धर्मार्थकाममोक्षाख्यचतुर्वर्गप्रदायिनौ ।
वन्दे हरिहरौ देवौ त्रैलोक्यपरिपायिनौ ॥१॥
एकमूर्ती द्विधा भिन्नौ संसारार्णवतारकौ ।
वन्देऽहं कामदौ देवौ सततं शिवकेशवौ ॥२॥
दयामयौ दीनदरिद्रतापहौ महौजसौ मान्यतमौ सदा समौ ।
उदारलीलाललितौ सितासितौ नमामि नित्यं शिवकेशवावहम् ॥३॥
अनन्तमाहात्म्यनिधी विधिस्तुतौ श्रिया युतौ लोकविधानकारिणौ ।
सुरासुराधीशनुतौ नुतौ जगत्पती विधत्तां शिवकेशवौ शिवम् ॥४॥
जगत्रयीपालननाशकारकौ प्रसन्नहासौ विलसत्सदाननौ ।
महाबलौ मञ्जुळमूर्तिधारिणौ शिवं विधत्तां शिवकेशवौ सदा ॥५॥
महस्विनौ मोदकरौ परौ वरौ मुनीश्वरैः सेवितपादपङ्कजौ ।
अजौ सुजातौ जगदीश्वरौ सदा शिवं विधत्तां शिवकेशवौ मम ॥६॥
नमोऽस्तु नित्यं शिवकेशवाभ्यां स्वभक्तसंरक्षणतत्पराभ्याम् ।
देवेश्वराभ्यां करुणाकराभ्यां लोकत्रयीनिर्मितिकारणाभ्याम् ॥७॥
सलीलशीलौ महनीयमूर्ती दयाकरौ मञ्जुळसच्चरित्रौ ।
महोदयौ विश्वविनोदहेतू नमामि देवौ शिवकेशवौ तौ ॥८॥
त्रिशूलपाणिं वरचक्रपाणिं पीताम्बरं स्पष्टदिगम्बरं च ।
चतुर्भुजं वा दशबाहुयुक्तं हरिं हरं वा प्रणमामि नित्यम् ॥९॥
कपालमालाललितं शिवं च सद्वैजयन्तीस्रगुदारशोभम् ।
विष्णुं च नित्यं प्रणिपत्य याचे भवत्पदाम्भोरुहयोः स्मृतिः स्तात् ॥१०॥
शिव त्वमेवाऽसि हरिस्वरूपो हरे त्वमेवाऽसि शिवस्वरूपः ।
भ्रान्त्या जनास्त्वां द्विविधस्वरूपं पश्यन्ति मूढा ननु नाशहेतोः ॥११॥
हरे जना ये शिवरूपिणं त्वां त्वद्रूपमीशं कलयन्ति नित्यम् ।
ते भाग्यवन्तः पुरुषाः कदाऽपि न यान्ति भास्वत्तनयस्य गेहम् ॥१२॥
शम्भो जना ये हरिरूपिणं त्वां भवत्स्वरूपं कमलालयेशम् ।
पश्यन्ति भक्त्या खलु ते महान्तौ यमस्य नो यान्ति पुरं कदाचित् ॥१३॥
शिवे हरौ भेदधियाऽऽधियुक्ता मुक्तिं लभन्ते न जना दुरापाम् ।
भुक्तिं च नैवेह परन्तु दुःखं संसारकूपे पतिताः प्रयान्ति ॥
हरे हरौ भेददृशो भुशम् वै सम्सारसिन्धौ पतिताः सतापाः ।
पापाशया मोहमयान्धकारे भ्रान्ता महादुःखभरं लभन्ते ॥१५॥
सन्तो लसन्तः सुतरां हरौ च हरे च नित्यं बहुभक्तिमन्तः ।
अन्तर्महान्तौ शिवकेशवौ तौ ध्यायन्त उच्चैर्मुदमाप्नुवन्ति ॥१६॥
हरौ हरे चैक्यमुदारशीलाः पश्यन्ति शश्वत्सुखदायिलीलाः ।
