न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् ।
एवमेव शिवभासस्तं नुमो भक्तिशालिनम् ॥ १.१॥
आत्मा मम भवद्भक्तिसुधापानयुवापि सन् ।
लोकयात्रारजोरागात्पलितैरिव धूसरः ॥ १.२॥
लब्धतत्सम्पदां भक्तिमतां त्वत्पुरवासिनाम् ।
सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया ॥ १.३॥
साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे ।
किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति ॥ १.४॥
जयन्ति भक्तिपीयूषरसासववरोन्मदाः ।
अद्वितीया अपि सदा त्वद्वितीया अपि प्रभो ॥ १.५॥
अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते ।
तादृश एव ये सान्द्रभक्त्यानन्दरसाप्लुताः ॥ १.६॥
त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान् ।
इति स्वभावसिद्धांस्त्वद्भक्तिं जानञ्जयेज्जनः ॥ १.७॥
नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः ।
वेद्यवेदकसङ्क्षोभेऽप्यसि भक्तैः सुदर्शनः ॥ १.८॥
अनन्तानन्दसरसी देवी प्रियतमा यथा ।
अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे ॥ १.९॥
सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो ।
संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थितः ॥ १.१०॥
भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या ।
दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता ॥ १.११॥
भवद्भक्तिमहाविद्या येषामभ्यासमागता ।
विद्याविद्योभयस्यापि ता एते तत्त्ववेदिनः ॥ १.१२॥
आमुलाद्वाग्लता सेयं क्रमविस्फारशालिनी ।
त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे ॥ १.१३॥
शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते ।
त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम् ॥ १.१४॥
भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः ।
तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥ १.१५॥
कदाचित्क्वापि लभ्योऽसि योगेनेतीश वञ्चना ।
अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥ १.१६॥
प्रत्याहाराद्यसंस्पृष्टो विशेषोऽस्ति महानयम् ।
योगिभ्यो भक्तिभाजां यद्व्युत्थानेऽपि समाहिताः ॥ १.१७॥
न योगो न तपो नार्चाक्रमः कोऽपि प्रनीयते ।
अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते ॥ १.१८॥
सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम ।
प्रत्यक्षसर्वभावस्य चिन्तानामपि नश्यतु ॥ १.१९॥
शिव इत्येकशब्दस्य जिह्वाग्रे तिष्ठतः सदा ।
समस्तविषयास्वादो भक्तेष्वेवास्ति कोऽप्यहो ॥ १.२०॥
शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ ।
अलौकिकरसास्वादे सुस्थैः कोऽनाम गण्यते ॥ १.२१॥
सादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः ।
तादृशी भगवन् यस्या मोक्षाख्योऽनन्तरो रसः ॥ १.२२॥
ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः ।
त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः ॥ १.२३॥
भवद्भक्तिसुधासारस्तैः किमप्युपलक्षितः ।
ये न रागादि पङ्केऽस्मिंऌ लिप्यन्ते पतिता अपि ॥ १.२४॥
अणिमादिषु मोक्षान्तेष्वङ्गेष्वेव फलाभिधा ।
भवद्भक्तेर्विपक्वाया लताया इव केषु चित् ॥ १.२५॥
चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः ।
त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥ १.२६॥
अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम ।
स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥ २.१॥
विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे ।
महानलाय भवते विश्वैकहविषे नमः ॥ २.२॥
परमामृतसान्द्राय शीतलाय शिवाग्नये ।
कस्मै चिद्विश्वसम्प्लोषविषमाय नमोऽस्तु ते ॥ २.३॥
महादेवाय रुद्राय शङ्कराय शिवाय ते ।
महेश्वरायापि नमः कस्मै चिन्मन्त्रमूर्तये ॥ २.४॥
नमो निकृत्तनिःशोषत्रैलोक्यविगलद्वसा-
वसेकविषमायापि मङ्गलाय शिवाग्नये ॥ २.५॥
समस्तलक्षनायोग एव यस्योपलक्षणम् ।
तस्मै नमोऽस्तु देवाय कस्मै चिदपि शम्भवे ॥ २.६॥
वेदागमविरुद्धाय वेदागमविधायिने ।
वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥ २.७॥
संसारैकनिमित्ताय संसारैकविरोधिने ।
नमः संसाररूपाय निःसंसाराय शम्भवे ॥ २.८॥
मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये ।
क्षीनाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥ २.९॥
नमः सुकृतसम्भरविपाकः सकृदप्यसौ ।
यस्य नामग्रहस्तस्मै दुर्लभाय शिवाय ते ॥ २.१०॥
नमश्चराचराकारपरेतनिचयैः सदा ।
क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥ २.११॥
मायाविने विशुद्धाय गुह्याय प्रकटात्मने ।
सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे ॥ २.१२॥
ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये ।
आश्चर्यकरणीयाय नमस्ते सर्वशक्तये ॥ २.१३॥
तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः ।
यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे ॥ २.१४॥
मायामयजगत्सान्द्रपङ्कमध्याधिवासिने ।
अलेपाय नमः शम्भुशतपत्राय शोभिने ॥ २.१५॥
मङ्गलाय पवित्राय निधये भूषणात्मने ।
प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥ २.१६॥
नमः सततबद्धाय नित्यनिर्मुक्तिभागिने ।
बन्धमोक्षविहीनाय कस्मै चि दपि शम्भवे ॥ २.१७॥
उपहासैकसारेऽस्मिन्नेतावति जगत्त्रये ।
तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥ २.१८॥
दक्षिणाचारसाराय वामाचाराभिलाषिणे ।
सर्वाचाराय शर्वाय निराचाराय ते नमः ॥ २.१९॥
यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः ।
योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते ॥ २.२०॥
मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे ।
नमो विततलावण्यवराय वरदाय ते ॥ २.२१॥
सदा निरन्तरानन्दरसनिर्भरिताखिल-
त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥ २.२२॥
सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् ।
त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥ २.२३॥
मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः ।
आलिङ्गन्त्यपि यं तस्मै कस्मै चिद्भवते नमः ॥ २.२४॥
परमामृतकोशाय परमामृतराशये ।
सर्वपारम्यपारम्यप्राप्याय भवते नमः ॥ २.२५॥
महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् ।
अपूर्वमोदसुभगं परामृतरसोल्वणम् ॥ २.२६॥
स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे ।
चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम् ॥ २.२७॥
सर्वाशङ्कासनिं सर्वालक्ष्मीकालानलं तथा ।
सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः ॥ २.२८॥
जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम् ।
जगतां परमेश्वरो भवान् परमेकः शरणागतोऽस्मि ते ॥ २.२९॥
सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः ।
तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे ॥ ३.१॥
आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये ।
स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवानुजीविनः ॥ ३.२॥
अशेषविश्वखचितभवद्वपुरनुस्मृतिः ।
येषां भवरुजामेकं भेषजं ते सुखासिनः ॥ ३.३॥
सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः ।
चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः ॥ ३.४॥
प्रकाशां शीतलामेकां शुद्धां शशिकलामिव ।
दृशं वितर मे नाथ कामप्यमृतवाहिनीम् ॥ ३.५॥
त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः ।
इमाः कथं मे भगवन्नामृतास्वादसुन्दराः ॥ ३.६॥
त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो ।
येषामहृदया एव तेऽवज्ञस्पदमीदृशाः ॥ ३.७॥
प्रभुणा भवता यस्य जातं हृदयमेलनम् ।
प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥ ३.८॥
हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् ।
भवद्ध्यानामृतापूरो निम्नाणिम्नभुवामिव ॥ ३.९॥
केव न स्याद्दृशा तेषां सुखसम्भारनिर्भरा ।
येषामात्माधिकेनेश न क्वापि विरहस्त्वया ॥ ३.१०॥
गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः ।
स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः ॥ ३.११॥
नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् ।
ज्ञानं स्यात्किं तु विश्वैकपूर्णा चित्त्वं विजृम्भते ॥ ३.१२॥
दुर्जयानामनन्तानां दुःखानां सहसैव ते ।
हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः ॥ ३.१३॥
उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः ।
त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः ॥ ३.१४॥
जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो ।
संसारार्णव एवैष येषां क्रीडामहासरः ॥ ३.१५॥
आसतां तावदन्यानि दैन्यानीह भवज्जुषाम् ।
त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते ॥ ३.१६॥
मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः ।
तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित् ॥ ३.१७॥
सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो ।
त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः ॥ ३.१८॥
सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् ।
अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे ॥ ३.१९॥
जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः ।
विभुर्मिते च येनासि तेन सर्वोत्तमो भवान् ॥ ३.२०॥
अलमाक्रन्दितैरन्यैरियदेव पुरः प्रभोः ।
तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि ॥ ३.२१॥
चपलमसि यदपि मानस तत्रापि श्लाघ्यसे यतो भजसे ।
शरणानामपि शरणं त्रिभुवनगुरुमम्बिकाकान्तम् ॥ ४.१॥
उल्लङ्घ्य विविधदैवतसोपानक्रममुपेय शिवचरणान् ।
आश्रित्याप्यधरतरां भूमिं नाद्यापि चित्रमुज्झामि ॥ ४.२॥
प्रकटय निजमध्वानं स्थगयतरामखिललोकचरितानि ।
यावद्भवामि भगवंस्तव सपदि सदोदितो दासः ॥ ४.३॥
शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम् ।
तव चरणकमलयुगलस्मरणपरस्य हि सम्पदोऽदूरे ॥ ४.४॥
तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद्रचयन्ति ।
ते विरिञ्चिमधिकारमलेनालिप्तमस्ववशमीश हसन्ति ॥ ४.५॥
त्वत्प्रकाशवपुषो न विभिन्नं किं चन प्रभवति प्रतिभातुम् ।
तत्सदैव भगवन् परिलब्धोऽसीश्वर प्रकृतितोऽपि विदूरः ॥ ४.६॥
पादपङ्कजरसं तव के चिद्भेदपर्युषितवृत्तिमुपेताः ।
के चनापि रसयन्ति तु सध्यो भातमक्षतवपुर्द्वयशून्यम् ॥ ४.७॥
नाथ विद्युदिव भाति विभाते या कदा चन ममामृतदिग्धा ।
सा यदि स्थिरतरैव भवेत्तत्पूजितोऽसि विधिवत्किमुतान्यत् ॥ ४.८॥
सर्वमस्यपरमस्ति न किं चिद्वस्त्ववस्तु यदि वेति महत्या ।
प्रज्ञाय व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे ॥ ४.९॥
स्वेच्छयैव भगवन्निजमार्गे कारितः पदमहं प्रभुनैव ।
तत्कथं जनवदेव चरामि त्वत्पदोचितमवैमि न किं चित् ॥ ४.१०॥
कोऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः ।
त्वत्कथाम्बुदनिनादचातका येन तेऽपि सुभगीकृताश्चिरम् ॥ ४.११॥
त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषमागतः ।
यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति सङ्गमोत्सवम् ॥ ४.१२॥
यो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः ।
शब्द आविशति तिर्यगाशयेष्वप्ययं नवनवप्रयोजनः ॥ ४.१३॥
ते जयन्ति मुखमण्डले भ्रमनस्ति येषु नियतं शिवध्वनिः ।
यः शाशीव प्रसृतोऽमृताशयात्स्वादु संस्रवति चामृतं परम् ॥ ४.१४॥
परिसमाप्तमिवोग्रमिदं जगद्विगलितोऽविरलो मनसो मलः ।
तदपि नास्ति भवत्पुरार्गलकवाटविघट्टनमण्व पि ॥ ४.१५॥
सततफुल्लभवन्मुखपङ्कजोदरविलोकनलालसचेतसः ।
किमपि तत्कुरु नाथ मनागिव स्फुरसि येन ममाभिमुखस्थितिः ॥ ४.१६॥
त्वदविभेदमतेरपरं नु किं सुखमिहास्ति विभूतिरथापरा ।
तदिह तावकदासजनस्य किं कुपथमेति मनः परिहृत्य ताम् ॥ ४.१७॥
क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम् ।
भवदभेदरसासवमादरादविरतं रसयेयमहं न चेत् ॥ ४.१८॥
न किल पश्यति सत्यमयं जनस्तव वपुर्द्वयदृष्टिमलीमसः ।
तदपि सर्वविदाश्रितवत्सलः किमिदमारटितं न शृणोषि मे ॥ ४.१९॥
स्मरसि नाथ कदाचिदपीहितं विषयसौख्यमथापि मयार्थितम् ।
सततमेव भवद्वपुरीक्षणामृतमभीष्टमलं मम देहि तत् ॥ ४.२०॥
किल यदैव शिवाध्वनि तावके कृतपदोऽस्मि महेश तवेच्छया ।
शुभशतान्युदितानि तदैव मे किमपरं मृगये भवतः प्रभो ॥ ४.२१॥
यत्र सोऽस्तमयमेति विवस्वांश्चन्द्रमः प्रभृतिभिः सह सर्वैः ।
कापि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा ॥ ४.२२॥
अप्युपार्जितमहं त्रिषु लोकेष्वधिपत्यममरेश्वर मन्ये ।
नीरसं तदखिलं भवदङ्घ्रिस्पर्शनामृतरसेन विहीनम् ॥ ४.२३॥
बत नाथ दृढोऽयमात्मबन्धो भवदख्यातिमयस्त्वयैव कॢप्तः ।
यदयं प्रथमानमेव मे त्वामवधीर्य श्लथते न लेशतोऽपि ॥ ४.२४॥
महताममरेश पूज्यमानोऽप्यनिशं तिष्ठसि पूजकैकरूपः ।
बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत् ॥ ४.२५॥
त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् ।
गलेपादिकया नाथ मां स्ववेश्म प्रवेशय ॥ ५.१॥
भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः ।
अपाररभसारब्धनर्तनः स्यामहं कदा ॥ ५.२॥
त्वदेकनाथो भगवन्नियदेवार्थये सदा ।
त्वदन्तर्वसतिर्मूको भवेयं मान्यथा बुधः ॥ ५.३॥
अहो सुधानिधे स्वामिन्नहो मृष्ट त्रिलोचन ।
अहो स्वादो विरूपक्षेत्येव नृत्येयमारटन् ॥ ५.४॥
त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः ।
विजृम्भेयभवद्भक्तिमदिरामदघूर्णितः ॥ ५.५॥
चित्तभूभृद्भुवि विभो वसेयं क्वापि यत्र सा ।
निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा ॥ ५.६॥
यत्र देवीसमेतस्त्वमासौधादा च गोपुरात् ।
बहुरूपः स्थितस्तस्मिन् वास्तव्यः स्यामहं पुरे ॥ ५.७॥
समुल्लसन्तु भगवन् भवद्भानुमरीचयः ।
विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते ॥ ५.८॥
प्रसीद भगवन् येन त्वत्पदे पतितं सदा ।
मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥ ५.९॥
प्रहर्षाद्वाथ शोकाद्वा यदि कुङ्याद्धटादपि ।
बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥ ५.१०॥
बहिरप्यन्तरपि तत्स्यन्दमानं सदास्तु मे ।
भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् ॥ ५.११॥
त्वत्पादसंस्पर्शसुधासरसोऽन्तर्निमज्जनम् ।
कोऽप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा ॥ ५.१२॥
निवेदितमुपादत्स्व रागादि भगवन्मया ।
आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम् ॥ ५.१३॥
अशेषभुवनाहारनित्यतृप्तः सुखासनम् ।
स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥ ५.१४॥
अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः ।
नमो मह्यं शिवायेति पूजयं स्यां तृणान्यपि ॥ ५.१५॥
अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् ।
पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः ॥ ५.१६॥
आकाम्क्षणीयमपरं येन नाथ न विद्यते ।
तव तेनाद्वितीयस्य युक्तं यत्परिपूर्णता ॥ ५.१७॥
हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते ।
पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम् ॥ ५.१८॥
तत्तदपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम् ।
एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः ॥ ५.१९॥
क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् ।
इत्थं विरोधरसिकं बोधय हितममर मे हृदयम् ॥ ५.२०॥
विचरन् योगदशास्वपि विषयव्यावृत्तिवर्तमानोऽपि ।
त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम् ॥ ५.२१॥
वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु ।
सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥ ५.२२॥
शिवशिवशिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन् ।
आस्वादयन् भवेयं कमपि महारसमपुनरुक्तम् ॥ ५.२३॥
स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजडाध्वनि ।
अगणितापरचिन्मयगण्डिके प्रविचरेयमहं भवतोऽर्चिता ॥ ५.२४॥
स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किमप्युपयुज्यते ।
इति मतिः सुदृढा भवतात्परं मम भवच्चरणाब्जरजः शुचेः ॥ ५.२५॥
किमपि नाथ कदाचन चेतसि स्फुरति तद्भवदङ्घ्रितलस्पृशाम् ।
गलति यत्र समस्तमिदं सुधासरसि विश्वमिदं दिश मे सदा ॥ ५.२६॥
क्षणमात्रमपीशान वियुक्तस्य त्वया मम ।
निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥ ६.१॥
वियोगसारे संसारे प्रियेण प्रभुणा त्वया ।
अवियुक्तः सदैव स्यां जगतापि वियोजितः ॥ ६.२॥
कायवाङ्मनसैर्यत्र यामि सर्वं त्वमेव तत् ।
इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥ ६.३॥
निर्विकल्पो महानन्दपूर्णो यद्वद्भवांस्तथा ।
भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम ॥ ६.४॥
भवदावेशतः पश्यन् भावं भावं भवन्मयम् ।
विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥ ६.५॥
भगवन्भवतः पूर्णं पश्येयमखिलं जगत् ।
तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे ॥ ६.६॥
विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव ।
भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः ॥ ६.७॥
स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः ।
सन्ततं भातु मे कोऽपि भवमध्याद्भवन्मणिः ॥ ६.८॥
कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः ।
श्रान्तस्तेनाप्रयासेन सर्वतस्त्वामवाप्नुयाम् ॥ ६.९॥
भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे ।
घटतामियति प्राप्ते किं नाथ न जितं मया ॥ ६.१०॥
प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः ।
कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे ॥ ६.११॥
त्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः ।
परिहरतु सकृदियन्तं भेदाधीनं महानर्थम् ॥ ७.१॥
एतन्मम न त्विदमिति रागद्वेषादिनिगडदृढमूले ।
नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः ॥ ७.२॥
गलतु विकल्पकलङ्कावली समुल्लसतु हृदि निरर्गलता ।
भगवन्नानन्दरसप्लुतास्तु मे चिन्मयी मूर्तिः ॥ ७.३॥
रागादिमयभवाण्डकलुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः ।
आप्याययतु रसैर्मां प्रवृद्धपक्षो यथा भवामि खगः ॥ ७.४॥
त्वच्चरणभावनामृतरससारास्वादनैपुणं लभताम् ।
चित्तमिदं निःशेषितविषयविषासङ्गवासनावधि मे ॥ ७.५॥
त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम् ।
चेतोमणिर्विमूञ्चतुरागादिकतप्तवह्निकणान् ॥ ७.६॥
तस्मिन् पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः ।
हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते ॥ ७.७॥
भक्तिमदजनितविभ्रमवशेन पश्येयमविकलं करणैः ।
शिवमयमखिलं लोकं क्रियाश्च पूजामयी सकलाः ॥ ७.८॥
मामकमनोगृहीतत्वद्भक्तिकुलाङ्गनाणिमादिसुतान् ।
सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम् ॥ ७.९॥
यः प्रसादलव ईश्वरस्थितो या च भक्तिरिव मामुपेयुषी ।
तौ परस्परसमन्वितौ कदा तादृशे वपुषि रूढिमेष्यतः ॥ ८.१॥
त्वत्प्रभुत्वपरिचर्वणजन्मा कोऽप्युदेतु परितोषरसोऽन्तः ।
सर्वकालमिह मे परमस्तु ज्ञानयोगमहिमादि विदूरे ॥ ८.२॥
लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः ।
केवलं तव शरीरतयैतान्+ लोकयेयमहमस्तविकल्पः ॥ ८.३॥
देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदमुपेते ।
संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः ॥ ८.४॥
निजनिजेषु पदेषु पतन्त्विमाः करणवृत्तय उल्लसिता मम ।
क्षणमपीश मनागपि मैव भूत्त्वदविभेदरसक्षतिसाहसम् ॥ ८.५॥
लघुमसृणसिताच्छशीतलं भवदावेशवशेन भावयन् ।
वपुरखिलपदार्थपद्धतेर्व्यवहारानतिवर्तयेय तान् ॥ ८.६॥
विकसतु स्ववपुर्भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम् ।
व्रजतु सर्वमिदं द्वयवल्गितं स्मृतिपथोपगमेऽप्यनुपाख्यताम् ॥ ८.७॥
समुदियादपि तादृशतावकानन विलोक परामृतसम्प्लवः ।
मम घटेत यथा भवदद्वयाप्रथनघोरदरीपरिपूरणम् ॥ ८.८॥
अपि कदाचन तावकसङ्गमामृतकणाच्छुरणेन तनीयसा ।
सकललोकसुखेषु पराङ्मुखो न भवितास्म्युभयच्युत एव किम् ॥ ८.९॥
सततमेव भवच्चरणाम्बुजाकरचरस्य हि हंसवरस्य मे ।
उपरि मूलतलादपि चान्तरादुपनमत्वज भक्तिमृणालिका ॥ ८.१०॥
उपयान्तु विभो समस्तवस्तून्यपि चिन्ताविषयं दृशः पदं च ।
मम दर्शनचिन्तनप्रकाशामृतसाराणि परं परिस्फुरन्तु ॥ ८.११॥
परमेश्वर तेषु तेषु कृच्छ्रेष्वपि नामोपनमत्स्वहं भवेयम् ।
न परं गतभीस्त्वदङ्गसङ्गादुपजाताधिकसम्मदोऽपि यावत् ॥ ८.१२॥
भवदात्मनि विश्वमुम्भितं यद्भवतैवापि बहिः प्रकाश्यते तत् ।
इति यद्दृढनिश्चयोपजुष्टं तदिदानिं स्फुटमेव भासताम् ॥ ८.१३॥
कदा नवरसार्द्रार्द्रसम्भोगास्वादनोत्सुकम् ।
प्रवर्तेत विहायान्यन्मम त्वत्स्पर्शने मनः ॥ ९.१॥
त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः ।
कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः ॥ ९.२॥
गाढानुरागवशतो निरपेक्षीभूतमानसोऽस्मि कदा ।
पटपटिति विघटिताखिलमहार्गलस्त्वामुपैष्यामि ॥ ९.३॥
स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः ।
कदा नाथ वशीकुर्यां भवद्भक्तिप्रभावतः ॥ ९.४॥
कदा मे स्याद्विभो भूरि भक्त्यानन्दरसोत्सवः ।
यदालोकसुखानन्दी पृथङ्नामापि लप्स्यते ॥ ९.५॥
ईश्वरमभयमुदारं पूर्णमकारणमपह्नुतात्मानम् ।
सहसाभिज्ञाय कदा स्वामिजनं लज्जयिष्यामि ॥ ९.६॥
कदा कामपि तां नाथ तव वल्लभतामियाम् ।
यया मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम् ॥ ९.७॥
तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम् ।
दृष्ट्यानुमोदितरसाप्लावितः स्यां कदा विभो ॥ ९.८॥
ज्ञानस्य परमा भूमिर्योगस्य परमा दशा ।
त्वद्भक्तिर्या विभो कर्हि पूर्ण मे स्यात्तदर्थिता ॥ ९.९॥
सहसैवसाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम् ।
त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्यामि ॥ ९.१०॥
