देवा दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः
पाताळं व्रज मेदिनि प्रविशत क्षोणीतलं भूधराः ।
ब्रह्मन्नुन्नय दूरमात्मभुवनं नाथस्य नो नॄत्यतः
शंभोः सङ्कटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥१॥
दोर्दण्डद्वयलीलयाऽचलगिरिभ्राम्यत्तदुच्चैरव-
ध्वानोद्भीतजगद्भ्रमत्पदभरालोलत्फणाग्र्योरगम् ।
भृङ्गापिङ्गजटाटवीपरिसरोद्गङ्गोर्मिमालाचल-
च्चन्द्रं चारु महेश्वरस्य भवतां निःश्रेयसे मङ्गळम् ॥२॥
सन्ध्याताण्डवडम्बर व्यसनिनो भर्गस्य चण्डभ्रमि-
व्यानृत्यद्भुजदण्डमण्डल भुवो झंझानिलाः पान्तु वः ।
येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृता-
मुड्डीनेषु बिडौजसा पुनरसौ दम्भोलिरालोकितः ॥३॥
शर्वाणीपाणितालैश्चलवलयझणत्कारिभिः श्लाघ्यमानं
स्थाने संभाव्यमानं पुळकितवपुषा शंभुना प्रेक्षकेण ।
खेलत्पिच्छाळिकेकाकलकलकलितं क्रौञ्चमिद्वर्हियूना
हेरम्बाकाण्डवबृंहातरळितमनसस्ताण्डवं त्वा धिनोतु ॥४॥
देव-स्तै गुण्यमेदात्सृजति वितनुते संहरत्येष लोका-
नस्यैव व्यापिनीभिस्तनुभिरपि जगद्व्याप्तमष्टभिरेव ॥
वन्द्यो नास्येति पश्यन्निव चरणगतः पातु पुष्पाञ्जलिर्वः
शंभोर्नृत्यावतारे वलयमणिफणाफूत्कृतैर्विप्रकीर्णः ॥५॥
इति शिवताण्डवस्तुतिः समाप्ता ॥