गणेशविष्णुसूर्येशदुर्गाख्यं देवपञ्चकम् ॥
वन्दे विशुद्धमनसा जनसायुज्यदायकम् ॥१॥
एकरूपान् भिन्नमूर्तीन् पञ्चदेवान्नमस्कृतान् ॥
वन्दे विशुद्धभावेनेशाम्बेनैकरदाच्युतान् ॥२॥
कल्याणदायिनो देवान्नमस्कार्यान्महौजसः ॥
विष्णुशम्भुशिवासूर्यगणेशाख्यान्नमाम्यहम् ॥३॥
एकात्मनो भिन्नरूपान् लोकरक्षणतत्परान् ॥
शिवविष्णुशिवासूर्यहेरम्बान् प्रणमाम्यहम् ॥४॥
दिव्यरूपानेकरूपान्नानारूपान्नमस्कृतान् ॥
शिवाशङ्करहेरम्बविष्णुसूर्यान्नमाम्यहम् ॥५॥
नित्यानानन्दसन्दोहदायिनो दीनपालकान् ॥
शिवाच्युतगणेशेन दुर्गाख्यान् नौम्यहं सुरान् ॥६॥
कमनीयतनून्देवान् सेवावश्यान् कृपावतः ॥
शङ्करेण शिवाविष्णुगणेशाख्यान्नमाम्यहम् ॥७॥
सूर्यविष्णुशिवाशंभुविघ्नराजाभिधान्सुरान् ॥
एकरूपान् सदा वन्दे सुखसन्दोहसिद्धये ॥८॥
हरौ हरे तीक्ष्णकरे गणेशे शक्तौ न भेदो जगदादिहेतुषु ॥
अधः पतन्त्येषु भिदां दधाना भाषान्त एवंयतयोऽच्युताश्रमाः ॥९॥
इति श्रीमदच्युताश्रमविरचितं पञ्चदेवतास्तोत्रं संपूर्णम् ॥