ते भुक्तिमुक्ती समवाप्य नूनं सुखं दुरापं सुतरां लभन्ते ॥१७॥
शिवे शिवेशेऽपि च केशवे च पद्मापतौ देववरे महान्तः ।
भेदं न पश्यन्ति परन्तु सन्तस्तयोरभेदं कलयन्ति सत्यम् ॥१८॥
रमापतिं वा गिरिजापतिं वा विश्वेश्वरं वा जगदीश्वरं वा ।
पिनाकपाणिं खलु शार्ङ्गपाणिं हरि हरं वा प्रणमामि नित्यम् ॥१९॥
सुरेश्वरं वा परमेश्वरं वा वैकुण्ठलोकस्थितमच्युतं वा ।
कैलासशैलस्थितमीश्वरं वा विष्णुं च शंभुं च नमामि नित्यम् ॥२०॥
हरिर्दयार्द्राशयतां प्रयातो हरो दयालूत्तमभावमाप्तः ।
अनेकदिव्यास्त्रधरः परेशः पायादजस्रं कृपया नतं माम् ॥ २१॥
शेषोऽस्ति यस्याऽऽभरणत्वमाप्तो यद्दा सुशय्यात्वमितः सदैव ।
देवः स कोऽपीह हरिर्हरो वा करोतु मे मञ्जुळमङ्गळं द्राक् ॥२२॥
हरिं हरं चापि भजन्ति भक्त्या विभेदबुद्धिं प्रविहाय नूनम् ।
सिद्धा महान्तो मुनयो महेच्छाः स्वच्छाशया नारदपर्वताद्याः ॥२३॥
सनत्कुमारादय उन्नतेच्छा मोहेन हीना मुनयो महान्तः ।
स्वान्तः स्थितं शङ्करमच्युतं च भेदं परित्यज्य सदा भजन्ते ॥२४॥
शिष्टा वसिष्ठादय आत्मनिष्ठाः श्रेष्ठाः स्वधर्मावनकर्मचित्ताः ।
हृत्तापहारं मलहीनचित्ता हरि हरं चैकतया भजन्ते ॥२५॥
अन्ये महात्मान उदारशीला भृग्वादयो ये परमर्षयस्ते ।
पश्यन्ति चैक्यं हरिशर्वयोः श्रीसंयुक्तयोरत्र न संशयोऽस्ति ॥२६॥
इन्द्रादयो देववरा उदारा त्रैलोक्यसंरक्षणदत्तचित्ताः ।
हरिं हरं चैकस्वरूपमेव पश्यन्ति भक्त्या च भजन्ति नूनम् ॥२७॥
सर्वेषु वेदेषु खलु प्रसिद्धवैकुण्ठकैलासगयोः सुधाम्नोः ।
मुकुन्दबालेन्दुवतंसयोः सच्चरित्रयोरीश्वरयोरभेदः ॥२८॥
सर्वाणि शस्त्राणि वदन्ति नूनं हरेर्हरस्यैक्यमुदारमूर्तेः ।
नास्त्यत्र सन्देहलवोऽपि सत्यं नित्यं जना धर्मधना गदन्ति ॥२९॥
सर्वैः पुराणैरिदमेव सूक्तं यद्विष्णुशंभ्वोर्महनीयमूर्त्योः ।
ऐक्यं सदैवाऽस्ति न भेदलेशोऽप्यस्तीह चिन्त्यं सुजनैस्तदेवम् ।३०॥
भेदं प्रपश्यन्ति नराधमा ये विष्णौ च शंभौ च दयानिधाने ।
ते यान्ति पापाः परितापयुक्ता घोरं विशालं निरयस्य वासम् ॥३१॥
भूताधिपं वा विबुधाधिपं वा रमेश्वरं वा परमेश्वरं वा ।
पीताम्बरं वा हरिदम्बरं वा हरिं हरं वा पुरुषा भजध्वम् ॥३२॥
महस्विवर्यं कमनीयदेहमुदारसारं सुखदायिचेष्टम् ।
