logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolअपमृत्युहरं महामृत्युञ्जय स्तोत्रम् Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Apamrutyuharam Mahamrutyunjjaya Stotram अपमृत्युहरं महामृत्युञ्जय स्तोत्रम् ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः अनुष्टुप् छन्दः श्रीमृत्युञ्जयो देवता गौरी शक्तिः मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं च जपे विनियोगः । अथ ध्यानम् ॥ चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं मुद्रापाशमृगाक्षसत्रविलसत्पाणिं हिमांशुप्रभुम् । कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं कान्तं विश्वविमोहनं पशुपतिं मॄत्युञ्जयं भावयेत् । ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् । नमामि शिरसा देवं किं नो मृत्युः करिष्य़ति ॥१॥ नीलकण्ठं कालमूर्तिं कालज्ञं कालनाशनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्य़ति ॥२॥ नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥३॥ वामदेवं महादेवं लोकनाथं जगद्गुरुम् । नमामि शिरसा देवं किंनो मृत्युः करिष्यति ॥४॥ देवदेवं जगन्नाथं देवेशं वृषभध्वजम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥५॥ त्र्यक्षं चतुर्भुजं शान्तं जटामकुटधारिणम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६॥ भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७॥ अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८॥ आनन्दं परमं नित्यं कैवल्यपददायिनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९॥ अर्द्धनारीश्वरं देवं पार्वतीप्राणनायकम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १०॥ प्रलयस्थितिकर्त्तारमादिकर्त्तारमीश्वरम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ११॥ व्योमकेशं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १२॥ गङ्गाधरं शशिधरं शङ्करं शूलपाणिनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १३॥ गङ्गाधरं महादेवं सर्वाभरणभूषितम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥६॥ अनाधः परमानन्दं कैवल्यपदगामिनि । नमामि शिरसा देवं किंनो मृत्युः करिष्यति ॥७॥ स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकम् । नमामि शिरसा देवं किंनो मृत्युः करिष्यति ॥८॥ उत्पत्तिस्थितिसंहारं कर्तारमीश्वरं गुरुम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥९॥ मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ । तस्य मॄत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥१०॥ शतावर्तं प्रकर्तव्यं सङ्कटे कष्टनाशनम् । शुचिर्भूत्वा पठेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥११॥ मृत्युञ्जय महादेव त्राहि मां शरणागतम् । जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥१२॥ तावतस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड । इति विज्ञाप्य देवेशं त्र्यंबकाख्यं मनुं जपेत् ॥१३॥ नमः शिवाय साम्बाय हरये परमात्मने । प्रणतक्लेशनाशाय योगिनां पतये नमः ॥१४॥ इति श्रीमार्कणडेयपुराणे मार्कण्डेयकृतमपमृत्युहरं महा मृत्युञ्जयस्तोत्रं संपूर्णम् ॥

Related Content

upamanyukrutam shivastotram

shivabhujanga prayaata stotram

shivastutiH (langkeshvara virachitaa)

Sadashiva Mahendra StSadashiva Mahendra Stutihutih

Shiva Stutih (Shri Mallikuchisoorisoonu Narayana Panditaach