परितः प्रसरच्छुद्धत्वदालोकमयः कदा ।
स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत् ॥ ९.११॥
आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः ।
कदा भवेयं भगवंस्त्वद्भक्तगणनायकः ॥ ९.१२॥
नाथ लोकाभिमानानामपूर्वं त्वं निबन्धनम् ।
महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः ॥ ९.१३॥
अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः ।
शयीयमिव शीताङ्घ्रिकुशेशययुगे कदा ॥ ९.१४॥
भक्त्यासवसमृद्धायास्त्वत्पूजाभोगसम्पदः ।
कदा पारं गमिष्यामि भविष्यामि कदा कृती ॥ ९.१५॥
आनन्दबाष्पपूरस्खलितपरिभ्रान्तगद्गदाक्रन्दः ।
हासोल्लासितवदनस्त्वत्स्पर्शरसं कदाप्स्यामि ॥ ९.१६॥
पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो ।
आस्वादयेय तावकभक्तोचितमात्मनो रूपम् ॥ ९.१७॥
लब्धाणिमादिसिद्धिर्विगलितसकलोपतापसन्त्रासः ।
त्वद्भक्तिरसायनपानक्रिढानिष्टः कदासीय ॥ ९.१८॥
नाथ कदा स तथाविध आक्रन्दो मे समुच्चरेद्वाचि ।
यत्समनन्तरमेव स्फुरति पुरस्तावकी मूर्तिः ॥ ९.१९॥
गाढगाढभवदङ्घ्रिसरोजालिङ्गनव्यसनतत्परचेताः ।
वस्त्ववस्त्विदमयत्नत एव त्वां कदा समवलोकयितास्मि ॥ ९.२०॥
न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् ।
माहेश्वराश्च लोकानामितरेषां समाश्च यत् ॥ १०.१॥
ये सदैवानुरागेण भवत्पादानुगामिनः ।
यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते ॥ १०.२॥
भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः ।
तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी ॥ १०.३॥
क्षनमात्रसुखेनापि विभुर्येनासि लभ्यसे ।
तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते ॥ १०.४॥
आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि ।
सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः ॥ १०.५॥
बलिं यामस्तृतीयाय नेत्रायास्मै तव प्रभो ।
अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे ॥ १०.६॥
तेनैव दृष्टोऽसि भवद्दर्शनाद्योऽतिहृष्यति ।
कथञ्चिद्यस्य वा हर्षः कोऽपि तेन त्वमीक्षितः ॥ १०.७॥
येषां प्रसन्नोऽसि विभो यैर्लब्धं हृदयं तव ।
आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम् ॥ १०.८॥
त्वदृते निखिलं विश्वं समदृग्यातमीक्ष्यताम् ।
ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥ १०.९॥
आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत् ।
त्वद्दूषणकथा येषां त्वदृते नोपपद्यते ॥ १०.१०॥
बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः ।
त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥ १०.११॥
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः ।
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः ॥ १०.१२॥
अपीत्वापि भवद्भक्तिसुधामनवलोक्य च ।
त्वामीश त्वत्समाचारमात्रात्सिद्ध्यन्ति जन्तवः ॥ १०.१३॥
भृत्या वयं तव विभो तेन त्रिजगतां यथा ।
बिभर्ष्यात्मानमेवं ते भर्त्तव्या वयमप्यलम् ॥ १०.१४॥
परानन्दामृतमये दृष्टोऽपि जगदात्मनि ।
त्वयि स्पर्शरसेऽत्यन्ततरसुत्कण्ठितो(?)ऽस्मि ते ॥ १०.१५॥
देव दुःखान्यशेषाणि यानि संसारिणामपि ।
घृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम् ॥ १०.१६॥
सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये ।
सर्वथाप्यसतो नाथ युक्तास्य जगतः प्रथा ॥ १०.१७॥
त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि ।
नृत्यन्ति पवनोद्धूताः कार्पासाः पिचवो यथा ॥ १०.१८॥
यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः ।
केन हीयेत जगतस्त्वदेकात्मतया प्रथा ॥ १०.१९॥
वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि ।
त्वत्कोपपावकस्पर्शपूता ये परमेश्वर ॥ १०.२०॥
महाप्रकाशवपुषि विस्पष्टे भवति स्थिते ।
सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम् ॥ १०.२१॥
अविभागो भवानेव स्वरूपममृतं मम ।
तथापि मर्त्यधर्माणामहमेवैकमास्पदम् ॥ १०.२२॥
महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम् ।
प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः ॥ १०.२३॥
सदसच्च भवानेव येन तेनाप्रयासतः ।
स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे ॥ १०.२४॥
शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम् ।
तर्प्योऽस्मि देवमुख्यानामपि येनामृतासवैः ॥ १०.२५॥
हृन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः ।
ग्रससे त्वं महावह्निः सर्वं स्थावरजङ्गमम् ॥ १०.२६॥
जगदिदमथवा सुहृदो बन्धुजनो वा न भवति मम किमपि ।
त्वं पुनरेतत्सर्वं यदा तदा कोऽपरो मेऽस्तु ॥ ११.१॥
स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्त्वमेवेति ।
वस्त्वेव सिद्धिमेत्विति याच्ञा तत्रापि याच्ञैव ॥ ११.२॥
त्रिभुवनाधिपतित्वमपीह यत्तृणमिव प्रतिभाति भवज्जुषः ।
किमिव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणादृते ॥ ११.३॥
येन नैव भवतोऽस्ति विभिन्नं किञ्चनापि जगतां प्रभवश्च ।
त्वद्विजृम्भितमतोऽद्भुतकर्मस्वप्युदेति न तव स्तुतिबन्धः ॥ ११.४॥
त्वन्मयोऽस्मि भवदर्चननिष्ठः सर्वदाहमिति चाप्यविरामम् ।
भावयन्नपि विभो स्वरसेन स्वप्नगोऽपि न तथा किमिव स्याम् ॥ ११.५॥
ये मनागपि भवच्चरणाब्जोद्भूतसौरभलवेन विमृष्टः ।
तेषु विस्रमिव भवति समस्तं भोगजातममरैरपि मृग्यम् ॥ ११.६॥
हृदि ते न तु विद्यतेऽन्यदन्यद्वचने कर्मणि चान्यदेव शम्भो ।
परमार्थसतोऽप्यनुग्रहो वा यदि वा निग्रह एक एव कार्यः ॥ ११.७॥
मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोषभीतोऽस्मि
शक्तिरहितोऽस्मि तवाश्रितोऽस्मि
शम्भो तथा कलय शीघ्रमुपैमि येन ।
सर्वोत्तमां धुरमपोज्झितदुःखमार्गः ॥ ११.८॥
त्वत्कर्णदेशम धिशय्य महार्घभावमाक्रन्दितानि मम तुच्छतराणि यान्ति ।
वंशान्तरालपतितानि जलैकदेशखण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥ ११.९॥
किमिव च लभ्यते बत न तैरपि नाथ जनैः
क्षणमपि कैतवादपि च ये तव नाम्नि रताः
शिशिरमयूखशेखर तथा कुरु येन मम ।
क्षतमरणोऽणिमादिकमुपैमि यथा विभवम् ॥ ११.१०॥
शम्भो शर्व शशङ्कशेखर शिव त्र्यक्षाक्षमालाधर
श्रीमन्नुग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध
कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक श्रीकण्ठाशु ।
विनाशयाशुभभरानाधत्स्वसिद्धिं पराम् ॥ ११.११॥
तत्किं नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते
भावः स्यात्किमु तस्य चेतनवतो नाशास्ति यं शङ्करः
इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः ।
संसारेऽत्र निरन्तराधिविधुरः क्लिश्याम्यहं केवलम् ॥ ११.१२॥
यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यव
एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः
तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे ।
भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्र्य जीवातवे ॥ ११.१३॥
हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे
दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम्
तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमा ।
जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः ॥ ११.१४॥
नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे ।
सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे ॥ ११.१५॥
सहकारि न किञ्चिदिष्यते भवतो न प्रतिबन्धकं दृषि ।
भवतैव हि सर्वमाप्लुतं कथमद्यापि तथापि नेक्षसे ॥ १२.१॥
अपि भावगणादपीन्द्रियप्रचयादप्यवबोधमध्यतः ।
प्रभवन्तमपि स्वतः सदा परिपश्येयमपोढविश्वकम् ॥ १२.२॥
कथं ते जायेरन् कथमपि च ते दर्शनपथं
व्रजेयुः केनापि प्रकृतिमहताङ्केन खचितः
तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः ।
पदार्थद्यान्सृष्टिस्रवदमृतपूरैर्(?) विकिरसि ॥ १२.३॥
साक्षत्कृत भवद्रूपप्रसृतामृततर्पिताः ।
उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥ १२.४॥
न तदा न सदा न चैकदेत्यपि सा यत्र न कालधीर्भवेत् ।
तदिदं भवदीयदर्शनं न च नित्यं न च कथ्यतेऽन्यथा ॥ १२.५॥
त्वद्विलोकनसमुत्कचेतसो योगसिद्धिरियती सदास्तु मे ।
यद्विशेयमभिसन्धिमात्रतस्त्वत्सुधासदनमर्चनाय ते ॥ १२.६॥
निर्विकल्पभवदीयदर्शनप्रप्तिफुल्लमनसां महात्मनाम् ।
उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम् ॥ १२.७॥
भवन्भवदीयपादयोर्निवसन्नन्तर एव निर्भयः ।
भवभूमिषु तासु तास्वहं प्रभुमर्चेयमनर्गलक्रियः ॥ १२.८॥
भवदङ्घ्रिसरोरुहोदरे परिलीनो गलितपरैषणः ।
अतिमात्रमधूपयोगतः परितृप्तो विचरेयमिच्छया ॥ १२.९॥
यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः ।
तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥ १२.१०॥
भगवन्नितरानपेक्षिणा नितरामेकरसेन चेतसा ।
सुलभं सकलोपशायिनं प्रभुमातृप्ति पिबेयमस्मि किम् ॥ १२.११॥
त्वया निराकृतं सर्वं हेयमेतत्तदेव तु ।
त्वन्मयं समुपादेयमित्ययं सारसङ्ग्रहः ॥ १२.१२॥
भवतोऽन्तरचारि भावजातं प्रभुवन्मुख्यतयैव पूजितं तत् ।
भवतो बहिरप्यभावमात्रा कथमीशान् भवेत्समर्च्यते वा ॥ १२.१३॥
निःशब्दं निर्विकल्पं च निर्व्याक्षेपमथानिशम् ।
क्षोभेऽप्यध्यक्षमी क्षेयं त्र्यक्ष त्वामेव सर्वतः ॥ १२.१४॥
प्रकटय निजधाम देव यस्मिंस्त्वमसि सदा परमेश्वरीसमेतः ।
प्रभुचरणरजःसमानकक्ष्याः किमविश्वासपदं भान्ति भृत्याः ॥ १२.१५॥
दर्शनपथमुपयातोऽप्यपसरसि कुतो ममेश भृत्यस्य ।
क्षणमात्रकमिह न भवसि कस्य न जन्तोर्दृशोर्विषयः ॥ १२.१६॥
ऐक्यसंविदमृताच्छधारया सन्ततप्रसृतया कदा विभो ।
प्लावनात्परमभेदमानयंस्त्वां निजं च वपुराप्नुयां मुदम् ॥ १२.१७॥
अहमित्यमुतोऽवरुद्धलोकाद्भवदीयात्प्रतिपत्तिसारतो मे ।
अणुमात्रकमेव विश्वनिष्ठं घटतां येन भवेयमर्चिता ते ॥ १२.१८॥
अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन् ।
त्वामेव विश्वरूपं निजनाथं साधु पश्येयम् ॥ १२.१९॥
भवदङ्गगतं तमेव कस्मान्न मनः पर्यटतीष्टमर्थमर्थम् ।
प्रकृतिक्षतिरस्ति नो तथास्य मम चेच्छा परिपूर्यते परैव ॥ १२.२०॥
शतशः किल ते तवानुभावाद्भगवन् केऽप्यमुनैव चक्षुषा ये ।
अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाग्रे ॥ १२.२१॥
न सा मतिरुदेति या न भवति त्वदिच्छामयी सदा
शुभमथेतरद्भगवतैवमाचर्यते अतोऽस्मि भवदात्मको भुवि यथा ।
तथा सञ्चरन् स्थि तोऽनिशमबाधितत्वदमलङ्घ्रिपूजोत्सवः ॥ १२.२२॥
भवदीयगभीरभाषितेषु प्रतिभा सम्यगुदेतु मे पुरोऽतः ।
तदनुष्ठितशक्तिरप्यतस्तद्भवदर्चाव्यसनं च निर्विरामम् ॥ १२.२३॥
व्यवहारपदेऽपि सर्वदा प्रतिभात्वर्थकलाप एष माम् ।
भवतोऽवयवो यथा न तु स्वत एवादरणीयतां गतः ॥ १२.२४॥
मनसि स्वरसेन यत्र तत्र प्रचरत्यप्यहमस्य गोचरेषु ।
प्रसृतोऽप्यविलोल एव युष्मत्परिचर्याचतुरः सदा भवेयम् ॥ १२.२५॥
भगवन् भवदिच्छयैव दासस्तव जातोऽस्मि परस्य नात्र शक्तिः ।
कथमेष तथापि वक्त्रबिम्बं तव पश्यामि न जातु चित्रमेतत् ॥ १२.२६॥
समुत्सुकास्त्वां प्रति ये भवन्तं प्रत्यर्थरूपादवलोकयन्ति ।
तेषामहो किं तदुपस्थितं स्यात्किं साधनं वा फलितं भवेत्तत् ॥ १२.२७॥
भावा भावतया सन्तु भवद्भावेन मे भव ।
तथा न किञ्चिदप्यस्तु न किञ्चिद्भवतोऽन्यथा ॥ १२.२८॥
यन्न किञ्चिदपि तन्न किञ्चिदप्यस्तु किञ्चिदपि किञ्चिदेव मे ।
सर्वथा भवतु तावता भवान् सर्वतो भवति लब्धपूजितः ॥ १२.२९॥
सङ्ग्रहेन सुखदुःखलक्षणं मां प्रति स्थितमिदं शृणु प्रभो ।
सौख्यमेष भवता समागमः स्वामिना विरह एव दुःखिता ॥ १३.१॥
अन्तरप्यतितरामणीयसी या त्वदप्रथनकालिकास्ति मे ।
तामपीश परिमृज्य सर्वतः स्वं स्वरूपममलं प्रकाशय ॥ १३.२॥
तावके वपुषि विश्वनिर्भरे चित्सुधारसमये निरत्यये ।
तिष्ठतः सततमर्चतः प्रभुं जीवितं मृतमथान्यदस्तु मे ॥ १३.३॥
ईश्वरोऽहमहमेव रूपवान् पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः ।
मत्समोऽस्ति जगतीति शोभते मानिता त्वदनुरागिणः परम् ॥ १३.४॥
देवदेव भवदद्वयामृताख्यातिसंहरणलब्धजन्मना ।
तद्यथास्थितपदार्थसंविदा मां कुरुष्व चरणार्चनोचितम् ॥ १३.५॥
ध्यायते तदनु दृश्यते ततः स्पृश्यते च परमेश्वरः स्वयम् ।
यत्र पूजनमहोत्सवः स मे सर्वदास्तु भवतोऽनुभावतः ॥ १३.६॥
यद्यथास्थितपदार्थदर्शनं युष्मदर्चनमहोत्सवश्च यः ।
युग्ममेतदितरेतराश्रयं भक्तिशालिषु सदा विजृम्भते ॥ १३.७॥
तत्तदिन्द्रियमुखेन सन्ततं युष्मदर्चनरसायनासवम् ।
सर्वभावचषकेषु पूरितेष्वापिबन्नपि भवेयमुन्मदः ॥ १३.८॥
अन्यवेद्यमणुमात्रमस्ति न स्वप्रकाशमखिलं विजृम्भते ।
यत्र नाथ भवतः पुरे स्थितं तत्र मे कुरु सदा तवार्चितुः ॥ १३.९॥
दासधाम्नि विनियोजितोऽप्यहं स्वेच्छयैव परमेश्वर त्वया ।
दर्शनेन न किमस्मि पात्रितः पादसंवहनकर्मणापि वा ॥ १३.१०॥
शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् ।
अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे ॥ १३.११॥
तत्र तत्र विषये बहिर्विभात्यन्तरे च परमेश्वरीयुतम् ।
त्वां जगत्त्रितयनिर्भरं सदा लोकयेय निजपाणिपूजितम् ॥ १३.१२॥
स्वामिसौधमभिसन्धिमात्रतो निर्विबन्धमधिरुह्य सर्वदा ।
स्यां प्रसाद परमामृतासवापानकेलिपरिलब्धनिर्वृतिः ॥ १३.१३॥
यत्समस्तसुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम् ।
तां समर्पयति तेन ते वपुः पूजयन्त्यचलभक्तिशालिनः ॥ १३.१४॥
स्फारयस्यखिलमात्मना स्फुरन् विश्वमामृशसि रूपमामृशन् ।
यत्स्वयं निजरसेन घुर्णसे तत्समुल्लसति भावमण्डलम् ॥ १३.१५॥
योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः ।
स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥ १३.१६॥
कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि रोचते न मे ॥ १३.१७॥
त्वत्प्रलापमयरक्तगीतिकानि त्य युक्तवदनोपशोभितः ।
स्यामथापि भवदर्चनक्रियाप्रेयसीपरिगताशयः सदा ॥ १३.१८॥
ईहितं न बत पारमेश्वरं शक्यते गणयितुं तथा च मे ।
दत्तमप्यमृतनिर्भरं वपुः स्वं न पातुमनुमन्यते तथा ॥ १३.१९॥
त्वामगाधमविकल्पमद्वयं स्वं स्वरूपमखिलार्थघस्मरम् ।
आविशन्नहमुमेश सर्वदा पूजयेयमभिसंस्तुवीय च ॥ १३.२०॥
जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः ।
जयोद्घोषणपीयूषरसमास्वादये क्षणम् ॥ १४.१॥
जयैकरुद्रैकशिव महादेव महेश्वर ।
पार्वतीप्रणयिञ्शर्व सर्वगीर्वाणपूर्वज ॥ १४.२॥
जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन ।
जय पीतर्तलोकार्तिकालकूटाङ्ककन्धर ॥ १४.३॥
जय मूर्तत्रिशक्त्यात्मिशतशूलोल्लसत्कर ।
जयेच्छामात्रसिद्दार्थपूजार्हचरणाम्बुज ॥ १४.४॥
जय शोभशतस्यन्दिलोकोत्तरवपुर्धर ।
जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक ॥ १४.५॥
जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन ।
जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन ॥ १४.६॥
जयाक्षयैकशीतांशुकलासदृशसंश्रय ।
जय गङ्गासदार्ब्धविश्वैश्वर्याभिषेचन ॥ १४.७॥
जयाधराङ्गसंस्पर्शपावनीकृतगोकुल ।
जय भक्तिमदाबद्धगोष्ठीनियतसन्निधे ॥ १४.८॥
जय स्वेच्छातपोदेशविप्रलम्भितबालिश ।
जय गौरीपरिष्वङ्गयोग्यसौभाग्यभाजन ॥ १४.९॥
जय भक्तिरसार्द्रार्द्रभावोपायनलम्पट ।
जय भक्तिमदोद्दामभक्तवाङ्नृत्ततोषित ॥ १४.१०॥
जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय ।
जयलोकेश्वरश्रेणिशिरोविधृतशासन ॥ १४.११॥
जयसर्वजगन्न्यस्तस्वमुद्राव्यक्तवैभव ।
जयात्मदानपर्यन्तविश्वेश्वरमहेश्वर ॥ १४.१२॥
जय त्रैलोक्यसर्गेच्छावसरासद्वितीयक ।
जयैश्वर्यभरोद्वाहदेवीमात्रसहायक ॥ १४.१३॥
जयाक्रमसमाक्रान्तसमस्तभुवनत्रय ।
जयाविगीतमाबालगीयमानेश्वरध्वने ॥ १४.१४॥
जयानुकम्पादिगुणानपेक्षसहजोन्नते ।
जय भीष्ममहामृत्युघटनापूर्वभैरव ॥ १४.१५॥
जय विश्वक्षयोच्चण्डक्रियानिष्परिपन्थिक ।
जय श्रेयःशतगुणानुगनामानुकीर्तन ॥ १४.१६॥
जय हेलावितीर्नैतदमृताकरसागर ।
जय विश्वक्षयक्षेपिक्षणकोपाशुशुक्षणे ॥ १४.१७॥
जय मोहान्धकारान्धजीवलोकैकदीपक ।
जय प्रसुप्तजगतीजागरूकाधिपूरुष ॥ १४.१८॥
जय देहाद्रिकुञ्जान्तर्निकूजञ्जीवजीवक ।
जय सन्मानसव्योमविलासिवरसारस ॥ १४.१९॥
जय जाम्बूनदोदग्रधातूद्भवगिरीश्वर ।
जय पापिषु निन्दोल्कापातनोत्पातचन्द्रमः ॥ १४.२०॥
जय कष्टतपःक्लिष्टमुनिदेवदुरासद ।
जय सर्वदशारूढभक्तिमल्लोकलोकित ॥ १४.२१॥
जय स्वसम्पत्प्रसरपत्रीकृतनिजाश्रित ।
जय प्रपन्नजनतालालनैकप्रयोजन ॥ १४.२२॥
जय सर्गस्थितिध्वंसकारणैकावदानक ।
जय भक्तिमदालोललीलोत्पलमगोत्सव ॥ १४.२३॥
जय जयभाजन जय जितजन्मजरामरण जय जगज्ज्येष्ठ
जय जय जय जय जय जय जय जय जय ।
जय जय जय जय त्र्यक्ष ॥ १४.२४॥
त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा ।
योगिनः पण्डिताः स्वस्थास्त्वद्भक्ता एव तत्त्वतः ॥ १५.१॥
मायीयकालनियतिरागाद्याहारतर्पिताः ।
चरन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे ॥ १५.२॥
रुदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी ।
भक्ताः स्तुतिपदोच्चारोपचाराः पृथगेव ते ॥ १५.३॥
न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः ।
भवेयमपि तूद्रिक्तभक्त्यासवरसोन्मदः ॥ १५.४॥
बाह्यं हृदय एवान्तरभिहृत्यैव योऽर्चति ।
त्वामीश भक्तिपीयूषरसपूरैर्नमामि तम् ॥ १५.५॥
धर्माधर्मात्मनोरन्तः क्रिययोर्ज्ञानयोस्तथा ।
सुखदुःखात्मनोर्भक्ताः किमप्यास्वादयन्त्यहो ॥ १५.६॥
चराचरपितः स्वामिनप्यन्धा अपि कुष्ठिनः ।
शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः ॥ १५.७॥
शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो ।
भवद्भक्तिमहोष्मणो राजराजमपीशते ॥ १५.८॥
सुधार्द्रायां भवद्भक्तौ लुठताप्यारुरुक्षुणा ।
चेतसैव विभोऽर्चन्ति केचित्त्वामभितः स्थिताः ॥ १५.९॥
रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो ।
संसारदुर्गतिहरं भवद्भक्तिमहाधनम् ॥ १५.१०॥
नाथ ते भक्तजनता यद्यपि त्वयि रागिणी ।
तथापीर्ष्यां विहायास्यास्तुष्टास्तु स्वामिनी सदा ॥ १५.११॥
भवद्भावः पुरो भावी प्राप्ते त्वद्भक्तिसम्भवे ।
लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता ॥ १५.१२॥
किमियं न सिद्धिरतुला किं वा मुख्यं न सौख्यमास्रवति ।
भक्तिरुपचीयमाना येयं शम्भोः सदातनी भवति ॥ १५.१३॥
मनसि मलिने मदीयेमग्ना त्वद्भक्तिमणिलता कष्टम् ।
न निजानपि तनुते तानपौरुषेयान् स्वसम्पदुल्लासान् ॥ १५.१४॥
भक्तिर्भगवति भवति त्रिलोकनाथे ननूत्तमा सिद्धिः ।
किं त्वणिमादिकविरहात्सैव न पूर्णेति चिन्ता मे ॥ १५.१५॥
बाह्यतोऽन्तरपि चोत्कटोन्मिषत्त्र्यम्बकस्तवकसौरभाः शुभाः ।
वासयन्त्यपि विरुद्धवासनान् योगिनो निकटवासिनोऽखिलान् ॥ १५.१६॥
ज्योतिरस्ति कथयापि न किं चिद्विश्वमप्यतिसुषुप्तमशेषम् ।
यत्र नाथ शिवरात्रिपदेऽस्मिन्नित्यमर्चयति भक्तजनस्त्वाम् ॥ १५.१७॥
सत्त्वं सत्यगुणे शिवे भगवति स्फारीभवत्वर्चने
चूडायां विलसन्तु शङ्करपदप्रोद्यद्रजःसङ्चयाः
रागादिस्मृतिवासनामपि समुच्छेत्तुं तमो जृम्भताम् ।
शम्भो मे भवतात्त्वदात्मविलये त्रैगुण्यवर्गोऽथवा ॥ १५.१८॥
संसाराध्वा सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः
भोगा नैवोपभुक्ता यदपि सुखमभूज्जातु नन्नो चिराय
इत्थं व्यर्थोऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्ग-
स्त्वद्भक्तश्चेति तन्मे कुरु सपदि महासम्पदो दीर्घदीर्घाः ॥ १५.१९॥
न किञ्चिदेव लोकानां भवदावरणं प्रति वर्यत्किं चिदेव
भूतानांएं चित्णरेस्वरपरीक्सा ।
न किञ्चिदेव भक्तानां भवदावरणं प्रति ॥ १६.१॥
अप्युपायक्रमप्राप्यः सङ्कुलोऽपि विशेषणैः ।
भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासते ॥ १६.२॥
जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च ।
भवद्भक्तिसुधापानमत्ताः केऽप्येव ये प्रभो ॥ १६.३॥
शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु ।
स्वादिष्ठपरकाष्टाप्तत्वद्भक्तिरसनिर्भरः ॥ १६.४॥
यथैवज्ञातपूर्वोऽयं भवद्भक्तिरसो मम ।
घटितस्तद्वदीशान स एव परिपुष्यतु ॥ १६.५॥
सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे ।
केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु मे सदा ॥ १६.६॥
भक्तिक्षीवोऽपि कुप्येयं भवायानुशयीय च ।
तथा हसेयमुद्यां च रटेयं च शिवेत्यलम् ॥ १६.७॥
विषमस्थोऽपि स्वस्थोऽपि रुदन्नपि हसन्नपि ।
गम्भीरोऽपि विचित्तोऽपि भवेयं भक्तितः प्रभो ॥ १६.८॥
भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः ।
चिद्धर्मा यत्र न भवान्निर्विकल्पः स्थितः स्वयम् ॥ १६.९॥
भक्ता निन्दानुकरेऽपि तवामृतकणैरिव ।
हृष्यन्त्येवान्तराविद्धास्तीक्ष्णरोमाञ्चसूचिभिः ॥ १६.१०॥
दुःखापि वेदना भक्तिमतां भोगाय कल्पते ।
येषां सुधार्द्रा सर्वैव संवित्त्वच्चन्द्रिकामयी ॥ १६.११॥
यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे ।
निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम् ॥ १६.१२॥
तवेश भक्तेरर्चायां दैन्यांशं द्वयसंश्रयम् ।
विलुप्यास्वादयन्त्येके वपुरच्छं सुधामयम् ॥ १६.१३॥
भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तेरेव हि भिन्नता ।
निष्प्रतिद्वन्द्वि वस्त्वेकं भक्तानां त्वं तु राजसे ॥ १६.१४॥
मानावमानरागादिनिष्पाकविमलं मनः ।
यस्यासौ भक्तिमांल्लोकतुल्यशीलः कथं भवेत् ॥ १६.१५॥
रागद्वेषन्धकारोऽपि येषां भक्तित्विषा जितः ।
तेषां महीयसामग्रे कतमे ज्ञानशालिनः ॥ १६.१६॥
यस्य भक्तिसुधास्नानपानादिविधिसाधनम् ।
तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका ॥ १६.१७॥
कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत् ।
भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी ॥ १६.१८॥
मुक्तिसंज्ञा विपक्वाया भक्तेरेव त्वयि प्रभो ।
तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः ॥ १६.१९॥
दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः ।
त्वत्पराची विभो मा भूदपि सौख्यपरम्परा ॥ १६.२०॥
त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत् ।
तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत् ॥ १६.२१॥
साकारो वा निराकरो वान्तर्वा बहिरेव वा ।
भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः ॥ १६.२२॥
अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति ।
हर्षप्रकाशनफलमन्यदेव जगत्स्थितम् ॥ १६.२३॥
गुह्ये भक्तिः परे भक्तिर्भक्तिर्विश्वमहेश्वरे ।
त्वयि शम्भौ शिवे देव भक्तिर्नाम किमप्यहो ॥ १६.२४॥
भक्तिर्भक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा ।
तारं विरौमि यत्तीव्रा भक्तिर्मेऽस्तु परं त्वयि ॥ १६.२५॥
यतोऽस्मि सर्वशोभानां प्रसवावनिरीश तत् ।
त्वयि लग्नमनर्घं स्याद्रत्नं वा यदि वा तृणम् ॥ १६.२६॥
आवेदकादा च वेद्याद्येषां संवेदनाध्वनि ।
भवता न वियोगोऽस्ति ते जयन्ति भवज्जुषः ॥ १६.२७॥
संसारसदसो बाह्ये कैश्चित्त्वं परिरभ्यसे ।
स्वामिन् परैस्तु तत्रैव ताम्यद्भिस्त्यक्तयन्त्रणैः ॥ १६.२८॥
पानाशनप्रसाधनसम्भुक्तसमस्तविश्वया शिवया ।
प्रलयोत्सवसरभसया दृढमुपगूढं शिवं वन्दे ॥ १६.२९॥
परमेश्वरता जयत्यपूर्वा तव विश्वेश यदीशितव्यशून्या ।
अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ॥ १६.३०॥
अहो कोऽपि जयत्येष स्वादुः पूजामहोत्सवः ।
यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम् ॥ १७.१॥
व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः ।
भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥ १७.२॥
सर्वदा सर्वभावेषु युगपत्सर्वरूपिणम् ।
त्वामर्चयन्त्यविश्रन्तं ये ममैतेऽधिदेवताः ॥ १७.३॥
ध्यानायसतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः ।
पूजाविधिरिति ख्यातो भक्तानां स सदास्तु मे ॥ १७.४॥
भक्तानां समतासारविषुवत्समयः सदा ।
त्वद्भावरसपीयूषरसेन्नैषां सदार्चनम् ॥ १७.५॥
यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो ।
पूजात्मासौ क्रिया तस्याः कर्तारस्त्वज्जुषः परम् ॥ १७.६॥
ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः ।
येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः ॥ १७.७॥
जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् ।
भक्तानां भवदभ्यर्चामहो यावद्यदा तदा ॥ १७.८॥
भवत्पूजासुधास्वादसम्भोगसुखिनः सदा ।
इन्द्रादीनामथ ब्रह्ममुख्यानामस्ति कः समः ॥ १७.९॥
जगत्क्षोभैकजनके भवत्पूजामहोत्सवे ।
यत्प्राप्यं प्राप्यते किञ्चिद्भक्ता एव विदन्ति तत् ॥ १७.१०॥
त्वद्धाम्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः ।
कायवाक्चित्तचेष्टाद्यैरर्चये त्वां सदा विभो ॥ १७.११॥
भवत्पूजामयासङ्गसम्भोगसुखिनो मम ।
प्रयातु कालः सकलोऽप्यनन्तोऽपीयदर्थये ॥ १७.१२॥
भवत्पूजामृतरसाभोगलम्पटत विभो ।
विवर्धतामनुदिनं सदा च फलतां मम ॥ १७.१३॥
जगद्विलयसञ्जातसुधैकरसनिर्भरे ।
त्वदब्धौ त्वां महात्मानमर्चन्नासीय सर्वदा ॥ १७.१४॥
अशेषवासनाग्रन्थिविच्छेदसरलं सदा ।
मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव ॥ १७.१५॥
अधिष्ठायैव विषयानिमाः करणवृत्तयः ।
भक्तानां प्रेषयन्ति स्वत्पूजार्थममृतासवम् ॥ १७.१६॥
भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् ।
कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतमज्जनात् ॥ १७.१७॥
सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः ।
त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्पताम् ॥ १७.१८॥
अनुभूयासमीशान प्रतिकर्म क्षणात्क्षणम् ।
भवत्पूजामृतापानमदास्वादमहामुदम् ॥ १७.१९॥
दृष्टर्थ एव भक्तानां भवत्पूजामहोद्यमः ।
तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते ॥ १७.२०॥
यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः ।
तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः ॥ १७.२१॥
भक्तानां विषयन्वेषाभासायासाद्विनैव सा ।
अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते ॥ १७.२२॥
न प्राप्यमस्ति भक्तनां नाप्येषामस्ति दुर्लभम् ।
केवलं विचरन्त्येते भवत्पूजामदोन्मदाः ॥ १७.२३॥
अहो भक्तिभरोदारचेतसां वरद त्वयि ।
स्लाघ्यः पूजाविधिः कोऽपि यो न याच्ञाकलङ्कितः ॥ १७.२४॥
का न शोभा न को ह्लादः का समृद्धिर्न वापरा ।
को वा न मोक्षः कोऽप्येष महादेवो यदर्च्यते ॥ १७.२५॥
अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् ।
भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥ १७.२६॥
त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो ।
भूयासं जगतामीश एकः स्वच्छन्दचेष्टितः ॥ १७.२७॥
त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो ।
जायते शीतलस्वादु भवत्पूजामहासरः ॥ १७.२८॥
यथा त्वमेव जगतः पूजासम्भोगभाजनम् ।
तथेश भक्तिमानेव पूजासम्भोगभाजनम् ॥ १७.२९॥
कोऽप्यसौ जयति स्वामिन् भवत्पूजामहोत्सवः ।
षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् ॥ १७.३०॥
नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा ।
पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि ॥ १७.३१॥
पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम् ।
स्वात्मन्येव परे भक्ता मान्ति हर्षेण न क्वचित् ॥ १७.३२॥
राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे ।
सुधासवेन सकला जगती संविभज्यते ॥ १७.३३॥
पूजामृतापानमयो येषां भोगः प्रतिक्षणम् ।
किं देवा उत मुक्तास्ते किं वा केऽप्येव ते जनाः ॥ १७.३४॥
पूजोपकरणीभूतविश्ववेशेन गौरवम् ।
अहो किमपि भक्तानां किमप्येव च लाघवम् ॥ १७.३५॥
पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः ।
भक्तानां क्षीरजलधिक्षोभादिव दिवौकसाम् ॥ १७.३६॥
पूजां के चन मन्यन्ते धेनुं कामदुघामिव ।
सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे ॥ १७.३७॥
भक्तानामक्षविक्षेपोऽप्येष संसारसम्मतः ।
उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम् ॥ १७.३८॥
भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि ।
चित्रं दैन्याय नो यावद्दीनतायाः परं फलम् ॥ १७.३९॥
उपचारपदं पूजा केषां चित्त्वत्पदाप्तये ।
भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस्तु सः ॥ १७.४०॥
अप्यसम्बद्धरूपार्चाभक्त्युन्मादनिरर्गलैः ।
वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि ॥ १७.४१॥
स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम् ।
शम्भो त्वमेव ललितः पूजानां किल भाजनम् ॥ १७.४२॥
परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च ।
भवत्पूजाविधौ नाथ साधनानि भवन्तु मे ॥ १७.४३॥
अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो ।
अहो करणवृन्दस्य कापि लक्ष्मीर्विजृम्भते ॥ १७.४४॥
एषा पेशलिमा नाथ तवैव किल दृश्यते ।
विश्वेश्वरोऽपि भृत्यैर्यदर्च्यसे यश्च लभ्यसे ॥ १७.४५॥
सदामुर्त्तादमूर्त्ताद्वा भावाद्यद्वाप्यभावतः ।
उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः ॥ १७.४६॥
कामक्रोधाभिमानैस्त्वामुपहरीकृतैः सदा ।
येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽस्मि तत्त्वतः ॥ १७.४७॥
जयत्येष भवद्भक्तिभाजां पूजाविधिः परः ।
यस्तृणैः क्रियमानोऽपि रत्नैरेवोपकल्पते ॥ १७.४८॥
जगतोऽन्तरतो भवन्तमाप्त्वा पुनरेतद्भवतोऽन्तराल्लभन्ते ।
जगदीश तवैव भक्तिभाजो न हि तेषामिह दूरतोऽस्ति किञ्चित् ॥ १८.१॥
क्वचिदेव भवान् क्वचिद्भवानी सकलार्थक्रमगर्भिणी प्रधाना ।
