logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolश्रीशैल मल्लिकार्जुन स्तोत्रम् Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


श्रीकण्ठादिसमस्तरुद्रनमितो वामार्धजानिः शिवः प्रालेयाचलहारहीरकुमुदक्षीराब्धितुल्यप्रभः । विष्वक्सेनविघातमस्तमकुटीरत्नप्रभाभास्वरः श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ १॥ इन्द्राद्यामरयातुधानकरवल्लीवेल्लिताशीविषा- धीशाकर्षितमन्दरागमथिताम्भोराशिजातस्फुर- । त्कीलासंहितविस्फुलिङ्गगरलग्रासैकशाम्यद्भयः श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ २॥ उद्यद्भासुरकासरासुरभुजादर्पाद्रिदम्भोलिभृ- त्पाटीरामरधेनुनायकककुद्विन्यस्तहस्ताम्बुजः । नीहाराचलकन्यकावहनपादद्वन्द्वपादोरुहः श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ३॥ नीरेजासनमुख्यनिर्जरशिरःप्रच्छन्नपादद्वयः सर्वज्ञत्रिपुरासुराहितगणाम्भोदौघझञ्झानिलः । मार्कण्डेयमहामुनीश्वरनुतप्रख्यातचारित्रकः श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ४॥ सद्भक्तावलिमानसाम्बुरुहचञ्चच्चञ्चरीको मृडः क्रीडाबन्धुरपाणिहृत्कमलपोतः कर्णगोकर्णराट् । चक्री चक्रसमस्तभूषणगणः कोलासुरध्वंसकः श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ५॥ कल्याणाचलकार्मुकप्रथितदुग्धाम्भोधिकन्यामनः कञ्जातभ्रमरायमाणविलसद्गोविन्दसन्मार्गणः । धात्रीस्यन्दनभासमाननलिनीजात(प्त)त्रयीसैन्धवः श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ६॥ गोराजोत्तमवाहनः शशिकलालङ्कारजूटः सदा पद्मानायकसायकस्त्रिभुवनाधीशः पशूनां पतिः । भक्ताभीष्टफलप्रदानचतुरः कारुण्यपाथोनिधिः श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ७॥ पातालामरवाहिनीवरजलक्रीडासमेतः सदा रम्भाकननवाटिकाविहरणोद्युक्तस्त्रयीगोचरः । फालाक्षो भ्रमराम्बिकाहृदयपङ्केजातपुष्पन्धयः श्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ८॥ ॥ इति श्रीमल्लिकार्जुनस्तोत्रं सम्पूर्णम् ॥

Related Content

upamanyukrutam shivastotram

shivabhujanga prayaata stotram

Sadashiva Pancharatnam

Vishveshvara Neeraajanam

nirvana-dasakam