logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolश्रीशैल मल्लिकार्जुन सुप्रभातम् Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


प्रातस्स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड- माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ १॥ कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामास्तीकत्रिभुवनशिवाभ्यां हृदि पुन- र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ २॥ नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते दयापूर्णसिन्धो नमस्ते नमस्ते प्रपन्नात्मबन्धो नमस्ते नमस्ते नमस्ते महेश ॥ ३॥ शश्वच्छ्रीगिरिमूर्धनि त्रिजगतां रक्षाकृतौ लक्षितां साक्षादक्षतसत्कटाक्षसरणिश्रीमत्सुधावर्षिणीम् । सोमार्धाङ्कितमस्तकां प्रणमतां निस्सीमसम्पत्प्रदां सुश्लोकां भ्रमराम्बिकां स्मितमुखीं शम्भोस्सखीं त्वां स्तुमः ॥ ४॥ मातः प्रसीद, सदया भव, भव्यशीले लीलालवाकुलितदैत्यकुलापहारे श्रीचक्रराजनिलये श्रुतिगीतकीर्ते श्रीशैलनाथदयिते तव सुप्रभातम् ॥ ५॥ शम्भो सुरेन्द्रनुत शङ्कर शूलपाणे चन्द्रावतंस शिव शर्व पिनाकपाणे गङ्गाधर क्रतुपते गरुडध्वजाप्त श्रीमल्लिकार्जुन विभो तव सुप्रभातम् ॥ ६॥ विश्वेश विश्वजनसेवित विश्वमूर्ते विश्वम्भर त्रिपुरभेदन विश्वयोने फालाक्ष भव्यगुण भोगिविभूषणेश श्रीमल्लिकार्जुन विभो तव सुप्रभातम् ॥ ७॥ कल्याणरूप करुणाकर कालकण्ठ कल्पद्रुमप्रसवपूजित कामदायिन् दुर्नीतिदैत्यदलनोद्यत देव देव श्रीमल्लिकार्जुन विभो तव सुप्रभातम् ॥ ८॥ गौरीमनोहर गणेश्वरसेविताङ्घ्रे गन्धर्वयक्षसुरकिन्नरगीतकीर्ते गण्डावलम्बिफणिकुण्डलमण्डितास्य श्रीमल्लिकार्जुन विभो तव सुप्रभातम् ॥ ९॥ नागेन्द्रभूषण निरीहित निर्विकार निर्माय निश्चल निरर्गल नागभेदिन् । नारायणीप्रिय नतेष्टद निर्मलात्मन् श्रीपर्वताधिप विभो तव सुप्रभातम् ॥ १०॥ सृष्टं त्वयैव जगदेतदशेषमीश रक्षाविधिश्च विधिगोचर तावकीनः । संहारशक्तिरपि शङ्कर किङ्करी ते श्रीशैलशेखर विभो तव सुप्रभातम् ॥ ११॥ एकस्त्वमेव बहुधा भव भासि लोके निश्शङ्कधीर्वृषभकेतन मल्लिनाथ श्रीभ्रामरीप्रय सुखाश्रय लोकनाथ श्रीशैलशेखर विभो तव सुप्रभातम् ॥ १२॥ पातालगाङ्गजलमज्जननिर्मलाङ्गाः भस्मत्रिपुण्ड्रसमलङ्कृतफालभागाः । गायन्ति देवमुनिभक्तजना भवन्तं श्रीमल्लिकार्जुन विभो तव सुप्रभातम् ॥ १३॥ सारस्वताम्बुयुतभोगवतीश्रितायाः ब्रह्मेशविष्णुगिरिचुम्बितकृष्णवेण्याः । सोपानमार्गमधिरुह्य भजन्ति भक्ताः श्रीमल्लिकार्जुन विभो तव सुप्रभातम् ॥ १४॥ श्रीमल्लिकार्जुनमहेश्वरसुप्रभात- स्तोत्रं पठन्ति भुवि ये मनुजाः प्रभाते । ते सर्व सौख्यमनुभूय परानवाप्यं श्रीशाम्भवं पदमवाप्य मुदं लभन्ते ॥ १५॥ इति श्रीमल्लिकार्जुनसुप्रभातं सम्पूर्णम् ।

Related Content

शिव सुप्रभातम - Shiva-suprabhatam

केदीश नाथ सुप्रभातम्

तारकेश्वर सुप्रभातम्

श्रीशैल मल्लिकार्जुन प्रपत्तिः

श्रीशैल मल्लिकार्जुन मङ्गलाशासनम्