logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolमहादेवाष्टकम् - Mahadeva AshtakamOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Mahadeva Ashtakam शिवं शान्तं शुद्धं प्रकटमकळङ्कं श्रुतिनुतं महेशानं शंभुं सकलसुरसंसेव्यचरणम् । गिरीशं गौरीशं भवभयहरं निष्कळमजं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥१॥ सदा सेव्यं भक्तैर्हृदि वसन्तं गिरिशय- मुमाकान्तं क्षान्तं करघृतपिनाकं भ्रमहरम् । त्रिनेत्रं पञ्चास्यं दशभुजमनन्तं शशिधरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥२॥ चिताभस्मालिप्तं भुजगमुकुटं विश्वसुखदं धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम् । करोटीखट्वाङ्गे ह्युरसि च दधानं मृतिहरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥३॥ सदोत्साहं गङ्गाधरमचलमानन्दकरणं पुरारातिं भातं रतिपतिहरं दीप्तवदनम् । जटाजूटैर्जुष्टं रसमुखगणेशानपितरं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥४॥ वसन्तं कैलासे सुरमुनिसभायां हि नितरां ब्रुवाणं सद्धर्मं निखिलमनुजानन्दजनकम् । महेशानी साक्षात्सनकमुनिदेवर्षिसहिता महादेवं वन्दे प्रणतजनतापोपशमनम् ॥५॥ शिवां स्वे वामाङ्गे गुहगणपतिं दक्षिणभुजे गले कालं व्यालं जलधिगरळं कण्ठविवरे । ललाटे श्वेतेन्दुं जगदपि दधानं च जठरे महादेवं वन्दे प्रणतजनतापोपशमनम् ॥६॥ सुराणां दैत्यानां बहुलमनुजानां बहुविधं तपःकुर्वाणानां झटिति फलदातारमखिलम् । सुरेशं विद्येशं जलनिधिसुताकान्तहृदयं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥७॥ वसानं वैयाघ्रीं मृदुलललितां कृत्तिमजरां वृषारूढं सृष्ट्यादिषु कमलजाद्यात्मवपुषम् । अतर्क्यं निर्मायं तदपि फलदं भक्तसुखदं महादेवं वन्दे प्रणतजनतापोपशमनम् ॥८॥ इदं स्तोत्रं शंभोर्दुरितदलनं धान्यधनदं हृदि ध्यात्वा शंभुं तदनु रघुनाथेन रचितम् । नरः सायंप्रातः पठति नियतं तस्य विपदः क्षयं यान्ति स्वर्गं व्रजति सहसा सोऽपि मुदितः ॥९॥ इति पण्डितरघुनाथशर्मणा विरचितं श्रीमहादेवाष्टकं समाप्तम् ॥

Related Content

সদাশিৱাষ্টকম - Sadashivashtakam

Sadashiva Ashtakam

shivaaShTakam

સદાશિવાષ્ટકમ - Sadashivashtakam

સદાશિવાષ્ટકમ - Sadashivashtakam