आर्द्रान्तःकरणस्त्वं यस्मादीशान भक्तवृन्देषु ।
आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥१॥
द्रष्टॄंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः ।
मा भीरस्त्विति शंभो मध्येतिर्यग्ग तागतैर्ब्रूषे ॥२॥
प्रकरोति करुणयार्द्रान् शंभुर्नम्रानिति प्रबोधाय ।
धर्मोऽयं किल लोकानार्द्रान्कुरुतेऽद्य गौरीश ॥३॥
आर्द्रा नटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम् ।
आर्द्रर्क्ष एवोत्सवमाह शस्तं पुराणजालं तव पार्वतीश ॥४॥
बाणार्चने भगवतः परमेश्वरस्य
प्रीतिर्भवेन्निरुपमेति यतः पुराणैः ।
संबोध्यते परशिवस्य यथान्धकं ततः करोति
बाणार्चनं जगति भक्तियुता जनाळिः ॥५॥
यथान्धकं त्वं विनिहत्य शीघ्रं लोकस्य रक्षामकरोः कृपाब्धे ।
तथाज्ञतां मे विनिवार्य शीघ्रं विद्यां प्रयच्छाशु सभाधिनाथ ॥६॥
इति श्रीकण्ठेशस्तोत्रं संपूर्णम् ॥