logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolमृत्युञ्जय मानस पूजा स्तोत्रम् - Mrutyunjaya Maanasa Puja StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Mrutyunjaya Maanasa Puja Stotram मृत्युञ्जय मानस पूजा स्तोत्रम् - PDF मृत्युञ्जयमानसपूजास्तोत्रम् । कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् । गङ्गातुङ्गतरङ्गरञ्जित जटाभारं कृपासागरं कण्ठालङ्कृतशेषभूषणममुं मृत्युञ्जयं भावये ॥१॥ आगत्य मृत्युञ्जय चन्द्रमौले व्याघ्राजिनालङ्कृत शूलपाणे । स्वभक्तसंरक्षणकामधेनो प्रसीद विश्वेश्वर पार्वतीश ॥२॥ भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालङ्कृते सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते । ब्रह्मेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने ॥३॥ मन्दारमल्लीकरवीरमाधवीपुन्नागनीलोत्पलचम्पकान्वितैः । कर्पूरपाटीरसुवासितैर्जलैराधत्स्व मृत्युञ्जय पाद्यमुत्तमम् ॥४॥ सुगन्धपुष्पप्रकरैः सुवासितैर्वियन्नदीशीतळवारिभिः शुभैः । त्रिलोकनाथार्तिहरार्घ्यमादराद्गृहाण मृत्युञ्जय सर्ववन्दित ॥५॥ हिमाम्बुवासितैस्तोयैः शीतळैरतिपावनैः । मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥६॥ गुडदधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तम् । शुभकर मधुपर्कमाहर त्वं त्रिनयन मॄत्युहर त्रिलोकवन्द्य ॥७॥ पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर । पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो॥८। जगत्रयीख्यातसमस्ततीर्थसमाहृतैः कल्मषहारिभिश्च । स्नानं सुतोयैः समुदाचर त्वं मृत्युञ्जयानन्तगुणाभिराम ॥९॥ आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् । मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥१०॥ नानाहेमविचित्राणि चरिचीनाम्बराणि च विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥११॥ विशुद्धमुक्ताफलजालरम्यं मनोहरं काञ्चनहेमसूत्रम् । यज्ञोपवीतं परमं पवित्रमाधत्स्व मृत्युञ्जय भक्तिगम्य ॥१२॥ श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम् । दिव्यं देव मनोहरं मणिमये पात्रे समारोपितं सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥१३॥ अक्षतैर्धवळैर्दिव्यैः सम्यक्तिलसमन्वितैः । मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥१४॥ चम्पकपङ्कजकुन्दैः करवीरमल्लिकाकुसुमैः । विस्तारय निजमुकुटं मृत्युञ्जय पुण्डरीकनयनाप्त ॥१५॥ माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे । पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय ॥१६॥ माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापितकुड्मलैश्च । मञ्जीरमुख्याभरणैर्मनोज्ञैरङ्गानि मृत्युञ्जय भूषयामि ॥१७॥ गजवदन स्कन्दधृतेनातिस्वच्छेन चामरयुगेन । गलदलकाननपद्मं मृत्युञ्जय भावयामि हृत्पद्मे ॥१८॥ मुक्तातपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्चन दण्डयुक्तम् । माणिक्यसंस्थापितहेमकुम्भं सुरेशमृत्युञ्जय तेऽर्पयामि ॥१९॥ मणिमुकुरे निष्पटले त्रिजगद्गढान्धकारसप्ताश्वे । कन्दर्पकोटिसदृशं मृत्युञ्जय पश्य वदनमात्मीयम् ॥२०॥ कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमन्वितैश्च । समुद्भवं पावनगन्धधूपितं मॄत्युञ्जयाङ्गं परिकल्पयामि ॥२१॥ वर्तित्रयोपेतमखण्डदीप्त्या तमोहरं बाह्यमथान्तरं च । राज्यं समस्तामरवर्गहृद्यं सुरेशमृत्युञ्जय वंशदीपम् ॥२२॥ राजान्नं मधुरान्वितं च मृदुळं माणिक्यपात्रे स्थितं हिङ्गूजीरकसन्मरीचमिलितः शाकैरनेकैः शुभैः । शाकं सम्यगपूपपूपसहितं सद्योघृतेनाप्लुतं श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥२३॥ कूष्माण्डवार्ताकपटोलिकानां फलानि रम्याणि च कारवेल्ल्याः । सुपाकयुक्तानि ससौरभाणि श्रीकण्ठ मृत्युञ्जय भक्षयेश ॥२४॥ शीतळं मधुरं स्वच्छं पावनं वासितं लघु । मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो॥२५॥ शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् । कदळीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥२६॥ केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितैः । एलामरीचमिलितं मृत्युञ्जय देव भुङ्क्ष्व परमान्नम् ॥२७॥ रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसस्वादुमत्- खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः । कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम् ॥२८॥ मनोज्ञरम्भावनखण्डखण्डितान् रुचिप्रदान्सर्षपजीरकांश्च । ससौरभन्सैन्धवसेवितांश्च गृहाण मृत्युञ्जय लोकवन्द्य ॥२९॥ हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम् । बिसखण्डांल्लवणयुतान्मृत्युञ्जय तेऽर्पयामि जगदीश ॥३०॥ एलाशुण्ठीसहितं दध्यन्नं चारु हेमपात्रस्थम् । अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश ॥३१॥ जम्बीरनीराञ्चितशृङ्गबेरं मनोहरानम्लशलाटुखण्डान् । मृदूपदंशान्सहितोपभुङ्क्ष्व मृत्युञ्जय श्रीकरुणासमुद्र ॥३२॥ नागररामठयुक्तं सुललितजम्बीरनीरसंपूर्णम् । मथितं सैन्धवसहितं पिब हर मृत्युञ्जय क्रतुध्वंसिन् ॥३३ मन्दारहेमाम्बुजगन्धयुक्तैर्मन्दाकिनीनिर्मलपुण्यतोयैः । गृहाण मृत्युञ्जय पूर्णकाम श्रीमत्परापोशनमभ्रकेश ॥३४॥ गगनधुनीविमलजलैर्मृत्युञ्जय पद्मरागपात्रगतैः । मृगमदचन्दनपूर्णं प्रक्षाळय चारुहस्तपदयुग्मम् ॥३५॥ पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः मृत्युञ्जय महादेव पुनराचमनं कुरु ॥३६॥ मौक्तिकचूर्णसमेतैर्मृग मदघनसारवासितैः पूगैः । पणैंः स्वर्णसमानैर्मृत्युञ्जय तेऽर्पयामि ताम्बूलम् ॥३७॥ नीराजनं निर्मलदीप्तिमद्भिर्दीपाङ्कुरैरुज्जवलमुच्छ्रितैश्च । घण्टानिनादेन समर्पयामि मृत्युञ्जयाय त्रिपुरान्तकाय ॥ ३८॥ विरिञ्चिमुख्यामरवृन्दवन्दिते सरोजमत्स्याङ्कितचक्रचिह्निते । ददामि मृत्युञ्जय पादपङ्कजे फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥३९॥ पुन्नागनीलोत्पलकुन्दजातीमन्दारमल्लीकरवीरपङ्कजैः । पुष्पाञ्जलिं बिल्वदळैस्तुळस्या मृत्युञ्जयाङ्घ्रौ विनिवेशयामि ॥४०॥ पदे पदे सर्वतमोनिकृन्तनं पदे पदे सर्वशुभप्रदायकम् । प्रदक्षिणं भक्तियुतेन चेतसा करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥४१॥ नमो गौरीशाय स्फटिकधवळाङ्गाय च नमो नमो लोकेशाय स्तुतविबुधलोकाय च नमः । नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो नमो भालाक्षाय स्मरमदविनाशाय च नमः ॥४२॥ संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते नित्यं पुत्रकळत्रवित्तविलसत्पाशैर्निबद्धं दृढम् । गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ४३॥ सौधे रत्नमये नवोत्पलदळाक्रीर्णे च तल्पान्तरे कौशेयेन मनोहरेण धवळेनाच्छादिते सर्वशः । कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये पार्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥४४॥ चतुश्चत्वारिंशद्विलसदुपचारैरमिमतैर्मनःपद्मे भक्त्या बहिरपि च पूजां शुभकरीम् करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमान्प्रयाति श्रीमृत्युञ्जयपदमनेकाद्भुतपदम् ॥४५॥ प्रातर्लिङ्गमुमापतेरहरहः सन्दर्शनात्स्वर्गदं मध्याह्ने हयमेधतुल्यफलदं सायन्तने मोक्षदम् । भानोरस्तमये प्रदोषसमये पञ्चक्षराराधनं तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥४६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कराचार्यस्य कृतं श्रीमृत्युञ्जय मानसपूजास्तोत्रं संपूर्णम् ॥

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্