logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolश्रीकामेश्वर स्तोत्रम्- Shrikaameshvara StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Srikameshvara Stotram ककाररूपाय करात्तपाशसॄणीक्षुपुष्पाय कलेश्वराय । काकोदरस्रग्विलसद्गलाय कामेश्वरायास्तु नतेः सहस्रम् ॥१॥ कनत्सुवर्णाभजटाधराय सनत्कुमारादिसुनीडिताय । नमत्कलादानधुरन्धराय कामेशवरायास्तु नतेः सहस्रम् ॥२॥ कराम्बुजातम्रदिमावधूतप्रवालगर्वाय दयामयाय । दारिद्र्यदावामृतवृष्टये ते कामेशवरायास्तु नतेः सहस्रम् ॥३॥ कल्याणशैलेषुघयेऽहिराजगुणाय लक्ष्मीधवसायकाय । पृथ्वीरथायागमसैन्धवाय कामेशवरायास्तु नतेः सहस्रम् ॥४॥ कल्याय बल्याशरसङ्घभेदे तुल्या न सन्त्येव हि यस्य लोके । शल्यापहर्त्रे विनतस्य तस्मै कामेशवरायास्तु नतेः सहस्रम् ॥५॥ कान्ताय शैलाधिपतेः सुताय घटोद्भवात्रेयमुखार्चिताय । अघौघविध्वंसनपण्डिताय कामेशवरायास्तु नतेः सहस्रम् ॥६॥ कामरये काङ्क्षितदाय शीघ्रं त्रात्रे सुराणां निखिलाद्भयाच्च । चलत्फणीन्द्रश्रितकन्धराय कामेशवरायास्तु नतेः सहस्रम् ॥ ७॥ कालान्तकाय प्रणतार्तिहन्त्रे तुलाविहीनास्यसरोरुहाय । निजाङ्गसौन्दर्यजिताङ्गजाय कामेशवरायास्तु नतेः सहस्रम् ॥८॥ कैलासवासादरमानसाय कैवल्यदाय प्रणतव्रजस्य । पदाम्बुजानम्रसुरेश्वराय कामेशवरायास्तु नतेः सहस्रम् ॥९॥ हतारिषट्कैरनुभूयमाननिजस्वरूपाय निरामयाय । निराकृतानेकविधामयाय कामेशवरायास्तु नतेः सहस्रम् ॥१०॥ हतासुराय प्रणतेष्टदाय प्रभाविनिर्धूतजपासुमाय । प्रकर्षदाय प्रणमज्जनानां कामेशवरायास्तु नतेः सहस्रम् ॥११॥ हराय ताराधिपशेखराय तमालसङ्काशगलोज्ज्वलाय । तापत्रयाम्भोनिधिवाडवाय कामेशवरायास्तु नतेः सहस्रम् ॥१२॥ हृद्यानि पद्यानि विनिःसरन्ति मुखाम्बुजाद्यत्पदपूजकानाम् । विना प्रयत्नं कमपीह तस्मै कामेश्वरायास्तु नतेः सहस्रम् ॥१३॥ इति कामेश्वरस्तोत्रं संपूर्णम् ॥

Related Content

শ্রীকামেশ্ৱর স্তোত্রম- Shrikaameshvara Stotram

શ્રીકામેશ્વર સ્તોત્રમ - Shrikaameshvara Stotram

ಶ್ರೀಕಾಮೇಶ್ವರ ಸ್ತೋತ್ರಮ್ - Shrikaameshvara Stotram

ശ്രീകാമേശ്വര സ്തോത്രം - Shrikaameshvara Stotram

श्रीकामेश्वर स्तोत्रम- Shrikaameshvara Stotram