यस्मै नमो भवति यस्य गुणाः समग्राः
नारायणोपनिषदा यदुपासनोक्ता ।
यो नः प्रचोदयति बुद्धिमधिक्रतौ यः
तं त्वामनन्यगतिरीश्वर संश्रयामि ॥ १ ॥
वेदेषु वा तदनुयायिषु वा विचार्य
तन्त्रेषु वाक्यमखिलं प्रतिपादकन्ते ।
तात्पर्य सङ्ग्रहमहं विदधे महेश!
मह्यं प्रसीद नय मामृजुना पथा त्वम् ॥ २ ॥
मन्त्रार्थवादविधिभिर्बहुधा विभक्तो
यश्शब्द राशिरनपेक्षतया प्रमाणम् ।
सोयं विमत्सरविमृष्टपदार्थतत्वो
वेदः प्रकाशयति केवलमीश्वरं त्वाम् ॥ ३ ॥
शब्दोयमीश्वर इति श्रुतिगोचरस्सन्
आनीलकण्ठमवतंसितचन्द्रलेखम् ।
त्वामेव बोधयति नाथ! निजार्थपोषात्
अन्यं पुनः प्रकरणादि निपीडनेन ॥ ४ ॥
शब्दस्तवायमभिधानमनन्यशब्दो
नैघण्डुकाश्शिवपदादिवदेनमाहुः ।
वस्तु स्वभावकृतमेव तु पूज्यभावं
ब्रूते महेश्वर! महान्परमश्च शब्दः ।। ५ ।।
यस्योपसर्जनमसौ परमो महान्वा
शब्दस्तदर्थमभिधातुमलं प्रकृष्टम् ।
शब्देन पूज्यवचनेन समस्यमानः
पूजां ब्रवीति यदि शब्दविदः प्रमाणम् ॥ ६ ॥
नानीश्वरं भवितुमर्हति विश्वमेतत्
बह्वीश्वरञ्च नितरामयथाप्रमाणम् ।
तल्लोकवेदविदितेश्वरवर्जनेन
कोयं भ्रमः कतिचिदीश्वरमन्यमाहुः ॥ ७ ॥
विश्वं निरीश्वरमिदं जगदाह साङ्ख्यो
योगश्च सेश्वरमुभावनुवादिनोऽन्ये ।
नत्वेव संभवति सेश्वरतां ब्रुवाण:
पद्मासनादिभिरनीश्वरशब्दवाच्यैः ॥ ८ ॥
ऐश्वर्यमग्र्यमनुपाधिनिबन्धनन्ते
यद्भूतनाथ! नमसामपि पात्रमेकम् ।
तत्प्रायशश्श्रुतिषु दुर्लभमेव वाक्यं
मुक्त्वा नमो भवति यत्र भवत्प्रसङ्गम् ॥ ९ ॥
देव! त्वदेकविषयाणि नमांसि पुंसां
यस्मै नमश्श्रुतिबलादवधारयामः ।
देवान्तरेषु विहितान्यपि तान्यमूनि
स्रोतांसि सागर इव त्वयि संपतन्ति ॥ १० ॥
यस्मै नमश्श्रुतिरनूद्य नमस्विनन्त्वां
एका नियोजनमुवाच पशोः कपर्दिन्!
अन्या च दिव्यशिशुमाराशिरो भवन्तं
शक्यन्तदित्थमुभयेन नमो विधातुम् ॥ ११ ॥
श्रुत्योर्द्वयोरपि नमस्विनमुच्यमानं
त्वामेव तन्तमनुसन्दधतः प्रदेशम् ।
शंसन्ति मन्दमतयोऽपि किमापतन्तं
मध्यन्दिने हि सवितारमपन्हुवीरन् ॥ १२ ॥
कर्मैव शूलधर! शूलगवन्त्वदीयं
मन्त्रा भवन्तमखिलाः प्रतिपादयन्ति ।
त्वामन्तरेण नमसा कृतलक्षणाय
कस्मै पशुं नियुनजानि नियोजय त्वम् ॥ १३ ॥
अङ्गान्तरेषु विबुधान्तरसंस्तुतेषु
यश्शिंशुमारशिरसः परिशिष्यसे त्वम् ।
तस्मै नमो भवितुमीश्वर! सांप्रतन्ते
देवान्तराय न कथञ्चिदनीश्वराय ॥ १४ ॥
या वज्रिणी भवति शङ्कर शङ्खिनी या
मुद्रा च या कमलिनी भरतोपदिष्टा ।
ताभिर्भवन्त्यभिनया विबुधान्तराणां
मौळिस्पृशा करपुटाञ्जलिमुद्रया ते ॥ १५ ॥
दत्तन्नमः किमपिशुश्रुम देवताभ्यः
त्वामन्तरेण नमसामवसानभूमिम् |
तास्तद्ग्रहीतुमनलन्न हि कश्चिदीष्टे
चोरोपनीतमिव धारयितुं किरीटम् ॥ १६ ॥
तस्मै नमो भवतु यत्र निषीदसीति
सर्वं नमस्यमनया तु दिशा महेश!
