logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolश्रीशैल मल्लिकार्जुन प्रश्नमालिकास्तवःOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


का सम्बुद्धिर्नक्षत्रेशः केन विराजति मात्रुत्सङ्गः । गिरिवरपुत्र्याः पत्युः शीर्षं केन विराजति वदत कवीन्द्राः ॥ १॥ का भाति रमणीशीर्षे को हन्ता शल्यसारथेः । भ्रमराम्बापतिः को वा वदन्तु विबुधोत्तमाः ॥ २॥ षट्चरणस्य च का सम्बुद्धिर्लोके जन्तोः का हितजननी । साध्व्याश्चित्ते भाति च को वा श्रीशैलाग्रे राजति कश्च ॥ ३॥ इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव नृसिंहभारती स्वामिभिः विरचितः श्रीमल्लिकार्जुनप्रश्नमालिकास्तवः सम्पूर्णः ।

Related Content

साम्बाष्टकम्

महाबलेशाष्टकम् - वृद्ध नृसिंहभारती विरचितम्

श्रीशैल मल्लिकार्जुन प्रपत्तिः

श्रीशैल मल्लिकार्जुन मङ्गलाशासनम्

श्रीशैल मल्लिकार्जुन सुप्रभातम्