श्री ताम्रपर्णीमाहात्म्यम् - Sri Tamraparni Mahatmiyam
सदाशिवाष्टकम - Sadashiva Ashtakam
महाबलेशाष्टकम् - वृद्ध नृसिंहभारती विरचितम्
अकारादिक्रमेन कौथुम शाखा सामनामानि (Kauthuma Shakha Samaganam Name Index)
सामगान आरम्भ पद अनुक्रमणी (Index of Samaganas starting phrase - Prakruti)
श्रीरुद्रैकादशिनीप्रयोगः (लघु रुद्रम्) Sri Rudra Ekadashini Prayoga (Laghu Rudram)
नमश्शिवाय भुजंगम् Namashivaya Bhujangam
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 1 - 10
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 11 - 20
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 21 - 30
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 31 - 40
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 41 - 50
श्री गोकर्ण क्षेत्रपुराणम् (स्कन्दपुराण सनत्कुमारसंहिता अन्तर्गतं गोकर्णखण्डम्)
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 51 - 60
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 61 - 70
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 71 - 80
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 81 - 90
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 91 - 100
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 101 - 110
श्री गोकर्ण क्षेत्रपुराणम् - अध्यायः 111 - 118
श्रीशैल मल्लिकार्जुन प्रपत्तिः
श्रीशैल मल्लिकार्जुन मङ्गलाशासनम्
श्रीशैल मल्लिकार्जुन सुप्रभातम्
श्रीशैलेश मल्लिकार्जुन चरणशरणाष्टकम्
श्रीशैल मल्लिकार्जुन स्तोत्रम्
श्रीशैल मल्लिकार्जुन प्रश्नमालिकास्तवः
अपमृत्युहर शिव स्तोत्राणि
दुस्वप्नहर स्तोत्रम्
Singer
Vasumathy Desikan
Vasumathy Desikan
Ganesh
Sowmini
Play Song
Source language
Sanskrit
Sanskrit
Translation language
No translation available
Click on the songs to view the meaning
Shivapanchakshara Nakshatramala Stotram
श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय
धामलेशधूतकोकबन्धवे नमः शिवाय ।
नामशेषितानमद्भवान्धवे नमः शिवाय
पामरेतरप्रधानवन्धवे नमः शिवाय ॥१॥
कालभीतविप्रबालपाल ते नमः शिवाय
शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय ।
मूलकारणाय कालकाल ते नमः शिवाय
पालयाधुना दयाळवाल ते नमः शिवाय ॥ २॥
इष्टवस्तुमुख्यदानहेतवे नमः शिवाय
दुष्टदैत्यवंशधूमकेतवे नमः शिवाय ।
सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय
अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय ॥३॥
आपदद्रिभेदटङ्कहस्त ते नमः शिवाय
पापहारि दिव्यसिन्धुमस्त ते नमः शिवाय ।
पापहारिणे लसन्नमस्तते नमः शिवाय
शापदोषखण्डनप्रशस्त ते नमः शिवाय॥४॥
व्योमकेश दिव्यभव्यरूप ते नमः शिवाय
हेममेदिनीधरेन्द्रचाप ते नमः शिवाय ।
नाममात्रदग्धसर्वपाप ते नमः शिवाय
कामनैकतानहृद्दुराप ते नमः शिवाय ॥५॥
ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय
जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नमः शिवाय ।
ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय
जिह्मकालदेहदत्तपद्धते नमः शिवाय ॥६॥
कामनाशनाय शुद्धकर्मणे नमः शिवाय
सामगानजायमानशर्मणे नमः शिवाय ।
हेमकान्तिचाकचक्यवर्मणे नमः शिवाय
सामजासुराङ्गलब्धचर्मणे नमः शिवाय ॥७॥
जन्ममृत्युघोरदुःखहारिणे नमः शिवाय
चिन्मयैकरूपदेहधारिणे नमः शिवाय ।
मन्मनोरथावपूर्तिकारिणे नमः शिवाय
सन्मनोगताय कामवैरिणे नमः शिवाय ॥८॥
यक्षराजबन्धवे दयाळवे नमः शिवाय
दक्षपाणिशोभिकाञ्चनालवे नमः शिवाय।
पक्षिराजवाहहृच्छयालवे नमः शिवाय
अक्षिफालवेदपूततालवे नमः शिवाय ॥९॥
दक्षहस्तनिष्ठजातवेदसे नमः शिवाय
