logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolशिवस्तवराजः - ShivastavarajahOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shivastavarajah सूत उवाच ॥ एकदा नारदो योगी परानुग्रहतत्परः । विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥१॥ तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम् । प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥२॥ नारद उवाच ॥ ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदाम्बुजम् । कृपया परया देव यत्पृच्छामि तदुच्यताम् ॥३॥ श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च । तथापि मन्मनो याति सन्देहं मोहकारणम् ॥४॥ सर्वमन्त्राधिको मन्त्रः सदा जाप्यः क उच्यते । सर्वध्यानादिकं ध्यानं सदा ध्येयमिहास्ति किम् ॥५॥ वेदोपनिषदां सारमायुःश्रीजयवर्धनम् । मुक्तिकाङ्क्षापरैर्नित्यं कः स्तवः पठ्यते बुधैः ॥ ६॥ इमं मत्संशयं तात त्वं भेत्तासि न कश्चन । ब्रुहि कारुण्यभावेन मह्यं शुश्रूषवे हि तम् ॥७॥ श्रुत्वाऽङ्गजवचो वेधा हृदि हर्षमुपागतः । देवदेवं शिवाकान्तं नत्वा चाह मुनीश्वरम् ॥८॥ ब्रह्मोवाच ॥ साधु पृष्टं महाप्राज्ञ लोकानुग्रह तत्पर । सत्सर्वं ते प्रवक्ष्यामि गोपनीयं प्रयत्नतः ॥९॥ प्रणवं पूर्वमुव्च्चार्य नमःशब्दं समुच्चरेत् । सचतुर्थ्यैकवचनं शिवं चैव समुच्चरेत् ॥१०॥ एष शैवो महामन्त्रः षड्वर्णाख्यो विमुक्तिदः । सर्वमन्त्राधिकः प्रोक्तः शिवेन ज्ञानरूपिणा ॥११॥ अनेन मन्त्रराजेन नाशयितुं न शक्यते । तच्च पापं न पश्यामि मार्गमाणोऽपि सर्वदा ॥१२॥ अयं संसारदावाग्निर्मोहसागरवाडवः । तस्मात्प्रयत्नतः पुत्र मन्त्रो ग्राह्यो मुमुक्षुभिः ॥१३॥ मातृपुत्रादिहा योऽपि वेदधर्मविवर्जितः । सकृदुच्चरणादस्य सायुज्यमुक्तिमाप्नुयात् ॥१४॥ किं पुनर्वक्ष्यते पुत्र स्वाचारपरिनिष्ठितः । सर्वमन्त्रान्विसृज्य त्वमिमं मन्त्रं सदा जप॥१५॥ ध्यानं तेऽहं प्रवक्ष्यामि ज्ञात्वा यन्मुच्यतेऽचिरात् । वेदोपनिषदुक्तं च योगगम्यं सनातनम् ॥१६॥ इन्द्रियाणि नियम्यादौ यतवाग्यतमानसः । स्वस्तिकाद्यासनयुतो हृदि ध्यानं समारभेत् ॥१७॥ नाभिनालं हृदिस्थं च पङ्कजं परिकल्पयेत् । रक्तवर्णमष्टदळं चन्द्रसूर्यादिशोभितम् ॥१८॥ समन्तात्कल्पवृक्षेण वेष्टितं कान्तिमत्सदा । तन्मध्ये शङ्करं ध्यायेद्देवदेवं जगद्गुरुम् ॥१९॥ कर्पूरसदृशं चन्द्रशेखरं शूलपाणिनम् । त्रिलोचनं महादेवं द्विभुजं भस्मभूषितम् ॥२०॥ परार्धभूषणयुतं क्वणन्नूपुरमण्डितम् । सरत्नमेखलाबद्धकटिवस्त्रं सकुण्डलम् ॥२१॥ नीलकण्ठं जटावन्तं सकिरीटं सुशोभितम् । ग्रैवेयादिप्रबन्धाढ्यं पार्वतीसहितं पुरम् ॥२२॥ कृपालुं जगदाधारं स्कन्दादिपरिवेष्टितम् इन्द्रेण पूजितं यक्षराजेन व्यजितं विभुम् ॥२३॥ प्रेतराजस्तुतं नीरनाथेन नामितं मुहुः । ब्रह्मणा गीयमानं च विष्णुवन्द्यं मुनिस्तुतम् ॥२४॥ ध्यानमेतन्मया ख्यातं सूत वेदान्तशेखरम् । सर्वपापक्षयकरं जयसंपत्तिवर्धनम् ॥२५॥ अनेन सदृशं तात नास्ति संसारतारकम् । सर्वध्यानादिकं ध्यानं गोपनीयं सुत त्वया॥ २६॥ कायवाङ्मानसोत्थं यत्पापमन्यच्च विद्यते । तत्सर्वे नाशमायाति ध्यानात्सत्यं वचो मम ॥२७॥ वेदशास्त्रपुराणानि सेतिहासानि यानि च । ध्यानस्य तानि सर्वाणि कलां नार्हन्ति षोडशीम् ॥२८॥ प्रेम्णा कुरु महाभाग ध्यानमेतद्विमुक्तिदम् । अथ ते वच्म्यहं योगिन् स्तवं सर्वोत्तमं च यत् ॥२९॥ ब्रह्मास्यैव ऋषिः प्रोक्तोऽनुष्टुप् छ्न्दः प्रकीर्तितम् । शिवो व दैवतं प्रोक्तं बीजं मृत्युञ्जयं मतम् ॥३०॥ कीलकं नीलकण्ठश्च शक्तिः प्रोक्ता हरस्तथा । नियोगः सर्वशिद्ध्यर्थं मुक्तिकामाय वै मतः ॥३१॥ शिरस्यास्ये हृदि पदे कट्यां बाह्वोस्तु व्यापके । ऋष्यादीनि क्रमाद्युञ्जेत्साङ्गुष्ठाङ्गुलिभिः सुत ॥३२॥ मन्त्रन्यासं ततः कुर्याच्छृणु चैकाग्रमानसः । षडक्षराणि युञ्जीयादङ्गुष्ठाद्यङ्गुलीषु च ॥३३॥ हृदये च शिरस्येव शिखायां कवचे यथा । नेत्रत्रये तथाऽस्त्रे च वर्णा ह्येवं च षट् क्रमात् ॥३४॥ नमः स्वाहा वषट् हुं च सवौषट् फट्क्रमो वदेत् । मन्त्रन्यासमिमं कृत्वा स्तवन्यासं समाचरेत् ॥३५॥ शिवं मृडं पशुपतिं शङ्करं चन्द्रशेखरम् । भवं चैव क्रमादेवमङ्गुष्ठादिहृदादिषु ॥३६॥ सर्वन्यासान्प्रयुञ्जीत चतुर्थीसहितान्सुत । नमोयुतान्नमश्चैव शिरसादिषु वर्जयेत् ॥३७॥ शिवं सर्वात्मकं सर्वपतिं सर्वजनप्रियम् । सर्वदुःखहरं चैव मोहनं गिरिशं भजे ॥३८॥ कामघ्नं कामदं कान्तं कालमृत्युनिवर्तकम् । कलावन्तं कलाधीशं वन्देऽहं गिरिजापतिम् ॥३९॥ परेशं परमं देवं परंब्रह्म परात्परम् । परपीडाहरं नित्यं प्रणमामि वृषध्वजम् ॥