अप्योषधीः प्रति नमो वयमामनामो
देहीव देहमधितिष्ठसि येन सर्वम् ॥ १७ ॥
सर्वम् त्वया जगदघिष्ठितमेव मत्वा
श्वानश्रुतौ नमसिताः पतयश्व तेषाम् ।
लोके पुनस्तव महेश्वर! भक्तियोगात्
आरोपिता अपि वयं बहुमानपात्रम् ॥ १८ ॥
द्वेधा नमो विमृशतः प्रतिभाति लोके
वेदेषु वा विषमलोचन! नान्यरूपम् |
यत्तन्नमस्त्वयि तदीश्वरताप्रयुक्तं
त्वत्सन्निकर्षविहितं यदनीश्वरेषु ।। १९ ।।
त्वत्सन्निकर्षकृत एव नमः प्रयोगः
प्रायो बसीयसि यवीयसि दृश्यमानः ।
श्रेष्ठप्रयुक्त इति कल्पयितुं न शक्यम्
अश्रेयसामपि नमांसि निदर्शितानि ॥ २० ॥
श्रेष्ठ्यप्रयुक्तमपि नाम नमस्त्वदीयं
श्रेष्ठोऽसि यः क्रतुभुजां पतिरग्रियानाम् ।
श्रेष्ठश्श्रुतोसि भगवन्नविशेषतस्त्वं
मन्त्रेषु कृच्छ्रपठितेषु च सामगानाम् ॥ २१ ॥
देवान्तरैस्सह नमस्तुतिहूतयस्ते
तोषाय नालमलमेव विपर्ययाय ।
पुत्रार्थिनश्चरुविधौ सह चन्द्रमौळे!
सोमेन हूतमनुशुश्रम रुद्रमग्निम् ॥ २२ ॥
अग्निं प्रकृत्य खलु रुद्रपदं प्रयुङ्क्ते
तद्ब्राह्मणं भवति यत्र तयोस्सहूतिः ।
आह्वानमत्र भवतः पृथगेव दृष्टं
यत्प्रातरग्निमिति सूक्तविदः पठन्ति ॥ २३ ॥
अग्न्यादिभिस्तव महेश्वर! हूतिशङ्का
माभूदिति प्रकृतमप्यनुषङ्गोग्यम् ।
मन्त्रः क्रियापदमपास्य पदान्तरेण
त्वमाह्वयन्नुतपदेन भिनत्ति रीतिम् ॥ २४ ॥
न्यासीकृतं वसु बलादमरैरवाप्तुं
अन्वागतो रुदितवानिति रुद्रमग्निम् ।
रुद्रांस्त्वदुद्भवतया मरुतो गणान्वा
रुद्रावणेन च भवन्तमवैमि रुद्रम् ॥ २५ ॥
यज्ञेऽपि रुद्रपदमारुणकेतुकोक्तं
तच्छब्दमीश्वर! तदीयमपि स्मरन्ति ।
यत्तत्प्रदेशगतरुद्रपदावकाशे
यज्ञस्य शब्दमनुशुश्रुम सामगेभ्यः ॥ २६ ॥
सन्ताप्य रोंदयितरि प्रसभं जनानां
आहुर्ज्वरेऽपि विषमेक्षण! रुद्रशब्दम् ।
रौद्रञ्च तत्प्रकृतिकं प्रतिरूपकं वा
शब्दान्तरं भवति वायसशब्दकल्पम् ॥ २७ ॥
सन्त्येव तद्धितपदप्रतिरूपकाणि
भूरीणि भागवतसात्वतसन्निभानि |
स्यात्तादृगेव भगवानिति शब्दरूपं
षाड्गुण्यहेतुकमपि त्वदुपैति नान्यम् ॥ २८ ॥
ऐश्वर्यमग्र्यमनुपाधिमती च लक्ष्मीः
ज्ञानं च वीर्ययशसी च विरागता च ।
एते गुणाः षडपि ते भगसंज्ञयोक्ताः
सन्तीत्यनेन भगवन्! भगवानसि त्वम् ॥ २९ ॥
ऐश्वर्यमीश्वरपदश्रुतिरुग्रशब्दो
वीर्यम् यशश्शिवपदं च तवाभिधत्ते ।
सर्वज्ञकामरिपुशब्दसमर्थितौ च
सार्वज्ञरागविरहौ भवतः पुरारे! ॥ ३० ॥
अर्थश्श्रिया शिव! न कोऽपि विरज्यतस्ते
श्रेष्ठस्तया त्वमसि दाशतयीभिरुक्तः ।
लब्धुं श्रियं जनिम चारुविचित्ररूपम्
अभ्यर्चितं तव मरुद्भिरुदाहन्ति ॥ ३१ ॥
सत्यं क्षमा धृतिरधिष्ठितिरात्मबोधः
सृष्टिर्विरागतपसी मतिरीश्वरत्वम् ।
नत्वद्वियन्ति न कदाचिदपैति धर्मः
किन्तन्नयद्भवति ते गुणसंमतेषु ॥ ३२ ॥
नैवेश्वरान्नयशसा महतो न वीरान्
न श्रीमतः क्षितिपतीनपि सार्वभौमान् ।
अन्यादृशानपि महेश्वर! वीतरागान्
प्रज्ञावतो भगवतः प्रवदन्ति वृद्धाः || ३३ ॥
आथर्वाणा मदनशासन! निब्रुवाणाः
नामानि नाम भगवानिति ते निराहुः ।
अत्याश्रमोपनिषदाह भगेश्वरं त्वां
नैघण्टुकाश्च भगवन्तमुशन्ति पूज्यम् ॥ ३४ ॥
पूजा तमुष्टुहिवता विहिता महेश
मन्त्रेण वाङ्मनसकायनिबन्धना ते ।
सर्वाभिरप्युपनिषद्भिरुपासनोक्ता
नारायणोपनिषदं परिभावयामः ॥ ३५ ॥
वाक्यं यदाह दहरान्तरुपासनन्ते
