logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolशिवापराध क्षमापन स्तोत्रम् - Shivaparaadha-kshamaapana Stotram Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shivaparaadha Kshamaapana Stotram sanskrit PDF शिवाय नमः ॥ आदौ कर्मप्रसंगात् कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये क्कथयति नितरां जाठरो जातवेदाः । यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥१॥ बाल्ये दुःखातिरेकान्मललुलितवपुः स्तन्यपाने पिपासा नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां तुदन्ति । नानारोगादिदुःखादुदन परवशः शंकरं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ २॥ प्रौढोऽहं यौवनस्थो विषयविषधरैः पंचभिर्मर्मसन्धौ दष्टो नष्टोऽविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः । शैवी चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ ३॥ वार्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादि तापैः पापैर्रोगैर्वियोगै-स्त्वनव सितवपुः प्रौढिहीनं च दीनम् । मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥४॥ नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे सुसारे । ज्ञातो*धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥५॥ स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गांगतोयं पूजार्थं वा कदाचिद्वहु-तरगहनात्खण्डबिल्वीदलानि । नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थं क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥६॥ दुग्धैर्मध्वाज्य युक्तैर्दधिसितसहितैः स्नापितं नैव लिंगं नो लिप्तं चन्दनाद्यैः कनक विरचितैः पूजितं न प्रसूनैः । धूपैः कर्पूरदीपैर्विविधरसयुतैनैव भक्ष्योपहारैः क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ ७॥ ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः । नो तप्तं गांगतीरे व्रतजपनियमै रुद्रजाप्यैर्न वेदैः क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥८॥ स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुण्डले सूक्ष्ममार्गे शान्ते स्वान्ते प्रलीने प्रकटितबिभवे ज्योतिरूपेऽपराख्ये । लिंगज्ञे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥९॥ नग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो नासाग्रे न्यस्तद्रुष्टिर्विदितभवगुणो नैव द्रुष्टः कदाचित् । उन्मन्याऽवस्थया त्वां विगतकलिमलं शंकरं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ १०॥ चन्द्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे सर्पैर्भूषित कण्ठकर्णविवरे नेत्रोत्थवैश्वानरे । दन्तित्वक्कॄतसुन्दरांबरधरे त्रैलोक्यसारे हरे मोक्षार्थं कुरु चितवृत्तिमखिलामन्यैस्तु किं कर्मभिः ॥ ११॥ किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं किं वा पुत्रकळत्र-मित्रपशुभिर्देहेन गेहेन किम् ज्ञात्वैतत्क्षणभङ्गुरं सपदिरे त्याज्यं मनो दूरतः स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १२॥ आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रात्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ १३॥ करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो॥ १४॥ इति श्रीमच्छङ्कराचार्यविरचितं शिवापराधक्षमापनस्तोत्रं संपूर्णम् ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্