logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolईशानस्तवः - Ishaanastavah StotramOm symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Ishaanastavah यः षड्वक्त्रगजाननाद्भुतसुताविष्कारणव्यजिता- चिन्त्यॊत्पादनवैभवां गिरिसुतां मायां निजाङ्गॆ दधत् । सॆव्यां संसृतिहानयॆ त्रिपथगां विद्यां च मूर्ध्ना वहन् स्वं ब्रह्मत्वमभिव्यनक्ति भजतः पायात् स गङ्गाधरः ॥१॥ यस्यालॊच्य कपर्ददुर्गविलुठद्गङ्गांबुशौक्ल्याच्छता- माधुर्याणि पराजयॊदितशुचा क्षीणः कलामात्रताम् । बिभ्रत् पित्सति नूनमुत्कटजटाजूटॊच्चकूटाच्छशी लालाटाक्षिशिखासु सॊऽस्तु भजतां भव्याय गङ्गाधरः ॥२॥ यल्लालाटकृपीटयॊनिसततासङ्गाद्विलीनः शशी गङ्गारूपमुपॆत्य तत्प्रशमनाशक्तः कृशाङ्गः शुचा । उद्बध्नाति तनुं त्रपापरवशॊ मन्यॆ जटादामभिः पायात् स्तव्यविभाव्यनव्यचरितॊ भक्तान् स गङ्गाधरः ॥३॥ अङ्कारूढधराधराधिपसुतासौन्दर्यसन्तर्जिता गङ्गा यस्य कपर्ददुर्गमवनॆ लीना विलीना ह्रिया । चिन्तापाण्डुतनुः स्खलन्त्यविरतं पार्वत्यसूयास्मितै- रन्तर्धि बहु मन्यतॆऽस्तु भजतां भूत्यै स गङ्गाधरः ॥४॥ मुग्धां स्न्रिग्ध इव प्रतार्य गिरिजामर्धाङ्गदानच्छला- न्नित्यॊद्यद्वहुलभ्रमां त्रिपथगामात्मॊत्तमाङ्गॆ वहन् । स्थानॆ यॊ विषमॆक्षणत्वपदवीमारॊप्यतॆ कॊविदैः प्रच्छन्नप्रणयक्रमॊऽस्तु भजतां प्रीत्यै स गङ्गाधरः ॥५॥ सॆवासज्जसुरार्षिपरिषद्व्याकीर्णपुष्पाञ्जलिप्रश्च- यॊतन्मकरन्दबिन्दुसततासारः पतन्मस्तकॆ । यस्याविश्रमसंभृतस्त्रिपथगानाम्ना जनैः ख्याप्यतॆ स त्रैलॊक्यनिषॆविताङ्घ्रियुगळः पुष्णातु गङ्गाधरः ॥६॥ यस्मिन्नुद्धतताण्डवैकरसतासाटॊपनाठ्यक्रमॆ विस्रस्तासु जटासु भासुर तनुर्धाराशतैः पातुका । गङ्गाजङ्गमवारिपर्वतधियं चित्तॆ विधत्तॆ सता- मॆतं चित्रविभूतिरस्तु भजतां भव्याय गङ्गाधरः ॥७॥ यॊ गङ्गापयसि प्रभॊ तव महानत्यादरः कल्पतॆ संमूर्च्छद्विषयापनाय विधयॆ क्रुध्यस्यसत्यॊक्तयॆ । ईशानस्तवसागरान्तगमनॆ वाण्यः पुराण्यॊऽक्षमाः सङ्क्षिप्यॆत्थमभिष्टुतः ससितगुः प्रीतॊऽस्तु गङ्गाधरः ॥८॥ इतीशानस्तवः संपूर्णः ॥

Related Content

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্

রাবণকৃতং শিবতাণ্ডব স্তোত্রম্

শিৱমহিম্নঃ স্তোত্রম - Shivamahimnah Stotram

শিৱষডক্ষর স্তোত্রম - Shiva Shadakshara Stotram

উপমন্যুকৃতং শিৱস্তোত্রম - Upamanyukrutam Shivastotram