यद्वा समर्पयति रूपविशेषमस्मै ।
अन्तर्गतैरपि तदौपयिकाभिधेयैः
भाव्यं वचोभिरिति वाक्यविदां प्रवादः ॥ ३६ ॥
नारायणस्य यदुपास्यतयाऽभिधानम्
यद्वा फलन्तदिह नोपलभे कथञ्चित् ।
उत्पत्तिशिष्टभवदन्वयमन्यगामि
शक्यं महेश्वर! न कर्तुमुपासनन्ते ॥ ३७ ॥
नासावुपासनमुपास्यकथैव दूरे
तस्मादुपासकतया परिशेषसिद्धिः ।
अन्तर्व्यवस्थितगिरा परमात्मनस्ते
शब्दादृतेऽपि विहितं तदुपासकत्वम् ॥ ३८ ॥
यस्य स्थितोसि हृदये परमस्त्वमात्मा
युक्तन्न तस्य परमात्मतयाऽभिधानम् ।
स्वेन स्वयं मनसि वह्निशिखान्तराळे
तिष्टन्नुपास्य इति हास्यपदं न कस्य ॥ ३९ ॥
नारायणस्य हृदयं सुषिरं महाग्निः
अग्नेश्शिखा च परमात्मपदं यदुक्तम् ।
सर्वोप्युपासनविधेरयमर्थवादः
श्रद्धाविशिष्टपुरुषाचरणाद्विधेये ॥ ४० ॥
नारायणप्रकरणे हृदयं यदुक्तं
तस्यैव तद्भवितुमर्हति नापरेषाम् ।
दृष्टं यतिप्रकरणे यतिभिर्गृहीतं
पूर्वानुवाकविहितं यदुपासनन्ते ॥ ४१ ॥
ब्रह्मोच्यते परमसौ परमं च तत्वं
ज्योतिः परं च परमेश्वर! पद्मनाभः ।
त्वद्भावनैकरसिकस्त्वदनन्यभावात्
मन्त्री यथा गरुडभावनया गरुत्मान् ॥ ४२ ॥
गीतासु योगजविभूतिविभावनाय
नारायणश्शिवपदं प्रतिवाचमूचे ।
योगन्निशामय महेश्वरगोचरं मे
दिव्यं ददामि तव चक्षुरिति प्रसन्नः ॥ ४३ ॥
त्वामन्तरेण न कथंचिदुपासनीयं
अन्यं ब्रवीति सशिवस्तुतिरन्तकारे!
यद्ब्रह्मशब्दसमभिव्यवहारयोगात्
संहारकारिणिहरे शिवशब्दमाहुः ॥ ४४ ॥
विश्वाधिकस्त्वमसि विश्वमयं मुरारिः
यज्ञेश्वरस्त्वमसि यज्ञममुं गृणन्ति ।
आद्या जगत्प्रकृतिरेषभवान्निमित्तम्
आतः कथन्नु भगवन्युवयोरभेदः ॥ ४५ ॥
विश्वात्मनस्तुतिषु विश्वपतित्ववादः
सङ्गच्छते स्तुतितयैव रथाङ्गपाणेः ।
विश्वस्यपत्युरथ विश्वतयाभिधानं
नालं गुणाय गुणगृह्यनिकर्षहेतुः ॥ ४६ ॥
विश्वं महेश्वर! भवानधितिष्टतीति
विश्वात्मतामुपचरन्ति यदागमास्ते ।
तत्पण्डिता विदितवेदरहस्यशीला:
जानन्ति मन्दमतयस्तु तदेव सत्यम् ॥ ४७ ॥
तुभ्यं नमो विदधदीश्वर! तन्तमर्थम्
आतिष्ठते सकलकर्मसु विश्वदर्शी |
सर्वानुवादमिदमुक्तसमर्थनाय
कात्यायनो मुनिरुदाहरति स्म गृह्ये ॥ ४८ ॥
स्थानं यदान्तरमुपास्तिरुपासको वा
या सा परा परतया विविधा विभूतिः ।
यद्वा पुनर्विषमनेत्रमुपासितव्यं
नारायणोपनिषदाह तदत्र सर्वम् ॥ ४९ ॥
यज्ञात्मना स्वयमसावृषिणोपदिष्टा
नारायणेन भवतः प्रतिपादयित्री ।
सूक्तं यथा पुरुषदैवतमन्तकारे
नारायणार्षमिति तद्व्यपदिष्टमाहुः ॥ ५० ॥
एषा महोपनिषदाह हिरण्यगर्भम्
जातं त्वदेव भगवन् प्रथमं सुराणाम् ।
नारायणाभिजनमेनमथापि मन्दाः
शंसन्ति तत्र भवतः कतिचित्प्रसूतिम् ॥ ५१ ॥
मध्ये ललाटमरविन्दभुवः क्षणेन
दृष्टो भवानिति क एष निकर्षवादः ।
योगादिरूढमनसश्शिव! मादृशोऽपि
स्थानेषु पञ्चसु न कस्य तवोपलंभः || ५२ ॥
ब्रह्माणि पञ्चतनवश्शिव मन्त्ररूपा-
जीवातवः पशुपते! शिवसंहितानाम् ।
रुद्रेषु पुण्यमिव पञ्चकमक्षराणां
अस्यां महोपनिषदीति महत्ववादः ॥ ५३ ॥
विद्येश्वरस्त्वमसि भूतपतिस्त्वमेकः
स्रष्टुर्भवानधिपतिस्सृजति प्रपञ्चम् ।
यद् ब्राह्मणान्प्रति तव श्रुतमाधिपत्यम्
तद्ब्रह्मणो मम सदाशिव जन्मलाभः ॥ ५४ ॥
विद्येश्वरत्वपुनरुक्ततया न वाच्यं
वेदाधिपत्यमयमेव महेश! वेदः ।
विद्या भवन्ति शतशः प्रविभज्यमानाः
स्रोतांसि किन्न सरितेव पृथक् कृतानि ॥ ५५ ।।