ह्यक्षरात्मने नमद्विडौजसे नमः शिवाय ।
दीक्षितप्रकाशितात्मतेजसे नमः शिवाय
उक्षराजवाह ते सतां गते नमः शिवाय ॥१०॥
राजताचलेन्द्रसानुवासिने नमः शिवाय
राजमाननित्यमन्दहासिने नमः शिवाय ।
राजकोरकावतंसभासिने नमः शिवाय
राजराजमित्रता प्रकाशिने नमः शिवाय ॥११॥
दीनमानबालिकामधेनवे नमः शिवाय
सूनवाणदाहकृत्कृशानवे नमः शिवाय ।
स्वानुरागभक्तरत्न सानवे नमः शिवाय
दानवान्धकारचण्डभानवे नमः शिवाय ॥१२॥
सर्वमङ्गळाकुचाग्रशायिने नमः शिवाय
सर्वदेवतागणातिशायिने नमः शिवाय ।
पूर्वदेवनाशसंविधायिने नमः शिवाय
सर्वमन्मनोजभङ्गदायिने नमः शिवाय ॥१३॥
स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय
माकरन्दसारवर्षिभाषिणे नमः शिवाय ।
एकबिल्वदानतोऽपि तोषिणे नमः शिवाय
नैकजन्मपापजालशोषिणे नमः शिवाय ॥१४॥
सर्वजीवरक्षणैकशीलिने नमः शिवाय
पार्वतीप्रियाय भक्तपालिने नमः शिवाय ।
दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय
शर्वरीशधारिणे कपालिने नमः शिवाय ॥१५॥
पाहि मामुमामनोज्ञदेह ते नमः शिवाय
देहि मे वरं सिताद्रिगेह ते नमः शिवाय ।
मोहितर्षिकामिनीसमूह ते नमः शिवाय
स्वेहितप्रसन्न कामदोह ते नमः शिवाय ॥१६॥
मङ्गळप्रदाय गोतुरङ्ग ते नमः शिवाय
गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय ।
सङ्गरप्रवृत्तवैरिभङ्ग ते नमः शिवाय
अङ्गजारये करेकुरङ्ग ते नमः शिवाय ॥१७॥
ईतितक्षणप्रदानहेतवे नमः शिवाय
आहिताग्निपालकोक्षकेतवे नमः शिवाय ।
देहकान्तिधूतरौप्यधातवे नमः शिवाय
गेहदुःखपुञ्जधूमकेतवे नमः शिवाय ॥१८॥
त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय
दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय ।
ऋक्षराजभानुपावकाक्ष ते नमः शिवाय
रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय ॥१९॥
न्यङ्कुपाणये शिवङ्कराय ते नमः शिवाय
सङ्कटाब्धितीर्णकिङ्कराय ते नमः शिवाय ।
पङ्कभीषिताभयङ्कराय ते नमः शिवाय
पङ्कजाननाय शङ्कराय ते नमः शिवाय ॥२०॥
कर्मपाशनाश नीलकण्ठ ते नमः शिवाय
शर्मदाय नर्यभस्मकण्ठ ते नमः शिवाय ।
निर्ममर्षिसेवितोपकण्ठ ते नमः शिवाय
कुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय ॥२१॥
विष्टपाधिपाय नम्रविष्णवे नमः शिवाय
शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय ।
इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवाय
कष्टनाशनाय लोकजिष्णवे नमः शिवाय ॥२२॥
अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय
सत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय ।
स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय
विप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय ॥२३॥
सेवकाय मे मृड प्रसीद ते नमः शिवाय
भावलभ्य तावकप्रसाद ते नमः शिवाय ।
पावकाक्ष देवपूज्यपाद ते नमः शिवाय
तावकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय ॥२४॥
भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय
शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय ।
भक्तसङ्कटापहारयोगिने नमः शिवाय
युक्तसन्मनः सरोजयोगिने नमः शिवाय ॥२५॥
अन्तकान्तकाय पापहारिणे नमः शिवाय
शन्तमाय दन्तिचर्मधारिणे नमः शिवाय ।
सन्तताश्रितव्यथाविदारिणे नमः शिवाय
जन्तुजातनित्यसौख्यकारिणे नमः शिवाय ॥२६॥
शूलिने नमो नमः कपालिने नमः शिवाय
पालिने विरिञ्चितुण्डमालिने नमः शिवाय ।
लीलिने विशेषरुण्डमालिने नमः शिवाय
शीलिने नमः प्रपुण्यशालिने नमः शिवाय ॥२७॥
शिवपञ्चाक्षरमुद्रां चतुष्पदोल्लासपद्यमणिघटिताम् ।
नक्षत्रमालिकामिह दधदुपकण्ठं नरो भवेत्सोमः ॥२८॥
इति श्रीमत्परमहंसपरिब्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शिवपञ्चाक्षरनक्षत्रमालास्तोत्रं संपूर्णम् ॥