परमार्थपदे तु नैव देव्या भवतो नापि जतत्त्रयस्य भेदः ॥ १८.२॥
नो जानते सुभगमप्यवलेपवन्तो लोकाः प्रयत्नसुभगा निखिल हि भावाः ।
चेतः पुनर्यदिदमुद्यतमप्यवैति नैवात्मरूपमिह हा तदहो हतोऽस्मि ॥ १८.३॥
भवन्मयस्वात्मनिवासलब्धसम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः ।
न भोजनाच्छादनमप्यजस्रमपेक्षते यस्तमहं नतोऽस्मि ॥ १८.४॥
सदा भवद्देहनिवासस्वस्थोऽप्यन्तः परं दह्यत एष लोकः ।
तवेच्छया तत्कुरु मे यथात्र त्वदर्चनानन्दमयो भवेयम् ॥ १८.५॥
स्वरसोदितयुष्मदङ्घ्रिपद्मद्वयपूजामृतपानसक्तचित्तः ।
सकार्थचयेष्वहं भवेयं सुखसंस्पर्शनमात्रलोकयात्रः ॥ १८.६॥
सकलव्यवहारगोचरे स्फुटमन्तः स्पुरति त्वयि प्रभो ।
उपयान्त्यपयान्ति चानिशं मम वस्तूनि विभान्तु सर्वदा ॥ १८.७॥
सततमेव तवैव पुरेऽथवाप्यरहितो विचरेयमहं त्वया ।
क्षणलवोऽप्यथ मा स्म भवेत्स मे न विजये ननु यत्र भवन्मयः ॥ १८.८॥
भवदङ्गपरिस्रवत्सुशीतामृतपूरैर्भरिते समन्ततोऽपि ।
भवदर्चनसम्पदेह भक्तास्तव संसारसरोऽन्तरे चरन्ति ॥ १८.९॥
महामन्त्रतरुच्छायाशीतले त्वन्महावने ।
निजात्मनि सदा नाथ वसेयं तव पूजकः ॥ १८.१०॥
प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा ।
मम नाथ तथा पुरः प्रथां व्रज नेत्रत्रयशूलशोभितः ॥ १८.११॥
अभिमानचरूपहारतो ममताभक्तिभरेण कल्पितात् ।
परितोषगतः कदा भवान्मम सर्वत्र भवेद्दृशः पदम् ॥ १८.१२॥
निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः ।
सकलं जनवृत्तमाचरेयं रसयन् सर्वत एव किञ्चनापि ॥ १८.१३॥
भवदीयमिहास्तु वस्तु तत्त्वं विवरीतुं क इवात्र पात्रमर्थे ।
इदमेव हि नामरूपचेष्टाद्यसमं ते हरते हरोऽसि यस्मात् ॥ १८.१४॥
शान्तये न सुखलिप्सुता मनाग्भक्तिसम्भृतमदेषु तैः प्रभोः ।
मोक्षमार्गणफलापि नार्थना स्मर्यते हृदयहारिणः पुरः ॥ १८.१५॥
जागरेतरदशाथवा परा यापि काचन मनागवस्थितेः ।
भक्तिभाजनजनस्य साखिला त्वत्सनाथमनसो महोत्सवः ॥ १८.१६॥
आमनोऽक्षवलयस्य वृत्तयः सर्वतः शिथिलवृत्तयोऽपि ताः ।
त्वामवाप्य दृढदीर्घसंविदो नाथ भक्तिधनसोष्मणां कथम् ॥ १८.१७॥
न च विभिन्नमसृज्यत किञ्चिदस्त्यथ सुखेतरदत्र न निर्मितम् ।
अथ च दुःखि च भेदि च सर्वथाप्यसमविस्मयधाम नमोऽस्तु ते ॥ १८.१८॥
खरनिषेधखदामृतपूरणोच्छलितधौतविकल्पमलस्य मे ।
दलितदुर्जयसंशयवैरिणस्त्वदवलोकनमस्तु निरन्तरम् ॥ १८.१९॥
स्फुटमविश मामथाविशेयं सततं नाथ भवन्तमस्मि यस्मात् ।
रभसेन वपुस्तवैव साक्षात्परमासत्तिगतः समर्चयेयम् ॥ १८.२०॥
त्वयि न स्तुतिशक्तिरस्ति कस्याप्यथवास्त्येव यतोऽतिसुन्दरोऽसि ।
सततं पुनरर्थितं ममैतद्यदविश्रान्ति विलोकयेयमीशम् ॥ १८.२१॥
प्रार्थनाभूमिकातीतविचित्रफलदायकः ।
जयत्यपूर्ववृत्तान्तः शिवः सत्कल्पपादपः ॥ १९.१॥
सर्ववस्तुनि च यैकनिधानात्स्वात्मनस्त्वदखिलं किल लभ्यम् ।
अस्य मे पुनरसौ निजा आत्मा न त्वमेव घटसे परमास्ताम् ॥ १९.२॥
ज्ञानकर्ममयचिद्वपुरात्मा सर्वथैष परमेश्वर एव ।
स्याद्वपुस्तु निखिलेषु पदार्थेष्वेषु नाम न भवेत्किमुतान्यत् ॥ १९.३॥
विषमार्तिमुषानेन फलेन त्वद्दृगात्मना ।
अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः ॥ १९.४॥
भवदमलचरणचिन्तारत्नलतालङ्कृता कदा सिद्धिः ।
सिद्धजनमानसानां विस्मयजननी घटेत मम भवतः ॥ १९.५॥
कर्हि नाथ विमलं मुखबिम्बं तावकं समवलोकयितास्मि ।
यत्स्रवत्यमृतपूरमपूर्वं यो निमज्जयति विश्वमशेषम् ॥ १९.६॥
ध्यातमात्रमुदितं तव रूपं कर्हि नाथ परमामृतपूरैः ।
पूरयेत्त्वदविभेदविमोक्षाख्यातिदूरविवराणि सदा मे ॥ १९.७॥
त्वदीयानुत्तररसासङ्गसन्त्यक्तचापलम् ।
नाद्यापि मे मनो नाथ कर्हि स्यादस्तु शीघ्रतः ॥ १९.८॥
मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा ।
तवोपहृत्य लब्धानि द्वन्द्वान्यप्यापतन्तु मे ॥ १९.९॥
नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः ।
यावत्कायमनस्तापतमोभिः परिलुप्यताम् ॥ १९.१०॥
देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः ।
परमार्थमुषो वश्या भूयासुर्गुणतस्कराः ॥ १९.११॥
त्वद्भक्तिसुधासारैर्मानसमापूर्यतां ममाशु विभो ।
यावदिमा उह्यन्तां निःशेषासारवासनाः प्लुत्वा ॥ १९.१२॥
मोक्षदशायां भक्तिस्त्वयि कुत इव मर्त्यधर्मिणोऽपि न सा ।
राजति ततोऽनुरूपामारोपय सिद्धिभूमिकामज माम् ॥ १९.१३॥
सिद्धिलवलाभलुब्धं मामवलेपेन मा विभो संस्थाः ।
क्षामस्त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः ॥ १९.१४॥
दासस्य मे प्रसीदतु भगवानेतावदेव ननु याचे ।
दाता त्रिभुवननाथो यस्य न तन्मादृशां दृशो विषयः ॥ १९.१५॥
त्वद्वपुःस्मृतिसुधारसपूर्णे मानसे तव पदाम्बुजयुग्मम् ।
मामके विकसदस्तु सदैव प्रस्रवन्मधु किमप्यतिलोकम् ॥ १९.१६॥
अस्ति मे प्रभुरसौ जनकोऽथ त्र्यम्बकोऽथ जननी च भवानी ।
न द्वितीय इह कोऽपि ममास्तीत्येव निर्वृततमो विचरेयम् ॥ १९.१७॥
नथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम् ।
उपवीतीकृतभोगिनमिन्दुकलाशेखरं वन्दे ॥ २०.१॥
नौमि निजतनुविनिस्मरदंशुकपरिवेषधवलपरिधानम् ।
विलसत्कपालमालाकल्पितनृत्तोत्सवाकल्पम् ॥ २०.२॥
वन्दे तान् दैवतं येषां हरश्चेष्टा हरोचिताः ।
हरैकप्रवणाः प्राणाः सदा सौभाग्यसद्मनाम् ॥ २०.३॥
क्रीडितं तव महेश्वरतायाः पृष्ठतोऽन्यदिदमेव यथैतत् ।
इष्टमात्रघटितेष्ववदानेष्वात्मना परमुपायमुपैमि ॥ २०.४॥
त्वद्धाम्नि विश्ववन्द्येऽस्मिन्नियति क्रीडने सति ।
तव नाथ कियान् भूयान्नानन्दरससम्भवः ॥ २०.५॥
कथं स सुभगो मा भूद्यो गौर्या वल्लभो हरः ।
हरोऽपि मा भूदथ किं गौर्याः परमवल्लभः ॥ २०.६॥
ध्यानामृतमयं यस्य स्वात्ममूलमनश्वरम् ।
संविल्लतास्तथारूपास्तस्य कस्यापि सत्तरोः ॥ २०.७॥
भक्तिकण्डूसमुल्लासावसरे परमेश्वर ।
महानिकषपाषाणस्थूणा पूजैव जायते ॥ २०.८॥
सदा स्र्ष्टिविनोदाय सदा स्थितिसुखासिने ।
सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥ २०.९॥
न क्वापि गत्वा हित्वापि न किञ्चिदिदमेव ये ।
भव्यं त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ॥ २०.१०॥
भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् ।
एतया वा दरिद्रणां किमन्यदुपयाचितम् ॥ २०.११॥
दुःखान्यपि सुखायन्ते विषमप्यमृतायते ।
मोक्षायते च संसारो यत्र मार्गः स शङ्करः ॥ २०.१२॥
मूले मध्येऽवसाने च नास्ति दुःखं भवज्जुषाम् ।
तथापि वयमीशान सीदामः कथमुच्यताम् ॥ २०.१३॥
ज्ञानयोगादिनान्येषामप्यपेक्षितुमर्हति ।
प्रकाशः स्वैरिणामिव भवान् भक्तिमतां प्रभो ॥ २०.१४॥
भक्तानां नार्तयो नाप्यस्त्याध्यानं स्वात्मनस्तव ।
तथाप्यस्ति शिवेत्येतत्किमप्येषां बहिर्मुखे ॥ २०.१५॥
सर्वाभासावभासो यो विमर्शवलितोऽखिलम् ।
अहमेतदिति स्तौमि तां क्रियाशक्तिमीश ते ॥ २०.१६॥
वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः ।
ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम् ॥ २०.१७॥
सतो विनाशसम्बन्धान्मत्परं निखिलं मृषा ।
एवमेवोद्यते नाथ त्वया संहारलीलया ॥ २०.१८॥
ध्यातमात्मुपतिष्ठत एव त्वद्वपुर्वरद भक्तिधनानाम् ।
अप्यचिन्त्यमखिलाद्भुतचिन्ताकर्तृतां प्रति च ते विजयन्ते ॥ २०.१९॥
तावकभक्तिरसासवसेकादिव सुखितमर्ममण्डलस्फुरितैः ।
नृत्यति वीरजनो निशि वेतालकुलैः कृतोत्साहः ॥ २०.२०॥
आरब्धा भवदभिनुतिरमुना येनाङ्गकेन मम शम्भो ।
तेनापर्यन्तमिमं कालं दृढमखिलमेव भविषीष्ट ॥ २०.२१॥
इति उत्पलदेवविरचिता शिवस्तोत्रावलिः ।