सर्वेष्टदेवं दुरितापहारं विष्णुं शिवं वा सततं भजध्वम् ॥३३॥
शिवस्य विष्णोश्च विभात्यभेदो व्यासादयोऽपीह महर्षयस्ते ।
सर्वज्ञभावं दधतो नितान्तं वदन्ति वदन्ति चैवं कलयन्ति सन्तः ॥३४॥
महाशया धर्मविधानदक्षा रक्षापरा निर्जितमानसा ये ।
तेऽपीह विज्ञाः समदर्शिनो वै शिवस्य विष्णोः कलयन्त्यभेदम्॥३५॥
हरिरेव हरो हर एव हरिर्नहि भेदलबोऽपि तयोः प्रथितः ।
इति सिद्धमुनीशयतीशवरा निगदन्ति सदा विमदाः सुजनाः ॥३६॥
हर एव हरिर्हरिरेव हरो हरिणा च हरेण च विश्वमिदम् ।
प्रविनिर्मितमेतदवेहि सदा विमदो भव तौ भज भावयुतः ॥३७॥
हरिरेव बभूव हरः परमो हर एव बभूव हरिः परमः ।
हरिता हरता च तथा मिलिता रचयत्यखिलं खलु विश्वमिदम् ॥३८॥
वृषध्वजं वा गरुढध्वजं वा गिरीश्वरं वा भुवनेश्वरं वा ।
पतिं पशूनामथवा यदूनां कृष्णं शिवं वा विबुधा भजन्ते ॥३९॥
भीमाकृतिं वा रुचिराकृतिं वा त्रिलोचनं वा समलोचनं वा ।
उमापतिं वाऽथ रमापतिं वा हरिं हरं वा मुनयो भजन्ते ॥४०॥
हरिः स्वयं वै हरतां प्रयातो हरस्तु साक्षाद्धरिभावमाप्तः ।
हरिर्हरश्चापि जगज्जनानामुपास्यदेवौ स्त इति प्रसिद्धिः ॥४१॥
हरिर्हि साक्षात् हर एव सिद्धो हरो हि साक्षाद्धरिरेव चास्ते ।
हरिर्हरश्च स्वयमेव चैको द्विरूपतां कार्यवशात् प्रबातः ॥४२॥
हरिर्जगत्पालनकृत्प्रसिद्धो हरो जगन्नाशकरः परात्मा ।
स्वरूपमात्रेण भिदामवाप्तौ द्वावेकरूपौ स्त इमौ सुरेशौ ॥४३॥
दयानिधानं विलसद्विधानं देवप्रधानं ननु सावधानम् ।
सानन्दसन्मानसभासमानं देवं शिवं वा भज केशवं वा ॥४४॥
श्रीकौस्तुभाभरणमिन्दुकलावतंसं काळीविलासिनमथो कमलाविलासम् ।
देवं मुरारिमथ वा त्रिपुरारिमीशं भेदं विहाय भज भो भज भूरिभक्त्या ॥४५॥
विष्णुः साक्षाच्छंभुरेव प्रसिद्धः शंभुः साक्षाद्विष्णुरेवास्ति नूनम् ।
नास्ति स्वल्पोऽपीह भेदावकाशः सिद्धान्तोऽयं सज्जनानां समुक्तः ॥४६॥
शंभुर्विष्णुश्चैकरूपो द्विमूर्तिः सत्यं सत्यं गद्यते निश्चितं सत् ।
अस्मिन्मिथ्या संशयं कुर्वते ये पापाचारास्ते नरा राक्षसाख्याः ॥४७॥
विष्णौ शंभौ नास्ति भेदावभासः सङ्ख्यावन्तः सन्त एवं वदन्ति ।
अन्तः किञ्चित्संविचिन्त्य स्वयं द्राक् भेदं त्यक्त्वा तौ भजस्व प्रकामम् ॥४८॥
