कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम् ।
सततमलङ्कुर्वाण प्रयतावनदीक्ष यक्षराजसख ॥१॥
कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप ।
कान्तारखेलनरुचे शान्तान्तःकरणमेनमव शंभो ॥२॥
दाक्षायणीमनोऽम्बुजभानो वीक्षावितीर्णविनतेष्ट ।
द्राक्षामधुरिममदभरशिक्षाकर्त्रीं प्रदेहि मम वाचम् ॥३॥
पारदसमानवर्णो नीरदनीकाशदिव्यगलदेशः ।
पादनतदेवसङ्घः पशुनिशं पातु मामीशः ॥४॥
प्रत्यक्षो भव शंभो गुरुरूपेणाशु मेऽद्य करुणाब्धे ।
चिरतरमिह वासं कुरु जगतीं रक्षन्प्रबोधदानेन ॥५॥
यक्षाधिपसखमनिशं रक्षाचतुरं समस्तलोकानाम् ।
वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि ॥६॥
यमनियमनिरतलभ्यं शमदममुखषट्कदानकृतदीक्षम् ।
रमणीयपदसरोजं शमनाहितमाश्रये सततम् ॥७॥
यमिहृन्मानसहंसं शमिताघौघं प्रणाममात्रेण ।
अमितायुःप्रदपूजं कमितारं नौमि शैलतनयायाः ॥८॥
येन कृतमिन्दुमौले मानववर्येण तावकस्मरणम् ।
तेन जितं जगदखिलं को न ब्रुते सुरार्यतुल्येन ॥९॥
इति शिवनवरत्नमालास्तवः संपूर्णः ॥