विद्युन्नटीविडम्बनपटूनि मे विहरणं विधत्तां मनः । कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥४॥ भवद्भवनदेहलीनिकटतुण्डदण्डाहतित्रुटन्मुकुटकोटिमिर्मघवदादिमिर्भूयते व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदः प्रमथनाथ नाथामहे ॥५॥ त्वदर्चनपरायणप्रमथकन्यकालुंठितप्रसूनसफलद्रुमं कमपि शैलमाशास्महे । अलं तटवितर्दिकाशयितसिद्धसीमन्तीनीप्रकीर्णसुमनोमनोरमणमेरुणा मेरुणा॥६॥ न जातु हर यातु मे विषयदुर्विलासं मनो मनोभवकथाऽस्तु मे न च मनोरथातिथ्यभूः । स्फुरत्सुरतरङ्गिणीतटकुटीरकोटौ वसन्नये शिव दिवानिशं तव भवानि पूजापरः ॥७॥ विभूषणसुरापगाशुचितरालवालावलीवलद्वहलसी करप्रकरसेकसंवर्धिता । महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी निमज्जनफलप्रदा मम नु हन्त भूयादियम् ॥८॥ बहिर्विषयसङ्गतिप्रतिनिवर्तिताक्षावलेः समाधिकलितात्मनः पशुपतेरशेषात्मनः । शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं निशाकरकलामहं बटुविभृश्यमानां भजे ॥९॥ त्वदीयसुरवाहिनीविमलवारिधाराबलज्जटागहनगाहिनी मतिरियं मम क्रामतु । उपोत्तमसरित्तटीविटपिताटवी प्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो ॥१०॥ इति लङ्केश्वरविरचिता शिवस्तुतिः संपूर्णा॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্

রাবণকৃতং শিবতাণ্ডব স্তোত্রম্