जयति ललाटकटाक्षः शशिमौलॆः पक्ष्मलः प्रियप्रणतौ ।
धनुषि स्मरॆण निहितः सकण्टकः कॆतकॆपुरिव ॥१॥
सानन्दा गणगायकॆ सपुलका गौरीमुखाम्भॊरुहॆ
सक्रॊधा कुसुमायुधॆ सकरुणा पादानतॆ वज्रिणि ।
सस्मॆरा गिरिजासखीषु सनया शैलाधिनाथॆ वहन्
भूमीन्द्र प्रदिशन्तु शर्म विपुलं शम्भॊः कटाक्षच्छटाः ॥२॥
ऎकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः
पार्वत्या वदनाम्बुजस्तनतटॆ श्रृङ्गारभारालसम् ।
अन्यद्दूरविकृष्टचापमदनक्रॊधानलॊद्दीपितं
शंभॊर्भिन्नरसं समाधिसमयॆ नॆत्रत्रयं पातु वः ॥३॥
पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः
समूहॊ यस्मिन् ब्रह्माण्डमीषद्विघटितमुकुलॆ कालयज्वा जुहाव ।
अर्चिर्निष्टप्तचूडाशशिगणितसुधाघॊरझाङ्कारकॊणं
तार्तीयं यत्पुरारॆस्तदवतु मदनप्लॊषणं लॊचनं वः ॥४॥
इति शिवलॊचनस्तुतिः संपूर्णा ॥