स धूर्जटिजटाजूटॊ जायतां विजयाय वः ।
यत्रैकपलितभ्रान्तिं करॊत्यद्यापि जाह्नवी ॥१॥
चूडापीडकपालसङ्कुलगलन्मन्दाकिनीवारयॊ
विद्यत्प्रायललाटलॊचनपुटज्यॊतिर्विमिश्रत्विषः ।
पान्तु त्वामकठॊरकॆतकशिखासन्दिग्धमुग्धॆन्दवॊ
भूतॆशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटाजटाः ॥२॥
गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखा-
रत्नैः कॊरकिताः सितांशुकलया स्मॆरैकपुष्पश्रियः ।
आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैर्मिलद्दॊहदा
नाल्पं कल्पलताः फलं ददतु वॊऽभीष्टं जटा धूर्जटॆः ॥३॥
इति श्रीशिवजटाजूटस्तुतिः समाप्ता ॥