logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolशिवमानस पूजा - Shivamaanasa Puja in SanskritOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Shivamanasa Puja ॐ प्रत्यक्प्रवणधीवृत्या हृद्गृहान्तःप्रवेशनम् । मण्डपान्तः प्रवेशोऽयं पूजार्थं तव शङ्कर ॥१॥ गुरुवाक्येषु विश्वासः स्थितिरासनसंस्थितिः । सर्वसङ्कल्पसन्त्यागः सङ्कल्पस्तव पूजने ॥२॥ सर्वाधारस्त्वमेवेति निश्चयः पीठपूजनम् । ध्यानध्यातृध्येयबाधो ध्यानमानन्दकारणम् ॥३॥ दृश्यप्रमार्जनं चित्तान्निर्माल्यस्य विसर्जनम् । अहं ब्रह्मेत्यखण्डा या वृत्तिर्धाराभिषेचनम् ॥४॥ पृथिव्यात्मकता दृष्टिस्तव गन्धसमर्पणम् । बोधोपशमवैराग्यं त्रिदळं बिल्वमर्पये ॥५॥। आकाशात्मकताबोधः कुसुमार्पणमीश्वर । जगदाकाशपुष्पाभमिति पद्मं समर्पये ॥६॥ वायुतेजोमयत्वं ते धूपदीपावनुत्तमौ । दृश्यासंभवबोधेन निजानन्देन तृप्तता ॥७॥ सर्वतः प्रीतिजनकं नैवेद्यं विनिवेदये । जलात्मकत्वबुद्धिस्तु पीयूषं तेऽर्पये पिब ॥८॥ कर्तव्येष्वप्रसक्तिस्तु हस्तप्रक्षाळनं तव ॥९॥ दुर्वासनापरित्यागस्तांबूलस्य समर्पणम् । वाचां विसर्जनं देव दक्षिणा श्रुतिसंमता ॥१०॥ फलाभिसन्धिराहित्यं फलार्पणमनुत्तमम् । अहमेव परं ब्रह्म सचिदानन्दलक्षणम् ॥११॥ एवं निदिध्यासवाक्यं स्तुतिः प्रियकरी तव । नामरूपाणि न त्वत्तो भिन्नानीति मतिस्तु या ॥१२॥ तव पुष्पाञ्जलिः शम्भो सर्वत्रोत्कीर्णपुष्पकः । स्वप्रकाशात्मबुद्धिस्तु महानीराजनं तव ॥१३॥ प्रादक्षिण्यं सर्वतस्ते व्याप्तिबुद्धिः स्मृतं शिव । त्वमेवाहमिति स्थित्या लीनता प्रणतिस्तव ॥१४॥ शुद्धसत्त्वस्याभिवृद्धिश्छत्रं तापापनोदनम् । रजस्तमस्तिरस्कारश्चामरान्दोळने तव ॥१५॥ निजानन्दपराघूर्णदोळनान्दोळने वस । धन्योऽहं कृतकृत्योऽहमिति गानं तव प्रियम् ॥१६॥ निरङ्कुशं महातृप्त्या नर्तनं ते मुदे शिव । नानाविधैः शब्दजालैर्जृंभणं वाद्यमुत्तमम् ॥१७॥ शब्दातिगत्वबुद्धिस्तु कल्याणमिति डिण्डिमः । वेगवत्तरगन्ताऽसौ मनोऽश्वस्ते समर्पितः ॥१८॥ अहम्भावमहामत्तगजेन्द्रो भूरिलक्षणः । तत्र देहाद्यनारोपनिष्ठा दृढतरोऽङ्कुशः ॥१९॥ अद्वैतबोधदुर्गोऽयं यत्र शत्रुर्न कश्चन । जनतारामविस्तारो रमस्वात्र यथासुखम् ॥२०॥ कल्पनासंपरित्यागो महाराज्यं समर्पये । भोक्तृत्वाध्यासराहित्यं वरं देहि सहस्रधा ॥२१॥ अखण्डा तव पूजेयं सदा भवतु सर्वदा । आत्मत्वात्तव मे सर्वपूजैवास्ति न चान्यथा ॥२२॥ इमां पूजां प्रतिदिनं यः पठेद्यत्रकुत्रचित् । सद्यः शिवमयो भूत्वा मुक्तश्चरति भूतले ॥२३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्कृष्णानन्दसरस्वतीविरचिता शिवमानसपूजा समाप्ता ॥

Related Content

শিৱমানস পূজা - Shivamaanasa Puja

શિવમાનસ પૂજા - Shivamaanasa Puja

ಶಿವಮಾನಸ ಪೂಜಾ- Shivamaanasa Puja

ശിവമാനസ പൂജാ - Shivamaanasa Puja

शिवमानस पूजा - Shivamaanasa Puja