आदित्यमृग्यजुषसामनिधानकोशे
बिम्बे निविष्टमधितिष्ठति पूरुषो यः ।
एषा तमेष इति साभिनया भवन्तं
भूताधिपत्यवचनेन शशंस नाम्ना ॥ ५६ ॥
उक्तो हिरण्यपतिरेष हिरण्यबाहु
रुक्तोऽम्बिकापतिरुमापतिरेष उक्तः ।
आहुर्भवन्तमधिदैवतमुष्णरश्मेः
आतस्तदर्चनविधौ भगवन्नभिज्ञाः ॥ ५७ ।।
यो मण्डलं तपति यश्च तदन्तरात्मा
या चानयोर्भवति भूतपते! विभूतिः ।
जानान एतदपि यत्फलमश्नुते च
सर्वं यथावदिह तत्कथितं क्रमेण ॥ ५८ ।।
मा नाम भूदखिलमन्यदिमं प्रदेशम्
अध्यापितास्तदिति मन्त्रविदो भवन्ति ।
वाच्यः किमस्य सविता सवितुर्वरेण्यः
किं वा भवानिति वितर्कपदं न तेषाम् ।। ५ ९ ॥
भास्वन्तमेष विषयीकुरुते न मन्त्रः
शक्नोति वक्तुमधिदैवतमीश्वरं त्वाम् ।
यस्मादयं त्वयि निरोहति भर्गशब्दः
प्रज्ञाप्रचोदकतया तदधीयसे त्वम् ।। ६० ।।
सान्तोऽयमन्तकरिपो! यदि भर्गशब्दो
यत्तत्पदद्वयमनन्वयि लिङ्गभेदात् ।
अन्वेषयेदुभयमन्यदभिन्नलिङ्गम्
अश्रूयमाणमसमञ्जस एष पक्षः ।। ६१ ।।
शब्दस्मृतिर्ह्यसुनि वा घञि वा पदान्ते
युक्तं वदत्युभयथा स्वरमाद्युदात्तम् ।
व्यत्यस्तकारकमवैमि पदं घञन्तं
मैत्रायणश्रुतिपराहतसान्तभावम् ॥ ६२ ||
मैत्रायणश्रुतिरसौ तदिति प्रकृत्य
भर्गं भवन्तमभिधाय विचिन्तनीयम् ।
रुद्रस्य भर्गपदगोचरतां ब्रुवाणा
सान्तं प्रतिक्षिपति भर्गपदं पुरारे! || ६३ ||
सान्तं पदं तदपि नैव ददाति वक्तुं
यद्ब्राह्मणन्तलवकारिण आमनन्ति ।
प्रश्नोत्तरक्रमनिरूपितपूर्वपादं
पादं द्वितीयमपि भर्गमयं ब्रवीति ॥ ६४ ॥
भर्गः प्रचोदयति यो धियमस्मदीयां
तं धीमहीति घटना विनिमाय लिङ्गम् ।
वाच्यस्य भर्ग! भवतस्खपदाभिधानं
भर्गाख्यमित्यपि च साम्बवचोनुरोधः ॥ ६५ ॥
त्वामेव मन्त्रोपनिषद्ब्रवीति
तदित्यृचोऽस्याः प्रतिपाद्यमर्थम् ।
तदक्षरं तत्सवितुर्वरेण्यं
प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ ६६ ।।
भार्गोऽपि सन्सवितृशब्दसमन्वयेन
सावित्रतामपि विगाहत एव मन्त्रः |
तत्तत्पदान्वयवशेन महेश! मन्त्रान्
तद्देवतानपि हि मन्त्रविदः पठन्ति ॥ ६७ ॥
अप्यर्कदैवतवतीमृचमामनामः
शब्देनविश्व इति शंकर! वैश्वदेवीम् ।
पिच्याञ्च मर्त इति पुष्यपदेन पौष्णीम्
एतादृशानि कति नाम निदर्शनानि ॥ ६८ ॥
एषा गतिश्श्रुतिगिरामिति निर्णयेन
तत्तद्ग्रहार्चनविधौ मुनयस्स्मरन्ति ।
मन्त्रेण शंकर! शनेश्शमुपक्रमेण
बुध्यस्वशब्दसहितेन बुधस्य पूजाम् ॥ ६९ ।।
आम्नायमृग्यजुषसामविधं विचिन्त्य
सारं समुद्धृतवता परमेष्ठिनापि ।
मन्त्रस्त्रिपादयमदृष्टविधान्तरेण
दृष्टश्चराचरगुरो! मनुना यथोक्तम् ॥ ७० ॥
गृह्णातु काममनलस्सकलं हविस्ते
राज्ञो बलिं हरतु भागदुघ: प्रजाभ्यः ।
पार्त्थेन शंकर! निवेदितमंबुजाक्षे
नैशं हविस्फुटमदृश्यत पादयोस्ते ॥ ७९ ॥
सोमं त्वदर्थमनुशुश्रुम सूयमानं
आलंभनं पशुपते! नियतं पशूनाम् |
गव्यं च ते गवि सदेव तदध्वरेषु
चण्डेश्वरेण सह नाकसदां विवादः ॥ ७२ ॥
उत्पत्तितश्शिव! गृहीतसमन्वयास्ते
सोमः पशुर्गवि च सन्ति हवींषितानि ।
देवाः पशौ हविषि भागमनुज्ञया ते
गृह्णन्ति तद्वदितरेष्वपि कल्पनीयम् ॥ ७३ ॥
कर्मैकमेव न परं पशुबन्धनं ते
कर्तव्यमाहुरुपलभ्य तवाभ्यनुज्ञाम् ।
सर्वेषु कर्मसु भवत्प्रसवेन पुंसां
आरंभणं प्रपदमन्त्रविदो गृणन्ति ।। ७४ ॥
