logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolश्रीशैल मल्लिकार्जुन प्रपत्तिःOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


जय जय जय शम्भो जम्भभित्पूर्वदेव प्रणतपदसरोजद्वन्द्व निर्द्वन्द्व बन्धो जय जय जय जन्मस्थेमसंहारकार प्रणयसगुणमूर्ते पालयास्मान् प्रपन्नान् ॥ १॥ वधूमुखं वल्गदपाङ्गरेखमखण्डितानन्दकरप्रसादम् । विलोकयन् विस्फुरदात्मभावस्स मे गतिश्श्रीगिरि सार्वभौमः ॥ २॥ कुरङ्गपाणिः करुणावलोकः सुरोत्तमश्चन्द्रकलावतंसः । वधूसहायस्सकलेष्टदाता भवत्यसौ श्रीगिरिभाग्यराशिः ॥ ३॥ सन्ध्यारम्भविजृम्भितं श्रुतिशिरस्स्थानान्तराधिष्ठितं सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् । भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥ ४॥ या मूलं सचराचरस्य जगतः पुंसः पुराणी सखी व्यक्तात्मा परिपालनाय जगतामाप्तावतारस्थितिः । दुष्टध्वंस-सदिष्टदानविधये नानासनाध्यासिनी श्रीशैलाग्रनिवासिनी भवतु मे श्रेयस्करी भ्रामरी ॥ ५॥ यत्तेजः परमाणुरेतदखिलं नानास्फुरन्नामभिः भूतं भावि भवच्चराचरजगद्धत्ते बहिश्चान्तरे । सा साक्षात् भ्रमराम्बिका शिवसखी श्रीशैलवासोत्सुका दिश्यादाश्रितलोककल्पलतिका श्रेयांसि भूयांसि नः ॥ ६॥ शरणं तरुणेन्दुशेखरश्शरणं मे गिरिराजकन्यका । शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ ७॥ इति श्रीमल्लिकार्जुन प्रपत्तिः समाप्ता ।

Related Content

Sadashiva Pancharatnam

शिवानन्दलहरी

श्रीशैल मल्लिकार्जुन मङ्गलाशासनम्

श्रीशैल मल्लिकार्जुन सुप्रभातम्

श्रीशैलेश मल्लिकार्जुन चरणशरणाष्टकम्