logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolविश्वनाथ अष्टकम्Om symbol

Composer : Vyasa

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Vishvanatha Ashtakam विश्वनाथा अष्टकम् - PDF विश्वनाथाष्टकम् गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरन्तर विभूषितवामभागम् । नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपतिं भज विश्वनाथम् ॥१॥ वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णु सुरसेवितपादपीठम् । वामेन विग्रहवरेण कळत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम् ॥२॥ भूताधिपं भुजगभूषणभूषिताङ्गं व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् । पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम् ॥३॥ शीतांशुशोभित किरीटविराजमानं भालेक्षणानलविशोषितपञ्चबाणम् । नागाधिपारचित भासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम् ॥४॥ पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुङ्गवपन्नगानाम् । दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम् ॥५॥ तेजोमयं सगुणनिर्गुणमद्वितीयं आनन्दकन्दं अपराजितं अप्रमेयम् । नागात्मकं सकलनिष्कलमात्मरूपं वाराणसीपुरपतिं भज विश्वनाथम् ॥६॥ आशां विहाय परिहृत्य परस्य निन्दां पापे मतिं च सुनिवार्य मनः समाधौ। आदाय हृत्कमलमध्यगतं परेशं वाराणसीपुरपतिं भज विश्वनाथम् ॥७॥ रागादिदोषरहितं स्वजनानुरागवैराग्यशान्तिनिलयं गिरिजासहायम् । माधुर्यधैर्यसुभगं गरळाभिरामं वाराणसीपुरपतिं भज विश्वनाथम् ॥८॥ वाराणसीपुरपतेः स्तवनं शिवस्य व्याख्यातमष्टकमिदं पठते मनुष्यः । विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं संप्राप्य देहविलये लभते च मोक्षम् ॥९॥ विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥१०॥ इति श्रीव्यासकृतं विश्वनाथाष्टकं संपूर्णम् ॥

Related Content

Shri Kashivishvanatha Stotram

ವಿಶ್ವನಾಥಾ ಅಷ್ಟಕಮ್

വിശ്വനാഥാ അഷ്ടകം

विश्वनाथाष्टकम - vishvanathashtakam

श्रीकाशीविश्वनाथस्तोत्रम - Shri Kashivishvanatha Stotram