एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम् ॥
मृतसञ्जीवनं नाम्ना कवचं प्रजपेत्सदा ॥१॥
सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम् ॥
महादेवस्य कवचं मृतसञ्जीवनाभिधम् ॥२॥
समाहितमना भूत्वा श्रृणुष्व कवचं शुभम् ॥
श्रुत्वैतद्दिव्यकवचं रहस्यं कुरु सर्वदा ॥३॥
वराभयकरो यज्वा सर्वदेवनिषेवितः ॥
मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥४॥
दधानः शक्तिमभयां त्रिमुखः षड्भुजः प्रभुः ॥
सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥५॥
अष्टादशभुजोपेतो दण्डाभयकरो विभुः ॥
यमरूपी महादेवो दक्षिणस्यां सदाऽवतु ॥६॥
खड्गाभयकरो धीरो रक्षोगणनिषेवितः ॥
रक्षोरूपी महेशो मां नैरृत्यां सर्वदाऽवतु ॥७॥
पाशाभयभुजः सर्वरत्नाकरनिषेवितः ॥
वरुणात्मा महादेवः पश्चिमे मां सदाऽवतु ॥८॥
गदाभयकरः प्राणनायकः सर्वदागतिः ॥
वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥९॥
शङ्खाभयकरस्थो मां नायकः परमेश्वरः ॥
सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥१०॥
शूलाभयकरः सर्वविद्यानामधिनायकः ॥
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥११॥
ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माऽधः सदाऽवतु ॥
शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥१२॥
भ्रुमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु ॥
भ्रुयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥१३॥
नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ॥
जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥१४॥
मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः ॥
पिनाकी मत्करौ पातु त्रिशूली हृदयं मम ॥१५॥
पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ॥
नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥१६॥
कटिद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः ॥
गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥१७॥
जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका ॥
पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥१८॥
गिरीशः पातु मे भार्यां भवः पातु सुतान्मम ॥
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥१९॥
सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ॥
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥२०॥
मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् ॥
सहस्रावर्तनं चास्य पुरश्चरणमीरितम् ॥२१॥
यः पठेच्छृणुयान्नित्यं श्रावयेत्सुसमाहितः ॥
स कालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥२२॥
हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ॥
आधयो व्याधयस्तस्य न भवन्ति कदाचन ॥२३॥
कालमृत्युमपि प्राप्तमसौ जयति सर्वदा ॥
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥२४॥
युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम् ॥
युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥२५॥
न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ॥
विजयं लभते देवयुद्धमध्येऽपि सर्वदा ॥२६॥
प्रातरुत्थाय सततं यः पठेत्कवचं शुभम् ॥
अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥२७॥
सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः ॥
अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥२८॥
विचरत्यखिलांल्लोकान्प्राप्य भोगांश्च दुर्लभान् ॥
तस्मादिदं महागोप्यं कवचं समुदाहृतम् ॥२९॥
मृतसञ्जीवनं नाम्ना दैवतैरपि दुर्लभम् ॥३०॥
इति श्रीवसिष्ठप्रणीतं मृतसञ्जीवनस्तोत्रं सम्पूर्णम् ॥