यत्र देवपतिनापि देहिनां मुक्तिरेव भवतीतिनिश्चितम् ।
पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥१॥
स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा ।
ढुण्डिभैरवविदारितविध्ना विश्वनाथनगरी गरीयसी ॥२॥
यत्र तीर्थममलं मणिकर्णिका सा सदाशिव सुखप्रदायिनी ।
या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी ॥३॥
सर्वदा ह्यमरवृन्दवन्दिता या गजेन्द्रमुखवारितविघ्ना ।
कालभैरवकॄतैकशासना विश्वनाथनगरी गरीयसी ॥४॥
यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते स्मरणमात्रतःशुभा ॥
साखिलामरगण्स्पृहणीया विश्वनाथनगरी गरीयसी ॥ ५॥
उरगं तुरगं खगं मृगं वा करिणं केसरिणं खरं नरं वा ।
सकृदाप्लुत एव देवनद्यां लहरी किं न हरं चरीकरोति ॥६॥
इति श्रीमच्छङ्कराचार्यविरचितं विश्वनाथनगरीस्तोत्रं संपूर्णम् ॥
इति बॄहत्स्तोत्ररत्नाकरस्य प्रथमो भागः ।