विष्णोर्भक्ताः शंभुविद्वेषसक्ताः शंभोर्भक्ता विष्णुविद्वेषिणो ये ।
कामक्रोधान्धाः सुमन्दाः सनिन्दा विन्दन्ति द्राक् ते नरा दुःखजालम् ॥४९॥
विष्णौ शंभौ भेदबुद्धिं विहाय भक्त्या युक्ताः सज्जना ये भजन्ते ।
तेषां भाग्यं वक्तुमीशो गुरुर्नो सत्यं सत्यं वच्म्यहं विद्धि तत्त्वम् ॥५०॥
हरेर्विरोधी च हरस्य भक्तो हरस्य वैरी च हरेश्च भक्तः ।
साक्षादसौ राक्षस एव नूनं नास्त्यत्र सन्देहलवोऽपि सत्यम् ॥५१॥
शिवं च विष्णुं च विभिन्नदेहं पशयन्ति ये मूढधियोऽतिनीचाः ।
ते किं सुसद्भिः सुतरां महद्भिः संभाषणीयाः पुरुषा भवन्ति ॥५२॥
अनेकरूपं विदितैकरूपं महान्तमुच्चैरतिशान्तचित्तम् ।
दान्तं नितान्तं शुभदं सुकान्तं विष्णुं शिवं वा भज भूरिभक्त्या ॥५३॥
हरे मुरारे हर हे पुरारे विष्णो दयाळो शिव हे कृपालो ।
दीनं जनं सर्वगुणैर्विहीनं मां भक्तमार्तं परिपाहि नित्यम् ॥५४॥
हे हे विष्णो शंभुरूपस्त्वमेव हे हे शम्भो विष्णुरूपस्त्वमेव ।
सत्यं सर्वे सन्त एवं वदन्तः संसारब्धिं ह्यञ्जसा सन्तरन्ति ॥५५॥
विष्णुः शंभुः शंभुरेवास्ति विष्णुः शंभुर्विष्णुर्विष्णुरेवास्ति शंभुः ।
शंभौ विष्णौ चैकरूपत्वमिष्टं शिष्टा एवं सर्वदा सञ्जपन्ति ॥५६॥
दैवी संपद्विद्यते यस्य पुंसः श्रीमान् सोऽयं सर्वदा भक्तियुक्तः ।
शंभुं विष्णुं चैकरूपं द्विदेहं भेदं त्यक्त्वा संभजन्मोक्षमेति ॥५७॥
येषां पुंसामासुरी संपदास्ते मृत्योर्ग्रासाः कामलोभाभिभूताः ।
क्रोधेनान्धा बन्धयुक्ता जनास्ते शंभुं विष्णुं भेदबुद्ध्या भजन्ते ॥५८॥
कल्याणकारं सुखदप्रकारं विनिर्विकारं विहितोपकारम् ।
स्वाकारमीशं न कृतापकारं शिवं भजध्वं किल केशवं च ॥५९॥
सच्चित्स्वरूपं करुणासुकूपं गीर्वणभूपं वरधर्मयूपम् ।
संसारसारं सुरुचिप्रसारं देवं हरिं वा भज भो हरं वा ॥६०॥
आनन्दसिन्धुं परदीनबन्धुं मोहान्धकारस्य निकारहेतुम् ।
सद्धर्मसेतुं रिपुधूमकेतुं भजस्व विष्णुं शिवमेकबुद्ध्या ॥६१॥
वेदान्तसिद्धान्तमयं दबाळुं सत्साङ्ख्यशास्त्रप्रतिपाद्यमानम् ।
न्यायप्रसिद्धं सुतरां समिद्धं भजस्व विष्णुं शिवमेकबुद्ध्या ॥६२॥
पापापहारं रुचिरप्रचारं कृतोपकारं विलसद्विहारम् ।
सद्धर्मधारं कमनीयदारं सारं हरिं वा भज भो हरं वा ॥६३॥