सङ्कल्पतः प्रभृति यज्ञतनुं विभज्य
देवान्प्रजापतिमुखान्प्रति दर्शयन्तः ।
सोमाहुतिं हुतवहार्चिषि हूयमानाम्
अध्वर्यवस्तव गृणन्ति गिरीश! भागम् ॥ ७५ ॥
सर्वं धन धनपतेरुपभुक्तशिष्टं
यद्देवतातिथिसमाश्रितभृत्यवर्गैः ।
यज्ञेश! यज्ञपरिशिष्टमपि त्वदीयम्
मन्थिग्रहव्यतिकरे भवता यथोक्तम् ।। ७६ ।।
गव्येन सोमहविषा चरुभिश्च पक्वैः
साध्यान्त्रिसप्त मुनयो विभजन्ति यज्ञान् ।
सर्वेषु तेष्वपि भवानविशेषतस्त्वां
राजानमध्वरविधौ वयमामनामः ॥ ७७ ॥
अग्निं प्रकाशयतु शंकर! रुद्रवन्तं
मन्त्रस्त्वमग्न इति वा तदनन्तरो वा ।
राजन्वती क्षितिरितीव विशेषणस्य
नालं प्रतीपमपनेतुमिमौ प्रकर्षम् ॥ ७८ ॥
या रोहिणी भवति देव! तदा त्वदीया
तस्यां त्वदेकविषयौ विषमाक्ष! दृष्टौ ।
मन्त्राविमौ तदिह यज्ञपतित्वमीश
स्पष्टं त्वदेकविषयं प्रतियान्ति धीराः ॥ ७ ९ ॥
पित्रा कुमारमिव भृत्यमिवेश्वरेण
शिष्यं गिरीश! गुरुणेव गुणाधिकेन ।
अग्निं त्वया कृतविशेषणमूचिवांसौ
मन्त्राविमौ गमयतः परमं प्रकर्षम् ॥ ८० ॥
ऋक्संहिता वदति मेधपतिम् भवन्तं
राजानमध्वरविधेरयमाह मन्त्रः ।
त्वत्सूक्तमन्त्रगणमण्डनमौळिरत्नम्
रूपेण च त्वदभिधानगृहीतशक्तिः ।। ८१ ।।
त्वत्कं पुरा मरणतस्तनयित्नुकल्पा-
दाकारणं परमकारुणिक! ब्रुवाणः ।
मन्त्रोऽयमाव इति यावदुपक्रमायाः
मूलं महेश! विदितं शिवधर्मसूक्तेः ॥ ८२ ||
भीमोऽसि शंकर! मृगो नु निदर्शनं ते
तेजोभिरुच्चलितसूर्यसहस्रकल्पैः ।
अक्रोधनस्मितमुखोऽपि निजानुभावात्
आपाततस्तनुभृतां नृपतिर्भयाय ॥ ८३ ॥
अभ्युद्यतं गिरिश! वज्रमधीमहे त्वां
त्वद्बिभ्यतः पवनभानुकृशानुशक्राः ।
मृत्युश्च तत्तदधिकारभृततथान्ये
ब्रह्मत्वलक्षणमयं भयहेतुभावः ॥ ८४ ॥
घोरा शिवा च भगवन्नुभयी तनुस्ते
घोरा भिषज्यति भवार्तमुपास्यमाना ।
अन्या भिषग्जनकृतां रुजमीक्षमाणा
दृष्ट्या ददाति शिवतामशिवात्मनोऽपि ॥ ८५ ॥
घोरान्नमो विदधतश्शमयन्ति रुद्रैः
आर्ता हि घोरमुपयान्ति चिकित्सितारम् ।
प्रीणन्ति शंकर! शिवां चमकानुवाकैः
होमस्य यत्तव भवन्त्युभयेऽपि मन्त्राः ॥ ८६ ॥
विष्णुप्रजापतिपुरंदरपूर्वकेषु
वाजादितुल्यमितरेष्वपि दैवतेषु ।
आशंसितेषु चमकाः परिशिष्यमाणं
दातारमीश्वर! भवन्तमशब्दमाहुः ॥ ८७ ॥
युक्तं नमानयितुमीश्वर! सन्निधौ ते
देवान्तराणि महतामिव मर्त्यमात्रम् ।
अन्तर्द्धिमध्वरविधौ तदपेक्षमाणाः
त्वत्कर्मसीम्नि परिषेचनमाचरन्ति ॥ ८८ ॥
आत्मान्तराणि पशवः परतन्त्रभावात्
स्वातन्त्र्यतः पशुपते! पतिरीश्वर! त्वम् ।
आत्मानमौपनिषदाः प्रवदन्त्यनीशं
ईशं भवन्तमुभयोरुभयं स्वभावः ॥ ८९ ॥
संप्राप्त एव सति शंकर! पाशुपत्ये
कस्मै वरेण्य! वरणं कृपणोचितं ते ।
विध्यर्थमध्ययनचोदनयागृहीता
जल्पन्ति यत्किमपि वन्दिवदर्थवादाः ॥ ९० ।।
नानापदानवचनादपि वारणीयः
त्वत्पाशुपत्यवरणप्रतिलंभवादः ।
लब्धुं वरीतुमथवा कथमेक एव
वारान्बहूनपि महेश्वर! शक्यतेऽर्थः ॥ ९१ ॥
अङ्गैस्स्थिरेभिरिति रूपमनश्वरन्ते
भूरीणि तानि च भुजङ्गममालभारिन्! |
मन्त्रेण चान्तरिति युष्मदुपासकाना-
मार्ग्वैदिका यदशनं तदमोघमाहुः ।। ९२ ।।
भावोपपन्नमनसां त्वदुपासकानां
पुंसाममोघमशनं भगवन्ब्रुवाणः ।
मन्त्रोऽयमन्तरिति नः प्रतिभातिमूलं
प्राग्भुक्तमर्चनविधेरनुवासरं ते ।। ९३ ।।
नाथ! त्वया पितृमतो मरुतस्तुवानाः
