ऒँकारजपरतानामोङ्कारार्थं मुदा विवृण्वानम् ।
ओजःप्रदं नतेभ्यस्तमहं प्रणमामि चन्द्रमौलीशम् ॥१॥
नम्रसुरासुरनिकरं नळिनाहङ्कारहारिपदयुगळम् ।
नमदिष्टदानधीरं सततं प्रणमामि चन्द्रमौलीशम् ॥२॥
मननाद्यत्पदयोः खलु महतीं सिद्धिं जवात्प्रपद्यन्ते ।
मन्देतरलक्ष्मीप्रदमनिशं प्रणमामि चन्द्रमौलीशम् ॥ ३॥
शितिकण्ठमिन्दुदिनकरशुचिलोचनमम्बुजाक्षविधिसेव्यम् ।
नतमतिदानधुरीणं सततं प्रणमामि चन्द्रमौलीशम् ॥ ४॥
वाचो विनिवर्तन्ते यस्मादप्राप्य सह हृदैवेति ।
गीयन्ते श्रुतिततिभिस्तमहं प्रणमामि चन्द्रमौलीशम् ॥ ५॥
यच्छन्ति यत्पदांबुजभक्ताः कुतुकात्स्वभक्तेभ्यः ।
सर्वानपि पुरुषार्थांस्तमहं प्रणमामि चन्द्रमौलीशम् ॥ ६॥
पञ्चाक्षरमनुवर्णैरादौ क्लृप्तां स्तुतिं पठन्नेनाम् ।
प्राप्य दृढां शिवभक्तिं भुक्त्वा भोगाँल्लभेत मुक्तिमपि ॥७॥
इति चन्द्रमौलीशस्तोत्रं संपूर्णम् ॥