हरौ भेदमवेक्षमाणः प्राणी नितान्तं खलु तान्तचेताः ।
प्रेताधिपस्यैति पुरं दुरन्तं दुःखं च तत्र प्रथितं प्रयाति ॥६४॥
भो भो जना ज्ञानधना मनागप्यर्च्ये हरौ चापि हरे च नूनम् ।
भेदं परित्यज्य मनो निरुध्य सुखं भवन्तः खलु तौ भजन्तु ॥६५॥
आनन्दसन्मन्दिरमिन्दुकान्तं शान्तं नितान्तं भुवनानि पान्तम् ।
भान्तं सुदान्तं विहितासुरान्तं देवं शिवं वा भज केशवं वा ॥६६॥
हे हे हरे कृष्ण जनार्दनेश शंभो शशाङ्काभरणाधिदेव ।
नारायण श्रीश जगत्स्वरूप मां पाहि नित्यं शरणं प्रपन्नम् ॥६७॥
विष्णो दशलोऽच्युत शार्ङ्गपाणे भूतेश शंभो शिव शर्व नाथ ।
मुकुन्द गोविन्द रमाधिपेश मां पाहि नित्यं शरणं प्रपन्नम् ॥६८॥
कल्याणकारिन् कमलापते हे गौरीपते भीम भवेश शर्व ।
गिरीश गौरीप्रिय शूलपाणे मां पाहि नित्यं शरणं प्रपन्नम् ॥६९॥
हे शर्व हे शङ्कर हे पुरारे हे हे केशव हे कॄष्ण हे मुरारे ।
हे दीनबन्धो करुणैकसिन्धो मां पाहि नित्यं शरणं प्रपन्नम् ॥७०॥
हे चन्द्रमौले हरिरूप शंभो हे चक्रपाणे शिवरूप विष्णो ।
हे कामशत्रो खलु कामतात मां पाहि नित्यं भगवन्नमस्ते ॥७१॥
सकललोकपशोकविनाशिनौ परमरम्यतया प्रविकाशिनौ ।
अघसमूहविदारणकारिणौ हरिहरौ भज मूढ भिदां त्यज ॥७२॥
हरिः साक्षाद्धरः प्रोक्तो हरः साक्षाद्धरिः स्मॄतः ।
उभयोरन्तरं नास्ति सत्यं सत्यं न संशयः ॥७३॥
यो हरौ च हरे साक्षादेकमूर्तौ द्विधा स्थिते ।
भेदं करोति मूढात्मा स याति नरकं ध्रुवम् ॥७४॥
यस्य बुद्धिर्हरौ चापि हरे भेदं च पश्यति ।
स नराधमतां यातो रोगी भवति मानवः ॥७५॥
यो हरौ च हरे चापि भेदबुद्धिं करोत्यहो ।
तस्मान्मूढतमो लोके नान्यः कश्चन विद्यते ॥७६॥
मुक्तिमिच्छसि तेत्तर्हि भेदं त्यज हरौ हरे ।
अन्यथा जन्मलक्षेषु मुक्तिः खलु सुदुर्लभा ॥७७॥
विष्णोः शिवस्य चाभेदज्ञानान्मुक्तिः प्रजापते ।
इति सद्वेदवाक्यानां सिद्धान्तः प्रतिपादितः ॥७८॥
विष्णुः शिवः शिवो विष्णुरिति ज्ञानं प्रशिष्यते ।
एतज्ज्ञानयुतो ज्ञानी नान्यथा ज्ञानमिष्यते ॥७९॥
हरिर्हरो हरश्चपि हरिरस्तीति भावयन् ।
धर्मार्थकाममोक्षाणामधिकारी भवेन्नरः ॥८०॥
हरिं हरं भिन्नरूपं भावयत्यधमो नरः ।
स वर्णसङ्करो नूनं विज्ञेयो भावितात्मभिः ॥८१॥