त्वामामनन्ति भरतं नटनाभियोगात् ।
वैशेषिके सति खलु व्यपदेशहेतौ
साधारणेन भरणेन न कश्चिदर्थः ॥ ९४ ॥
हिंसाप्रतीतिरभिमानपदैकदेशात्
शब्दादभेरिति भयेन सुमुद्वपन्ति ।
कामान्तकत्रिपुरदक्षमखादिभंग
विख्यातविक्रमतया कथितोऽसि वीरः ॥ ९५ ॥
हिंसाभिधातृपदसन्निधिना ज्वरार्थम्
रुद्रेति नाम परिशंक्य परावपन्तः ।
मन्त्रे यथान इति मङ्गळवाचि दृष्टम्
देवेश! रुद्रियपदं पुनरावपन्ति ॥ ९६ ॥
शाखासु शङ्कर! सहस्रतयीषु साम्नां
आम्नायते तव न केवलमानुभावः ।
सर्वात्मनामधिपतेरविशेषतस्ते
देवव्रतादिषु गणाः कथितानुभावाः ॥ ९७ ॥
स्कंदं विनायकमुभावपि ते कुमारौ
सर्वैर्गुणैः पितरमेव निदर्शयन्तौ ।
सामोपगायमुपगायमृचां गणेषु
संप्रीणयन्ति शिव! सामविधौ यथोक्तम् ॥ ९८ ॥
ब्रह्मादिकं सकलमन्यदपोह्य पुंसां
ध्यातव्यमेकमभिधाय शिवंकरं त्वाम् ।
वक्तव्यमन्यदनपेक्ष्य विमोक्षहेतुं
आथर्वणः परिसमाप्तिमुवाच वेदः ।। ९९ ।।
यामामनन्ति तव शंकर! धर्मदारान्
अध्वर्यवस्सहजसिद्धतया स्वसारम् ।
आथर्वणा यदुपसृष्टतया भवन्तं
ध्यातव्यमाहुरपहाय पितामहादीन् || १०० ।।
एकश्श्रुतोऽसि परमेश्वर! सद्वितीयं
मन्त्रा यया व्यपदिशन्ति पुनः पुनस्त्वाम् ।
तस्याः प्रभावमतिवाङ्मनसं शिवायाः
कार्स्त्न्येण वक्तुमनलं कमलासनोऽपि ॥ १०१ ॥
एकं मुखं त्रितयमीश्वर! लोचनानां
चत्वारि दोंषि विशदं वपुरद्भुतं ते ।
नित्यं तदेव भजतामुपकारहेतोः
नाना भवन्ति तनवस्तव दिव्यरूपाः ॥ १०२ ।।
कैरातमीश्वर! पिनाकधरं वपुस्ते
कृत्तिम् वसानमुमया सह धर्मदारैः ।
आराधयन्ति खलु पर्वणि साकमेधे
पुण्यैस्त्र्यंबक! हविर्भिरनन्यभावाः || १०३ ||
मीढ्वांसमन्तविनिवेशितमीढुषीकं
अन्तर्जयन्तमजरामरविग्रहं त्वाम् |
त्वद्वारपं दयितया सह देवसेनं
क्षेत्रस्य नाथमपि नाथ! यजन्ति धन्याः ॥ १०४ ।।
पत्न्या समं सह गणैस्सह वा सुताभ्यां
सार्धं तथा परिषदा विषमेक्षण! त्वाम् ।
अध्यष्टमीतिथिनिशामुखमर्चयन्तः
पापं तरन्त्यपि जयन्ति महेश! मृत्युम् ॥ १०५ ॥
मन्त्रा भवन्ति विरळा विबुधान्तराणां
सद्भाव एव शिव! दर्शितशक्तयस्ते ।
त्वन्नामरूपगुणवर्णनलब्धवर्णा-
मन्त्रा न शक्यमवगंतुमियत्तया ते ।। १०६ ।।
रुद्रानुवाकपठितानि परस्सहस्रं
नामानि दिव्यमपि रूपमनेकशस्ते ।
शक्यं गुणा गणयितुं गणना यदि स्यात्
भौमेषु पांसुषु विना तव देव! मायाम् ॥ १०७ ॥
वेदस्स्वयं भवतु वा तत्र वा प्रणीतिः
सर्वः प्रमाणमविहाय गृणाति लोकः ।
तत्तत्प्रवक्तगुणदर्शिततारतम्यं
अन्यत्प्रमाणमविरोधिनि वेदवाक्ये ॥ १०८ ॥
वेदाः प्रमाणमिति संगिरमाण एव
दिव्यं तवागममवैति जनः प्रमाणम् ।
त्वद्ध्यानवाक्यविषयौपयिकैः पदार्थैः
आमूर्द्धमाकलितविग्रहमाच मूलात् ।। १०९ ।।
ध्यानं यथा भवति तद्विषयो यथा त्वं
यादृग्गुणश्च भगवन्नधिकारिवर्गः ।
सर्वाणि तानि भवदागमसंहिताभिः
कल्पैरिवाध्वरविधेरुपपादितानि ॥ ११० ।।
अध्वानमध्वपतिमध्वनि तारतम्यं
श्रेष्ठाध्वपारगमनं च फलं ब्रवीति ।
मन्त्रोऽध्वनामिति महेश्वर! गृह्यकार:
पित्रा कुमारमुपनीय वदन्हि वाक्यं ॥ १११ ।।
कल्पाः प्रमाणमृषिभिर्यदि नः प्रणीताः
किन्न प्रमाणमृषिणा महता महर्षे! ।
शक्यं न वक्तुवपरिग्रहदूषितानि
तन्त्रान्तराणि भवता शिव! कर्तृमन्ति ॥ ११२ ॥
आचक्षते यमृषिमार्षविदस्तपोभिः
एकैकमन्त्रदृशमीश्वर! वेदराशेः ।
