logo

|

Home >

Scripture >

scripture >

Sanskrit

Om symbolबिल्वाष्टकम् Om symbol

Singer

Play Song

Source language

Translation language

Click on the songs to view the meaning


Bilvaashtakam त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् । त्रिजन्मपापसंहारमेकबिल्वं शिवार्पणम् ॥१॥ त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमळैः शुभैः । शिवपूजां करिष्यामि ह्येकबिल्वम् शिवार्पणम् ॥२॥ अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे । शुध्यन्ति सर्वपापेभ्यो ह्येकबिल्वम् शिवार्पणम् ॥३॥ शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् । सोमयज्ञमहापुण्यम् ह्येकबिल्वम् शिवार्पणम् ॥४॥ दन्तिकोटिसहस्राणि अश्वमेधशतानि च । कोटिकन्यामहादानम् ह्येकबिल्वम् शिवार्पणम् ॥५॥ लक्ष्म्याःस्तनत उत्पन्नं महादेवस्य च प्रियम् । बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वम् शिवार्पणम् ॥६॥ दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारम् ह्येकबिल्वम् शिवार्पणम् ॥७॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय ह्येकबिल्वम् शिवार्पणम् ॥८॥ बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ । सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥९॥ इति बिल्वाष्टकं संपूर्णम् ॥

Related Content

Bilvashtakam

upamanyukrutam shivastotram

shivabhujanga prayaata stotram

shivastutiH (langkeshvara virachitaa)

Sadashiva Mahendra StSadashiva Mahendra Stutihutih