logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolश्रीशिव नवरत्नमाला स्तवः - Shrishiva Navaratnamaalaa StavahOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Srishiva Navaratnamala Stavah कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम् । सततमलङ्कुर्वाण प्रयतावनदीक्ष यक्षराजसख ॥१॥ कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप । कान्तारखेलनरुचे शान्तान्तःकरणमेनमव शंभो ॥२॥ दाक्षायणीमनोऽम्बुजभानो वीक्षावितीर्णविनतेष्ट । द्राक्षामधुरिममदभरशिक्षाकर्त्रीं प्रदेहि मम वाचम् ॥३॥ पारदसमानवर्णो नीरदनीकाशदिव्यगलदेशः । पादनतदेवसङ्घः पशुनिशं पातु मामीशः ॥४॥ प्रत्यक्षो भव शंभो गुरुरूपेणाशु मेऽद्य करुणाब्धे । चिरतरमिह वासं कुरु जगतीं रक्षन्प्रबोधदानेन ॥५॥ यक्षाधिपसखमनिशं रक्षाचतुरं समस्तलोकानाम् । वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि ॥६॥ यमनियमनिरतलभ्यं शमदममुखषट्कदानकृतदीक्षम् । रमणीयपदसरोजं शमनाहितमाश्रये सततम् ॥७॥ यमिहृन्मानसहंसं शमिताघौघं प्रणाममात्रेण । अमितायुःप्रदपूजं कमितारं नौमि शैलतनयायाः ॥८॥ येन कृतमिन्दुमौले मानववर्येण तावकस्मरणम् । तेन जितं जगदखिलं को न ब्रुते सुरार्यतुल्येन ॥९॥ इति शिवनवरत्नमालास्तवः संपूर्णः ॥

Related Content

श्रीशिव नवरत्नमाला स्तवः - Shrishiva Navaratnamaalaa Stavah