पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः ।
गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥१॥
पातु वः शितिकण्ठस्य तमालसदृशश्यामळो गळः ।
संसक्तपार्वतीबाहुसुवर्णनिकषोपलः ॥२॥
कस्तुरेतिलकन्ति भालफलके देव्या मुखाम्भोरुहे
रोलम्बन्ति तमालबालमुकुळोत्तंसन्ति मौलिं प्रति ।
याः कर्णे विकचोत्पलन्ति कुचयोरंसे च कालागुरु-
स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥३॥
कस्तुरीयन्ति भाले तदनु नयनयोः कज्जलीयन्ति कर्ण-
प्रान्ते नीलोत्पलीयन्त्युरसि मरकतालङ्कृतीयन्ति देव्याः ।
रोमालीयन्ति नाभेरुपरि मध्ये कल्याणं कुर्युरेते
त्रिजगति पुरुजित्कण्ठभासां विलासाः ॥४॥
इति शिवकण्ठस्तुतिः समाप्ता ॥