द्रष्टारमस्य निखिलेन निजानुभावात्
अन्यानृषीनति महर्षिमतो विदुस्त्वाम् ॥ ११३ ||
उक्तं प्रधानपुरुषेश्वरमेव सांख्यैः
आख्याय पाशपशुपत्यभिधानभेदात् ।
ज्ञेयं त्वदागमविदश्शिव! सङ्गिरन्तां
एतावता किमिति नस्तदुपेक्षणीयम् ॥ ११४ ॥
प्रत्यक्षवेदविहितं प्रथितं पुराणैः
बोधायनेन मुनिना बहुशः प्रणीतम् ।
सर्वार्थदर्शनपरैरपि गृह्यकारैः
यज्ञोपवीतमिव विस्मृतमर्चनन्ते ॥ ११५ ॥
वेदोपब्रह्मक पुराणवचःप्रपञ्चैः
आघोष्यते विषमनेत्र! समर्चनन्ते ।
तन्त्रैरलं तदुपब्रह्मकवेदमूलैः
वात्याहतं न हि मुखानिलसव्यपेक्षम् ॥ ११६ ॥
वेदार्थनिर्णयविधौ हि पुराणमङ्गं
निर्णीतवेदविषया स्मृतयो भवन्ति ।
आतश्रुतेरिव पुराणगिरस्सकाशे
नालं प्रकाशयितुमात्मबलावलेपम् ।। ११७ ।।
मूलश्रुतेरनुपलंभपराहतायाः
दूतीव या न भवति स्वरसात्प्रमाणम् ।
प्रत्यक्षवेदविहितं यजनं त्वदीयं
तस्या स्मृतेरपि किमिच्छति दृष्टिपातम् ॥ ११८ ॥
पौर्वाह्निकानुपदिशन्नियमान्यदेतत्
अभ्यर्चनं मनुरवोचत देवतायाः ।
तत्किं पुनस्तव महत्यसि देवता त्वं
मृग्ये च काचशकले न मणेरुपेक्षा ॥ ११९ ॥
पत्न्या समं सह वृषेण वृषेन्द्रकेतो
युष्मद्बलीनुपदिशन् स्त्रिदशावकाशे |
अभ्यर्चनं भवनकल्पनपूर्वकं ते
बोधायनः कथितवानवयुत्य गृह्ये ॥ १२० ॥
भावान्तराणि परिहाय महत्सु नित्यं
विज्ञानयोगविभवेषु महीयसे यत् ।
देवो महानभिहितोऽसि ततः कपर्दिन्!
नाम त्वदीयमिदमाङ्गिरसा निराहुः || १२१ ।।
द्वेधा तवार्चनविधिस्तरुणेन्दुमौळे!
कामाय कश्चिदपरो दुरितक्षयाय |
अप्यग्निहोत्रमुभयं वयमामनामः
स्वर्गाय यद्भवति यद्दुरितं क्षिणोति || १२२ ||
यद्ब्राह्मणस्त्वमसि नाकवतां निकाये
तुभ्यं निवेदितमभोज्यमिति स्मरन्ति ।
उच्छिष्टमीश्वर! विशिष्टमपि द्विजानां
भूमौ निखेयमथवांभसि मज्जनीयम् ॥ १२३ ॥
त्वं ब्राह्मणस्त्वदुपधावनमेव कार्यम्
तद्ब्राह्मणैस्त्वदितरे न भवन्त्युपास्याः ।
न ब्राह्मणानवरवर्णनिषेवणेन
संभावयेम यदि नः प्रपदं प्रमाणम् ॥ १२४ ।।
उत्कर्षतः परिहरन्त्यपकर्षतो वा
का वासना भवति कस्य कृते न विद्मः ।
यद्दीक्षितस्य पतितस्य च तुल्यरूपं
प्रत्यादिशन्ति मुनयः कमनीयमन्नम् ।। १२५ ।।
चण्डालचण्डिलचितानलशौण्डिकानां
गोब्राह्मणज्वलनदीक्षितयोषितां च ।
स्पर्शः कया भवति वासनया निषिद्धः
स्पृष्टेषु वा शिव! कया विहिता विशुद्धिः ॥ १२६ ॥
वर्ज्यान्नमाहुरपि दीक्षितमग्निकल्पं
भोज्यान्नमेवकृतराजपरिक्रयं तम् ।
शंखास्थि पावनमपावनमस्थि नृणां
इत्थं स्थिते वचनमत्र परायणन्नः ।। १२७ ।।
अब्राह्मणैः क्षुदपघातकमस्तु भोज्यं
यद्देवतान्तरनिवेदितमुक्तमन्नम् |
तद्ब्राह्मणैरपि किमीश्वर! वैश्वदेवे
हार्यो बलिर्बलिमतामशितेन तेन ॥ १२८ ।।
देवान्तरैरशितमुक्तमनङ्गशासिन्
अश्नन्ति चेदनशितेन बलिम् हरन्तः ।
आश्यैकदेशविहितो बलिरन्यथासन्
नालं फलाय विपरीतफलाय तेषाम् ।। १२९ ।।
ब्राह्मणमीश्वर! पुरा हतवानसीति
भिक्षाटनं विमृशतः प्रतिभानमात्रम् |
यत्पञ्चमे शिरसि पुष्पसमं निकृत्ते
जीवन्तमेनममितायुषमाहुराप्ताः ॥ १३० ।।
आनाभिजानु वसितं वसनं न शाणं
पाणौ कपालशकलं न विलोकितं ते ।
नालंवते शवशिरस्तव केतुयष्टौ
भैक्षं न साप्तभवनं सकलं तदास्ताम् ॥ १३१ ॥
यत्कालभैरवकृतं पतनीयमेनः
किं तेन ते भवति भैक्षमथापि वृत्तिः ।
