श्रीरामपूजितपदांबुज चापपाणे श्रीचक्रराजकृतवास कृपांबुराशे ।
ष्रीसेतुमूलचरणप्रवणान्तरङ्ग श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥१॥
नम्राघवृन्दविनिवारणबद्धदीक्ष शैलाधिराजतनयापरिरब्धवर्ष्मन् ।
श्रीनाथमुख्यसुरवर्यनिषेविताङ्घ्रे श्रीरामनाथ लघु तारय जन्मवार्धिम् ॥२॥
शूरहितेभवदनाश्रितपार्श्वभाग कूरारिवर्गविजयप्रद शीघ्रमेव ।
साराखिलागमतदन्तपुराणपङ्क्तेः श्रीरामनाथ लघु तारय जन्मवार्धिम् ।३॥
शब्दादिमेषु विषयेषु समीपगेष्वप्यासक्तिगन्धरहितान्निजपादनम्रान् ।
क्रूर्वाण कामदहनाक्षिलसल्ललाट श्रीरामनाथ लघु तारय जन्मवार्धिम्॥४॥
इति जन्मसागरोत्तारणस्तोत्रं संपूर्णम् ॥