logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolआर्तिहर स्तोत्रम् श्रिधर अय्यावाल् Om symbol

Composer : Sridhara Ayyaval

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


sanskrit PDF ॥ आर्तिहर स्तोत्रम् ॥ श्रीशम्भो मयि करुणा शिशिरां दृष्टिं दिशन् सुधावृष्टिम् । सन्तापमपाकुरु मे मन्ता परमेशे तव दयायाः स्याम् ॥१ अवसीदामि यदार्तिभिरनुगुणमिदमोकसोऽम्हसां खलु मे । तवसन्नवसीदामि यदन्तकशासन न तत्तवानुगुणम् ॥ २ देव स्मरन्ति तव ये तेषां स्मरतोऽपि नार्तिरिति कीर्तिम् । कलयसिशिवपाहीति क्रन्दन् सीदाम्यहं किमुचितमिदम् ॥३ आदिशयाघकृतौ मामन्त्तर्यामिन्नसावघात्मेति । आर्तिषु मज्जयसे मां किं ब्रूयां तव कृपैक पात्रमहम् ॥ ४ मन्दाग्रणीरहं तव मयि करुणां घटयितुं विभो नालम् । आक्रष्टं तान्तु बलादलमिह मद्दैन्यमिति समाश्वसिमि ॥ ५ त्वं सर्वज्ञोऽहं पुनरज्ञोऽनीशोऽहं ईस्वरस्त्वमसि । त्वं मयि दोषान् गणयसि किं कथये तुदति किं दया नत्वाम् ॥६ आश्रीतमार्ततरं मामुपेक्षसे किमिति शिव न किं दयसे । श्रितगोप्तादीनार्ति हृदिति खलु शंसन्ति जगति सन्तस्त्वाम् ॥७ प्रहराहरेतिवादी फणितमदाख्य इति पालितो भवता । शिवपाहीति वदोऽहं श्रितो न किं त्वां कथं न पाल्यस्ते ॥ ८ शरणं व्रज शिवमार्तीस्स तव हरेदिति सतां गिराहं त्वाम् । शरणं गतोऽस्मि पालय खलमपि तेष्वीश पक्षपातान् माम् ॥ ९ ॥ इति श्री श्रीदरवेङ्कटेशार्य कृतिषु आर्तिहरस्तोत्रं समाप्तम् ॥

Related Content

जम्बुनाताष्टकम - Jambhunatashtakam

आर्तिहर स्तोत्रम - Artihara stotram

वेदसार शिवस्तव स्तोत्रम् (शङ्कराचार्य विरचितो)

शिव मानसपूजास्तोत्रम्

आख्याषष्टिः- Akyashashtih