तन्मध्यपातिनि वधे विभुधान्तरस्य
निर्वेदमाचरसि किन्नु भवानजस्रम् || १३२ ||
यत्पाशुपत्यमवृणोदमरांतरेभ्यो
भिक्षां भवानकृतयत्परमेश्वरोऽपि ।
चोद्यं तदेतदुभयं परिहर्तुकामो
मन्ये बृहस्पतिरपि प्रतिपत्तिशून्यः ॥ १३३ ॥
ब्रह्मासि विष्णुरसि सर्वमसीति यत्त्वाम्
आस्तामुपासनविधिम् कथयन्ति मूढाः ।
तद्देवतान्तरनिकर्षनिगूहनाय
मोहाय वा भवतु जल्पितमल्पबुद्धेः ॥ १३४ ॥
अद्वैतमागमशिरोभिरुपासनायां
उक्तं तवेति परमार्थतया न वाच्यम् |
भेदस्फुठो गरुडमान्त्रिकयोरळीकं
तादात्म्यभावनमथापि विषं प्रमार्ष्ठि ॥ १३५ ॥
यद्ब्रह्मपंचमशिरोलवनापदानं
यद्ब्रह्मणा च हरिणा च विमार्गणं ते ।
यद्वा तयोर्जनयितारमधीमहे त्वां
तत्सर्वमीश्वर! विमूढधियामसह्यम् ॥ १३६ ॥
सोमे लतात्मनि महेश्वर! गौणवृत्या
विष्णोरवादि जनकत्वमृचा कयापि ।
त्वय्येव तद्भवितुमर्हति मुख्यवृत्या
नेन्द्रे न पङ्कजभवे नितरां मुरारौ ॥ १३७ ॥
अन्योन्यतो यदि भवेदहमीश्वरस्स्यां
त्वं चाहमीश्वर! किमत्र नियामकं नः |
को वा विपर्यसितुमर्हति वस्तुशक्तिम्
तत्तत्स्वभावनियतां भवदाज्ञयापि ॥ १३८ ।।
एकं तवाप्यसुकरं तदुदाहरामो
जातेन भाव्यममरान्तरवत्त्वयापि ।
अभ्यर्थितोऽपि हि महेश! महर्षिदारैः
अन्तर्हितस्त्वमसि गर्हितगर्भवासः ।। १३९ ।।
इच्छावतीर्णमुरशासनगर्भवासः
स्याच्चेदुदाहरणमेव विमर्शनीयः ।
गर्भे वसामि परिवेष्टय जरायुणाऽहम्
मासान्बहूनिति महेश्वर! कस्य कामः ।। १४० ।।
इच्छापि नूनमनुयाति पुरा कृतानि
कर्माणि शंकर! शुभाशुभलक्षणानि ।
इच्छावतारवचनानि तु भारतादौ
नारायणस्य गुणवादमुदाहरन्ति ॥ १४१ ॥
विधातारं कश्चिद्भजति भजते कश्चन हरिम्
सुरानन्यानन्ये जगति सफलास्सर्वविधयः ।
तथापि त्वद्भक्तेश्शिव! शिव! यदा चर्मवदिति
श्रुतो मन्त्रो देवान्तरभजनदैन्यं न सहते ॥ १४२ ॥
शशे शृङ्गं पुष्पं नभसि मृगतृष्णासु सलिलम्
प्रसूतिर्वन्ध्यायामनवधिमदायुस्तनुभृताम् ।
विमुक्तिर्वा देवान्तरभजनलभ्या पशुपते!
न शक्यं नस्संभावयितुमपि सर्वम् विमृशताम् || १४३ ॥
न भिन्ना नौरन्यानलमुदनिधेरुद्गमयितुं
शिला नैवोन्नेतुं प्रभवति शिलामन्तकरिपो! ।
जनित्वा मृत्वा वा जगति परिवर्ती सुरगणः
कथं मे संसारभ्रमणभयभाजस्तु शरणम् ॥ १४४ ॥
देवतान्तरपुनः पुनर्भवं पश्यतः पशुपते! भयं मम ।
क्रीडतोऽपि तव जन्म मास्मभूत् दीयतामयमपश्चिमो वरः || १४५ ||
वासनापरिगृहीत देवता वर्णनौपयिकसर्ववाङ्मयम् ।
धिग्धिगीश्वर! जडाशयं जनम् तावकैरहमसानि सङ्गतः ॥ १४६ ॥
पांसुकेळिरपि यस्य शैशवे शैवपाशुपतपादपांसुभिः ।
स्तोत्रकर्मणि न तस्य मे गुणः तद्गुणोऽयमु॑पपद्यते त्वयि ॥ १४७ ॥
स्तोत्रीयमर्थमुपपादितवानहं ते
भक्तेति भक्तजनवत्सल! भाषमाणः ।
आविर्बभूविथ शिखी शुचिनाम्वरेण
यज्ञोपवीतमुपवीय धृतत्रिपुण्ड्रः ॥ १४८ ॥
भक्तं भवानदित पार्श्वचरोपनीतं
मह्यं महेश्वर! पयश्श्रपितं प्रसन्नम् ।
भुञ्जान एव तदहं झडितिप्रबुद्धः
स्वप्नस्समाधिरिति युक्तधियमभिन्नः ॥ १४९ ॥
स्तोत्रमेतदवधाय गृह्णतां अर्थमस्य निखिलेन जानताम् ।
ग्राह्यमन्यदपि नावशिष्यते ज्ञेयमन्यदपि वा न किञ्चन ।। १५० ॥
पञ्चाशदुत्तरशता श्रुतिसूक्तिमाला
भोगावळी भुजगराजमनोहरा ते ।
वेदेषु भक्तिमपरागमवैदिकेषु
तन्त्रेषु भक्तिमतुलां त्वयि च प्रसूते ॥ १५१ ॥
॥ समाप्ता श्रुतिसूक्तिमाला ॥