हरे शम्भो हरे विष्णो शम्भो हर हरे हर ।
इति नित्यं रलन् जन्तुर्जीवन्मुक्तो हि जायते ॥८२॥
न हरिं च हरं चापि भेदबुद्ध्या विलोकयेत् ।
यदीच्छेदात्मनः क्षेम बुद्धिमान्कुशलो नरः ॥८३॥
हरे हर दयाळो मां पाहि पाहि कृपां कुरु ।
इति सञ्जपनादेव मुक्तिः प्राणौ प्रतिष्ठिता ॥८४॥
हरिं हरं द्विधा भिन्नं वस्तुतस्त्वेकरूपकम् ।
प्रणमामि सदा भक्त्या रक्षतां तौ महेश्वरौ ॥८५॥
इदं हरिहरस्तोत्रं सूक्तं परमदुर्लभम् ।
धर्मार्थकाममोक्षाणां दायकं दिव्यमुत्तमम् ॥८६॥
शिवकेशवयोरैक्यप्रतिपादकमीडितम् ।
पठेयुः कृतिनः शान्ता दान्ता मोक्षाभिलाषिणः ॥८७॥
एतस्य पठनात्सर्वाः सिद्धयो वशगास्तथा ।
देवयोर्विष्णुशिवयोर्भक्तिर्भवति भूतिदा ॥८८॥
धर्मार्थी लभते धर्ममर्थार्थी चार्थमश्नुते ।
कामार्थी लभते कामं मोक्षार्थी मोक्षमश्नुते ॥८९॥
दुर्गमे घोरसङ्ग्रामे कानने वधबन्धने ।
कारागारेऽस्य पठनाज्जायते तत्क्षणं सुखी ॥९०॥
वेदे यथा सामवेदो वेदान्तो दर्शने यथा ।
स्मृतौ मनुस्मृतिर्यद्वत् वर्णेषु ब्राह्मणो यथा ॥९१॥
यथाऽऽश्रमेषु सन्न्यासो यथा देवेषु वासवः ।
यथाऽश्वत्थः पादपेषु यथा गङ्गा नदीषु च ॥९२॥
पुराणेषु यथा श्रेष्ठं महाभारतमुच्यते ।
यथा सर्वेषु लोकेषु वैकुण्ठः परमोत्तमः ॥९३॥
यथा तीर्थेषु सर्वेषु प्रयागः श्रेष्ठ ईरितः ।
यथा पुरीषु सर्वासु वरा वाराणसी मता ॥९४॥
यथा दानेषु सर्वेषु चान्नदानं महत्तमम् ।
यथा सर्वेषु धर्मेषु चाहिंसा परमा स्मृता ॥९५॥
यथा सर्वेषु सौख्येषु भोजनं प्राहुरुत्तमम् ।
तथा स्तोत्रेषु सर्वेषु स्तोत्रमेतत्परात्परम् ॥९६॥
अन्यानि यानि स्तोत्राणि तानि सर्वाणि निश्चितम् ।
अस्य स्तोत्रस्य नो यान्ति षोडशीमपि सत्कलाम् ॥९७॥
भूतप्रेतपिशाचाद्या बालवृद्धग्रहाश्च ये ।
ते सर्वे नाशमायान्ति स्तोत्रस्यास्य प्रभावतः ॥९८॥
यत्रास्य पाठो भवति स्तोत्रस्य महतो ध्रुवम् ।
तत्र साक्षात्सदा लक्ष्मीर्वसत्येव न संशयः ॥९९॥
अस्य स्तोत्रस्य पाठेन विश्वेशौ शिवकेशवौ ।
सर्वान्मनोरथान्पुंसां पूरयेतां न संशयः ॥१००॥
पुण्यं पुण्यं महत्पुण्यं स्तोत्रमेतद्धि दुर्लभम् ।
भो भो मुमुक्षवः सर्वे यूयं पठत सर्वदा ॥१०१॥
इत्यच्युताश्रमस्वामिविरचितं श्रीहरिहराद्वैतस्तोत्रं संपूर्णम् ॥