logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolशिवभुजङ्गप्रयातस्तोत्रम् - Shivabhujanga Prayata StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shivabhujanga Prayata Stotram शिवभुजङ्गप्रयातस्तोत्रम् - PDF शिवभुजङ्ग प्रयात स्तोत्रम् यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः । तदा मन्मनस्त्वत्पदांभोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥१॥ यदा दुर्निवारव्यथोऽहं शयनो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः । तदा जह्नुकन्याजलालङ्कृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात् ॥२॥ यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति । तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥३॥ यदा पश्यतां मामसौ वेत्ति नास्मानयं हास एवेति वाचो वदेयुः । तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् ॥४॥ यदा पारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि दूरम् । तदा तं निरुन्धन् कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ॥५॥ यदा रौरवादीन् स्मरन्नेव भीत्या व्रजाम्येव मोहं पतिष्यामि घोरे। तदा मामहो नाथ कस्तारयिष्यत्यनाथं पराधीनमर्धेन्दुमौले ॥६॥ यदा श्वेतपत्रायतालङ्घ्यशक्ते कृतान्ताद्भयं भक्तवात्सल्यभावात् । तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥७॥ इदानीमिदानीं मतिर्मे भवित्रीत्यहो सन्ततं चिन्तया पीडितोऽस्मि । कथं नाम मा भून्मनोवृत्तिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥८॥ अमर्यादमेवामुमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः । स्तुतौ तावदस्यां तवैव प्रसादाद्भवानीपते निर्मयोऽहं भवानि ॥९॥ जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथ केन । भवन्तं विना मे गतिर्नैव शंभो दयाळो न जागर्ति किं वा दया ते ॥१०॥ शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची । ममेशान मागान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥११॥ त्वमप्यंब मां पश्य शीतांशुमौलिप्रिये भेषजं त्वं भवव्याधिशान्त्यै। बृहत्क्लेशभाजं पदांभोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥१२॥ अनेन स्तवेनादरादम्बिकेश परां भक्तिमातन्वता ये नमन्ति । मृतौ निर्भयास्ते ह्यनन्तं लभन्ते हृदंभोजमध्ये समासीनमीशं ॥१३ ॥ अकण्ठे कळङ्कादनङ्गे भुजङ्गादपाणौ कपालादभालेऽनलाक्षात् । अमौलौ शशाङ्कादहं देवमन्यं न मन्ये न मन्ये न मन्ये न मन्ये ॥१४॥ किरीटे निशीशो ललाटे हुताशो भुजे भोगिराजो गळे कालिमा च । तनौ कामिनी यस्य तुल्यं न देवं न जाने न जाने न जाने न जाने ॥१५॥ अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे । भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थोऽस्मि यस्मात् ॥१६। शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहं शिवादन्यथा दैवतं नाभिजाने । महादेव शंभो गिरीश त्रिशूलिन् त्वयीदं समस्तं विभातीति यस्मात् ॥१७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचितं शिवभुजङ्गप्रयातस्तोत्रं संपूर्णम् ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্