logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolमृतसञ्जीवन कवचम्- Mrutasanjjeevana KavachamOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Mrutasanjeevana Kavacham एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम् ॥ मृतसञ्जीवनं नाम्ना कवचं प्रजपेत्सदा ॥१॥ सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम् ॥ महादेवस्य कवचं मृतसञ्जीवनाभिधम् ॥२॥ समाहितमना भूत्वा श्रृणुष्व कवचं शुभम् ॥ श्रुत्वैतद्दिव्यकवचं रहस्यं कुरु सर्वदा ॥३॥ वराभयकरो यज्वा सर्वदेवनिषेवितः ॥ मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥४॥ दधानः शक्तिमभयां त्रिमुखः षड्भुजः प्रभुः ॥ सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥५॥ अष्टादशभुजोपेतो दण्डाभयकरो विभुः ॥ यमरूपी महादेवो दक्षिणस्यां सदाऽवतु ॥६॥ खड्गाभयकरो धीरो रक्षोगणनिषेवितः ॥ रक्षोरूपी महेशो मां नैरृत्यां सर्वदाऽवतु ॥७॥ पाशाभयभुजः सर्वरत्नाकरनिषेवितः ॥ वरुणात्मा महादेवः पश्चिमे मां सदाऽवतु ॥८॥ गदाभयकरः प्राणनायकः सर्वदागतिः ॥ वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥९॥ शङ्खाभयकरस्थो मां नायकः परमेश्वरः ॥ सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥१०॥ शूलाभयकरः सर्वविद्यानामधिनायकः ॥ ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥११॥ ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माऽधः सदाऽवतु ॥ शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥१२॥ भ्रुमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु ॥ भ्रुयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥१३॥ नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ॥ जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥१४॥ मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः ॥ पिनाकी मत्करौ पातु त्रिशूली हृदयं मम ॥१५॥ पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ॥ नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥१६॥ कटिद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः ॥ गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥१७॥ जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका ॥ पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥१८॥ गिरीशः पातु मे भार्यां भवः पातु सुतान्मम ॥ मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥१९॥ सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ॥ एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥२०॥ मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् ॥ सहस्रावर्तनं चास्य पुरश्चरणमीरितम् ॥२१॥ यः पठेच्छृणुयान्नित्यं श्रावयेत्सुसमाहितः ॥ स कालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥२२॥ हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ॥ आधयो व्याधयस्तस्य न भवन्ति कदाचन ॥२३॥ कालमृत्युमपि प्राप्तमसौ जयति सर्वदा ॥ अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥२४॥ युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम् ॥ युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥२५॥ न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ॥ विजयं लभते देवयुद्धमध्येऽपि सर्वदा ॥२६॥ प्रातरुत्थाय सततं यः पठेत्कवचं शुभम् ॥ अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥२७॥ सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः ॥ अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥२८॥ विचरत्यखिलांल्लोकान्प्राप्य भोगांश्च दुर्लभान् ॥ तस्मादिदं महागोप्यं कवचं समुदाहृतम् ॥२९॥ मृतसञ्जीवनं नाम्ना दैवतैरपि दुर्लभम् ॥३०॥ इति श्रीवसिष्ठप्रणीतं मृतसञ्जीवनस्तोत्रं सम्पूर्णम् ॥

Related Content

মৃতসঞ্জীৱন কৱচম- Mrutasanjjeevana Kavacham

મૃતસઞ્જીવન કવચમ- Mrutasanjjeevana Kavacham

ಮೃತಸಞ್ಜೀವನ ಕವಚಮ್- Mrutasanjjeevana Kavacham

മൃതസഞ്ജീവന കവചം - Mrutasanjjeevana Kavacham

मृतसञ्जीवन कवचम- Mrutasanjjeevana Kavacham