logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolअनादि कल्पेश्वर स्तोत्रम्- Anadikalpeshvara Stotram Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Anadikalpeshvara Stotram अनादि कल्पेश्वर स्तोत्रम् - PDF अनादिकल्पेश्वरस्तोत्रम् । कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावरः सः । सर्वेश्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्वर एव सोऽसौ ॥१॥ कैलासवासी गिरिजाविलासी श्मशानवासी सुमनोनिवासी । काशीनिवासी विजयप्रकाशी योऽनादिकल्पेश्वर एव सोऽसौ ॥२॥ त्रिशूलधारी भवदुःखहारी कन्दर्पवैरी रजनीशधारी । कपर्दधारी भजकानुसारी योऽनादिकल्पेश्वर एव सोऽसौ॥३॥ लोकाधिनाथः प्रमथाधिनाथः कैवल्यनाथः श्रुतिशास्त्रनाथः । विद्यार्थनाथः पुरुषार्थनाथो योऽनादिकल्पेश्वर एव सोऽसौ ॥४॥ लिङ्गं परिच्छेत्तुमधोगतस्य नाराणश्चोपरि लोकनाथः । बभूवतुस्तावपि नो समर्थो योऽनादिकल्पेश्वर एव सोऽसौ ॥५॥ यं रावणस्ताण्डवकौशलेन गीतेन चातोषयदस्व सोऽत्र । कृपाकटाक्षेण समृद्धिमाप योऽनादिकल्पेश्वर एव सोऽसौ ॥६॥ सकृच्च धाणोऽवनमय्य शीर्षं यस्याग्रतः सोऽप्यलभत्समृद्धिम् । देवेन्द्रसंपत्त्यविकाङ्गरिष्ठां योऽनादिकल्पेश्वर एव सोऽसौ ॥७॥ गुणान्विमातुं न समर्थ एष वेषश्च जीवोऽपि विकुण्ठितोऽस्य । श्रुतिश्च नूनं चकितं बभाषे योऽनादिकल्पेश्वर एव सोऽसौ ॥८॥ अनादि कल्पेश उमेश एतत् स्तवाष्टकं यः पठति त्रिकालम् । सधौतपापोऽखिललोकवन्द्यं शैवं पदं यास्यति भक्तिमांश्चेत् ॥९॥ इति श्रीवासुदेवानन्दसरस्वतीकृतमनादिकल्पेश्वरस्तोत्रं संपूर्णम् ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্

রাবণকৃতং শিবতাণ্ডব স্তোত্রম্

শিৱমহিম্নঃ স্তোত্রম - Shivamahimnah Stotram

শিৱষডক্ষর স্তোত্রম - Shiva Shadakshara Stotram