अनेककोटिब्रह्माण्डजननीनायकप्रभो ।
अनेकप्रमुखस्कन्दपरिसेवित पाहि माम् ॥१॥
आकारापारनिर्व्याजकरुणायाः सतीपते ।
आशाभिपूरकानम्रविततेः पाहि शङ्कर ॥२॥
इभाश्वमुखसंपत्तिदानदक्षकृपालव ।
इष्टप्रालेयशैलेन्द्रपुत्र्याः पाहि गिरीश माम् ॥३॥
ईहाशून्यजनावाप्य नतानन्दाब्धिचन्द्रमः ।
ईशान सर्वविद्यानामिन्दुचूड सदाऽव माम् ॥४॥
उरगाधिपसंराजत्पदपङ्केरुहद्वय ।
उडुराजकृतोत्तंस गिरिजासख मामव ॥५॥
ऊरीकृतविनम्रेष्टपूगसंपूरणव्रत ।
अखिलामरकोटीरनिघृष्टपद पाहि माम् ॥६॥
ऋद्धिदाम्भोजवासायाः काममाशु नमत्ततेः ।
शैलेन्द्रतनयाश्लिष्ट शर्व मां पाहि सर्वदा ॥७॥
ऋस्वराख्येयरूपाय भूतिदायादराद्दुतम् ।
षण्मुखेभास्यपूज्याय नम्रश्चन्द्रार्धमौलये ॥८॥
लृकाराख्याय लक्ष्मीशद्रुहिणाद्यर्चिताङ्घ्रये ।
अपारकरुणाजन्मभूमये शंभवे नमः ॥९॥
लॄस्वरूप ललाटाक्ष लाकिन्यादिनिषेवित ।
लावण्याकर कारुणयवारिधे पाहि मां प्रभो ॥१०॥
एणाङ्कचूड काणादशास्त्रप्रज्ञाप्रदायक ।
शोणाधर नमस्यामि त्वत्पादाम्बुरुहद्वयम् ॥११॥
ऐहिकामुष्मिके पुंसां सुलभे यत्पदार्चनात् ।
चन्द्रार्धविलसन्मौलिं नमामि तमुमापतिम् ॥१२॥
ओमित्याख्यां यस्यवेदा वेदान्ताश्च जगुर्मुहुः ।
ओङ्कारजपतुष्टं तं नौमि चन्द्रार्धशेखरम् ॥१३॥
औदासीन्यं समस्तेषु विषयेषु प्रकुर्वताम् ।
सुलभं जगदीशानं पार्वती पतिमाश्रये ॥१४॥
अङ्गशोभापराभूतकोटिराकानिशाकरम् ।
अन्धकान्तककामादिगर्वहारिणमाश्रये ॥१५॥
अश्च उश्च मकारश्च यन्नामावयवाक्षराः ।
अशेषशुभदातारं तं नौमि शशिशेखरम् ॥१६॥
कविता वृणुते रतीशतुल्यं पतिमास्थासहितेव मानिनी ।
तरसा पुरुषं यदङ्घ्रिनम्रं तमहं नौमि शशाङ्कबालचूडम् ॥१७॥
खण्डेन चान्द्रेण किरीटगेन विराजमानं वृषभाधिरूढ ।
खवायुतेजोऽम्बुधरादिरूपं शैलेन्द्रसुतासमेतम् ॥१८॥
गद्यानि पद्यानि च शीघ्रमेव मूकस्य वक्त्रादपि निःसरन्ति ।
यदीयकारुण्यलवात्तमीशं नमामि चन्द्रार्धकभासिमौलिम् ॥१९॥
घटोद्भवाद्या मुनयो यदङ्घ्रिसमर्चनातो महतीं प्रपन्नाः ।
सिद्धिं तमानम्रजनेष्टदाननिबद्धदीक्षं प्रणमामि शंभुम् ॥२०॥
ङकारवाच्याय नमज्जनौघविद्याप्रदानप्रवणाय शीघ्रम् ।
वटागमूलैकनिकेतनाय श्रीदक्षिणास्याय नमः शिवाय ॥२१॥
चयेन भासां वपुषश्चकोरबन्धुं जयन्तं जितपुष्पचापम् ।
प्रालेयशैलेन्द्रसुतामनोऽब्ज भानुं भजे कञ्चन देववर्यम् ॥२२॥
छत्रं च वालव्यजने मनोज्ञे समुद्रकाञ्चीं पृथिवीं च लोकाः ।
जवाद्भजन्तेऽप्यतिकिंपचाना यदङ्घ्रिनम्रास्तमुमेशमीडे ॥२३॥
जन्मस्वनेकेषु विधाय धर्मान्स्ववर्णयोग्यान्मनुजोऽतिभक्त्या ।
जिज्ञासते यत्पदमादरेण तं नौमि सच्चित्सुखरूपमीशम् ॥२४॥
झरीं दधानं दिविषत्तटिन्या झटित्ययोग्यानपि भक्तिपूर्णान् ।
पुनानमर्धेन्दुलसत्किरीटं युवानमीशं कलयामि चित्ते ॥२५॥
ञकाररूपाय रवीन्दुवह्निनेत्राय नानाविधरूपधर्त्रे ।
लोकावनायातिमनोहराय शैलेन्द्रकन्यापतये नमोऽस्तु ॥२६॥
टवर्णवाच्याय तडित्प्रभाय यमादियोगाङ्गविदर्चिताय ।
शमादिसंपत्सहितप्यपादपद्माय गौरीपतये नमोऽस्तु ॥२७॥
ठपुक्त्रिवर्णप्रतिपादिताय हराय निःशेषविषाघहर्त्रे ।
श्रीनीलकण्ठाय यमिप्रवीरध्येयाय कुर्मः प्रणातिं प्रमोदात् ॥२८॥
डामरप्रमुखदुःखसमूहध्वंसदक्षचरणस्मरणस्य ।
शैलजाहृदयपङ्कजभानोः शङ्करस्य चरणौ प्रणतोऽस्मि ॥२९॥
ढक्काख्यवाद्यश्रवणोत्सुकाय प्राढाय कन्दर्पशरप्रभेदे ।
शिवाय चन्द्रार्धलसज्जटाय कुर्मः प्रमोदात्प्रणतेः सहस्रम् ॥३०॥
णान्तदादिहरिदुत्सुखमूर्ते नाकनाथपरिसेवितपाद ।
वासलोल वटवृक्षतले मां वाराणस्यामिव पाहि दयाळो ॥३१॥
तप्ताः संसृतिवह्निना भुवि नराः संप्राप्य सद्देशिकं
तस्यास्याच्छ्रतिशीर्षवाक्यनिचयं श्रुत्वार्थयुक्तं मुहुः ।
युक्त्या श्रुत्यविरुद्वया तदनुसञ्चिन्त्यार्थमाद्योदितं
ध्यात्वाऽजस्रमवाप्नुवन्ति यमहं तं नौमि गौरीपतिम् ॥३२॥
थायैयेति समस्तदेववनिता नृत्यं यदग्रेऽन्वहं
कुर्वन्त्यम्बुजसंभवप्रभृतयः स्तुन्वन्ति वेदैश्च यम् ।
इन्द्राणीशरमाधवादिसुरा यस्यार्चनां कुर्वते
कल्पागप्रभवैः सुमैस्तमनिशं नौम्यादिजावल्लभम् ॥३३॥
इति श्रीशिवसुवर्णमालास्तवः संपूर्णः ॥