४०॥ लोकेशं लोकवन्द्यं च लोककर्तारमीश्वरम् । लोकपालं हरं वन्दे धीरं शशिविभूषणम् ॥४१॥ शिवापतिं गिरिपतिं सर्वदेवपतिं विभुम् । प्रमथाधिपतिं सूक्ष्मं नौम्यहं शिखिलोचनम् ॥४२॥ भूतेशं भूतनाथं च भूतप्रेतविनाशनम् । भूधरं भूपतिं शान्तं शूलपाणिमहं भजे ॥४३॥ कैलासवासिनं रौद्रं फणिराजविभूषणम् । फणिबद्धजटाजूटं प्रणमामि सदाशिवम् ॥४४॥ नीलकण्ठं दशभुजं त्र्यक्षं धूम्रविलोचनम् । दिगंबरं दिशाधीशं नमामि विषभूषणम् ॥४५॥ मुक्तीशं मुक्तिदं मुक्तं मुक्तगम्यं सनातनम् । सत्पतिं निर्मलं शंभुं नतोऽस्मि सकलार्थदम् ॥४६॥ विश्वेशं विश्वनाथं च विश्वपालनतत्परम् । विश्वमूर्तिं विश्वहरं प्रणमामि जटाधरम् ॥४७॥ गङ्गाधरं कपालाक्षं पञ्चवक्त्रं त्रिलोचनम् । विद्युत्कोटिप्रतीकाशं वन्देऽहं पार्वतीपतिम् ॥४८॥ स्फटिकाभं जनार्तिघ्नं देवदेवमुमापतिम् ॥ त्रिपुरारिं त्रिलोकेशं नतोऽस्मि भवतारकम् ॥४९॥ अव्यक्तमक्षरं दान्तं मोहसागरतारकम् । स्तुतिप्रियं भक्तिगम्यं सदा वन्दे हरिप्रियम् ॥५०॥ अमलं निर्मलं नाथमपमृत्युभयापहम् भीमयुद्धकरं भीमवरदं तं नतोऽस्म्यहम् ॥५१॥ हरिचक्रप्रदं योगिध्येयमूर्तिं सुमङ्गळम् । गजचर्माम्बरधरं प्रणमामि विभूतिदम् ॥ ५२॥ आनन्दकारिणं सौम्यं सुन्दरं भुवनेश्वरम् । काशिप्रियं काशिराजं वरदं प्रणतोऽस्म्यहम् ॥५३॥ श्मशानवासिनं भव्यं ग्रहपीडाविनाशनम् । महान्तं प्रणवं योगं भजेऽहं दीनरक्षकम् ॥५४॥ ज्योतिर्मयं ज्योतिरूपं जितक्रोधं तपस्विनम् । अनन्तं स्वर्गदं स्वर्गपालं वन्दे निरञ्जनम् ॥५५॥ वेदवेद्यं पापहरं गुप्तनाथमतीन्द्रियम्। सत्यात्मकं सत्यहरं निरीहं तं नतोऽस्म्यहम् ॥५६॥ द्वीपिचर्मोत्तरीयं च शवमूर्धाविभूषणम् । अस्थिमालं श्वेतवर्णं नमामि चन्द्रशेखरम् ॥५७॥ शूलिनं सर्वभूतस्थं भक्तोद्धरणसंस्थितम् । लिङ्गमूर्तिं सिद्धसेव्यं सिद्धसिद्धिप्रदायकम् ॥५८॥ अनादिनिधनाख्यं तं रामसेव्यं जयप्रदम् । योधादिं यज्ञभोक्तारं वन्दे नित्यं परावरम् ॥५९॥ अचिन्त्यमचलं विष्णुं महाभागवतोत्तमम् । परघ्नं परवेद्यं च वन्दे वैकुण्ठनायकम् ॥६०॥ आनन्दं निर्भयं भक्तवाञ्छितार्थप्रदायकम् । भवानीपतिमाचार्यं वन्देऽहं नन्दिकेश्वरम् ॥६१॥ सोमप्रियं सोमनाथं यक्षराजनिषेवितम् । सर्वाधारं सुविस्तारं प्रणमामि विभूतिदम् ॥