logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolउमामहेश्वर स्तोत्रम् - Umaamaheshvara StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Umamaheshvara Stotram नमः शिवाभ्यां नवायौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् ॥ नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्याम्॥१॥ नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥२॥ नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥३॥ नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहभ्याम् । जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥४॥ नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरीपञ्जररञ्जिताभ्याम् । प्रपञ्चसृष्टिस्थितिसंहृतिभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥५॥ नमः शिवाभ्यामतिसुन्दराभ्यामत्यन्तमासक्तहृदम्बुजाभ्याम् । अशेषलोकैकहितङ्कराभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥६॥ नमः शिवाभ्यां कलिनाशनाभ्यां कङ्काळकल्याणवपुर्धराभ्याम् । कैलासशैलस्थितदेवताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥७॥ नमः शिवाभ्यामशुभापहाभ्यामशेषलोकैकविशेषिताभ्याम् ॥ अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥८॥ नमः शिवाभ्यां रथवाहनाभ्यां रवीन्दुवैश्वानरलोचनाभ्याम् । राकाशशाङ्काभमुखाम्बुजाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥९॥ नमः शिवाभ्यां जटिलन्धराभ्यां जरामृतिभ्यां च विवर्जिताभ्याम् । जनार्दनाब्जोद्भवपूजिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥१०॥ नमः शिवाभ्यां विषमेक्षणाभ्यां बिल्वच्छदामल्लिकदामभृच्द्याम् । शोभावतीशान्तवतीश्वराभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ ११॥ नमः शिवाभ्यां पशुपालकाभ्यां जगत्रयीरक्षणबद्धहृद्भ्याम् । समस्तदेवासुरपूजिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥१२॥ स्तोत्रं त्रिसन्ध्यं शिवपार्वतीयं भक्त्या पठेद्वादशकं नरो यः । स सर्वसौभाग्यफलानि भुङ्ते शतायुरन्ते शिवलोकमेति ॥१३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतावुमामहेश्वरस्तोत्रं संपूर्णम् ॥

Related Content

ಉಮಾಮಹೇಶ್ವರ ಸ್ತೋತ್ರಮ್- Umaamaheshvara Stotram

ഉമാമഹേശ്വര സ്തോത്രം- Umaamaheshvara Stotram

उमामहेश्वर स्तोत्रम- Umaamaheshvara Stotram

ਉਮਾਮਹੇਸ਼੍ਵਰ ਸ੍ਤੋਤ੍ਰਮ - Umaamaheshvara Stotram

உமாமஹேச்வர ஸ்தோத்ரம்- Umaamaheshvara Stotram