अकारणायाखिलकारणाय नमो महाकारणकारणाय ।
नमोऽस्तु कालानललोचनाय कृतागसं मामव विश्वमूर्ते ॥१॥
नमोऽस्त्वहीनाभरणाय नित्यं नमः पशूनां पतये मृडाय ।
वेदान्तवेद्याय नमो नमस्ते कृतागसं मामव विश्वमूर्ते ॥२॥
नमोऽस्तु भक्तेहितदानदात्रे सर्वौषधीनां पतये नमोऽस्तु ।
ब्रह्मण्यदेवाय नमो नमस्ते कृतागसं मामव विश्वमूर्ते॥३॥
कालाय कालानलसन्निभाय हिरण्यगर्भाय नमो नमस्ते ।
हालाहलादाय सदा नमस्ते कृतागसं मामव विश्वमूर्ते ॥४॥
विरिञ्चिनारायणशक्रमुख्यैरज्ञातवीर्याय नमो नमस्ते ।
सूक्ष्मातिसूक्ष्माय नमोऽघहन्त्रे कृतागसं मामव विश्वमूर्ते ॥५॥
अनेककोटीन्दुनिभाय तेऽस्तु नमो गिरीणां पतयेऽघहन्त्रे ।
नमोऽस्तु ते भक्तविपद्धराय कृतागसं मामव विश्वमूर्ते ॥ ६॥
सर्वान्तरस्थाय विशुद्धधाम्ने नमोऽस्तु ते दुष्टकुलान्तकाय ।
समस्ततेजोनिधये नमस्ते कृतागसं मामव विश्वमूर्ते ॥७॥
यज्ञाय यज्ञादिफलप्रदात्रे यज्ञस्वरूपाय नमो नमस्ते ।
नमो महानन्दमयाय नित्यं कृतागसं मामव विश्वमूर्ते ॥८॥
इति स्तुतो महादेवो दक्षं प्राह कृताञ्जलिम् ।
यत्तेऽभिलषितं दक्ष तत्ते दास्याम्यहं ध्रुवम् ॥९॥
अन्यच्च श्रृणु भो दक्ष यच्च किञ्चिद्ब्रवीम्यहम् ।
यत्कृतं हि मम स्तोत्रं त्वया भक्त्या प्रजापते ॥१०॥
ये श्रद्धया पठिष्यन्ति मानवाः प्रत्यहं शुभम् ।
निष्कल्मषा भविष्यन्ति सापराधा अपि ध्रुवम् ॥११॥
इति दक्षकृतं विश्वमूर्तिस्तोत्रं संपूर्णम् ॥