६२॥ अनन्तनामानमनन्तरूपमनादिमध्यान्तमनादिसत्त्वम् । चिद्रूपमेकं भवनागसिंहं भजामि नित्यं भुवनाधिनाथम् ॥६३॥ वेदोपगीतं विधुशेखरं च सुरारिनाथार्चितपादपद्मम् । कर्पूरगौरं भुजगेन्द्रहारं जानामि तत्त्वं शिवमेव नान्यम् ॥६४॥ गणाधिनाथं शितिकण्ठमाद्यं तेजस्विनं सर्वमनोभिरामम् । सर्वज्ञमीशं जगदात्मकं च पञ्चाननं नित्यमहं नमामि ॥६५॥ विश्वसृजं नृत्यकरं प्रियं तं विश्वात्मकं विश्वविधूतपापम् । मृत्युञ्जयं भालवोलोचनं च चेतः सदा चिन्तय देवदेवम् ॥६६॥ कपालिनं सर्पकॄतावतंसं मनोवचोगोचरमम्बुजाक्षम् । क्षमाम्बुधिं दीनदयाकरं तं नमामि नित्यं भवरोगवैद्यम् ॥६७॥ सर्वान्तरस्थं जगदादिहेतुं कालज्ञमात्मानमनन्तपादम् । अनन्तबाहूदरमस्तकाक्षं ललाटनेत्रं भज चन्द्रमौलिम् ॥६८॥ सर्वप्रदं भक्तसुखावहं च पुष्पायुधादिप्रणतिप्रियं च । त्रिलोकनाथं ऋणबन्धनाशं भजस्व नित्यं प्रणतार्तिनाशम् ॥६९॥ आनन्दमूर्तिं सुखकल्पवृक्षं कुमारनाथं विधृतप्रपञ्चम् । यज्ञादिनाथं परमप्रकाशं नमामि विश्वंभरमीशितारम् ॥७०॥ इत्येवं स्तवमाख्यातं शिवस्य परमात्मनः । पापक्षयकरं पुत्र सायुज्यमुक्तिदायकम् ॥७१॥ सर्वरोगहरं मोक्षप्रदं सिद्धिप्रदायकम् । माङ्गल्यं भुक्तिमुक्त्यादिसाधनं जयवर्धनम् ॥७२॥ सर्वस्तवोत्तमं विद्धि सर्ववेदान्तशेखरम् । पठस्वानुदिनं तात प्रेम्णा भक्त्या विशुद्धिकृत् ॥७३॥ गोहा स्त्रीबालविप्रादिहन्तान्यत्पापकृत्तथा । विश्वासघातचारी च खाद्यपेयादिदूषकः ॥७४॥ कोटिजन्मार्जितैः पापैरसङ्ख्यातैश्च वेष्टितः अष्टोत्तरशतात्पाठात् शुद्धो भवति निश्चितम् ॥७५॥ महारोगयुतो वापि मृत्युग्रहयुतस्तथा । त्रिंशत्तदस्य पठनात्सर्वदुःखं विनश्यति ॥७६॥ राजवश्ये सहस्रं तु स्त्रीवश्ये च तदर्धकम् । मित्रवश्ये पञ्चशतं पाठं कुर्यात्समाहितः ॥७७॥ लक्षपाठाद्भवेच्चैव शिव एव न संशयः। बहुना किमिहोक्तेन भावनासिद्धिदायकः ॥७८॥ पार्वत्या सहितं गिरीन्द्रशिखरे मुक्तामये सुन्दरे पीठे संस्थितमिन्दुशेखरमहर्नाथादिसंसेवितम् । पञ्चास्यं फणिराजकङ्कणधरं गङ्गाधरं शूलिनं त्र्यक्षं पापहरं नमामि सततं पद्मासनस्थं शिवम् ॥७९॥ इति श्रीपद्मपुराणे ब्रह्मनारदसंवादे शिवस्तवराजः संपूर्णः ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্