गणनाथषण्मुखयुक्तो गिरिजासंश्लेषतुष्टहृदयाञ्जः
दूर्वाभिख्यपुरस्थान् लोकान् परिपातु भक्तिविनययुतान् ॥१॥
विद्यानाथ विनीतिभक्तिसहितान् लोकान् कृपावारिधे
दूर्वाभिख्यपुरस्थितान् करुणया पाहीभवक्त्रं यथा ।
विद्यायुःसुखयुक्तिशक्तिभिरलं युक्तान् विधायानिशं
शान्त्याद्यैरपि दिव्यमुक्तिपदवीसन्दर्शकैः शङ्कर ॥२॥
इति श्रीदूर्वेशस्तोत्रं संपूर्णम् ॥