logo

|

Home >

Scripture >

scripture >

Sanskrit

शिवसङ्कल्प - Shiva Sankalpam

ॐ येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्वम्᳚ ।
येन॑ य॒ज्ञस्त्रा॑यते स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १॥

येन॒ कर्मा॑णि प्र॒चर॑न्ति॒ धीरा॒ यतो॑ वा॒चा मन॑सा॒ चारु॒यन्ति॑ ।
यत्सम्मि॑तम॒नु संय॑न्ति प्रा॒णिन॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २॥ 

येन॒ कर्मा᳚ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॑ण्वन्ति वि॒दथे॑षु॒ धीराः᳚ ।
यद॑पू॒र्वं यक्ष॒मन्तः॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३॥

यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।
यस्मा॒न्न ऋ॒ते किञ्च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ४॥

सुषा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या᳚न्नेनी॒यते॑ऽभी॑शुभि॑र्वा॒जिन॑ इव । 
हृत्प्रति॒ष्ठं॒ य॒दजि॑रं॒ जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ५॥ 

यस्मि॒न्नृचः॒साम॒यजूꣳ॑षि॒ यस्मि॑न् प्रति॒ष्ठिता र॑थ॒नाभा॑वि॒वाराः᳚ । 
यस्मिꣳ॑श्चि॒त्तꣳ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ६॥

यदत्र॑ ष॒ष्ठं त्रि॒शतꣳ॑ सु॒वीरं॑ य॒ज्ञस्य॒ गु॒ह्यं नव॑नाव॒माय्यम्᳚ । 
दश॑ पञ्च त्रि॒ꣳशतं॒ यत्प॑रं॒ च तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ७॥

यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु सु॒प्तस्य॑ तथै॒वैति॑ । 
दूर॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ८॥

येन॒ द्यौः पृ॑थि॒वी चा॒न्तरि॑क्षं च॒ ये पर्व॑ताः प्र॒दिशो॒ दिश॑श्च ।
येने॒दं जग॒द्व्याप्तं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ९॥

येने॒दं विश्वं॒ जग॑तो ब॒भूव॑ ये दे॒वापि॑ मह॒तो जा॒तवे॑दाः ।
तदे॒वाग्निस्तम॑सो ज्योति॑रे॒कं तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १०॥ 

ये म॑नो॒ हृद॑यं॒ ये च॑ दे॒वा ये दि॒व्या आपो॒ ये सू᳚र्यर॒श्मिः ।
ते श्रोत्रे॒ चक्षु॑षी स॒ञ्चर॑न्तं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ११॥

अचि॑न्त्यं॒ चाप्र॑मेयं॒ च॒ व्य॒क्ता॒व्यक्त॑परं॒ च य॑त ।
सूक्ष्मा᳚त्सू॒क्ष्मत॑रं ज्ञे॒यं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १२॥

एका॑ च द॒श श॒तं च॑ स॒हस्रं॑ चा॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं च॒ ।
स॒मुद्र॑श्च म॒ध्यं चा᳚न्तश्च प॒रार्ध॑श्च तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १३॥

ये प॑ञ्च प॒ञ्चद॒श श॒तꣳ॑ स॒हस्र॑म॒युतं॒ न्य॑र्बुदं च ।
तेऽ॑ग्निचि॒त्येष्ट॑का॒स्तꣳ शरी॑रं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १४॥ 

वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
यस्य॒ योनिं॒ परि॒पश्य॑न्ति॒ धीरा॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १५॥

यस्ये॒दं धीराः᳚ पु॒नन्ति॑ क॒वयो᳚ ब्र॒ह्माण॑मे॒तं त्वा॑ वृणुत॒मिन्दुम्᳚ । 
स्था॒व॒रं जङ्ग॑मं॒ द्यौरा॑का॒शं तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १६॥

परा᳚त्प॒रत॑रं चै॒व॒ यत्॒परा᳚च्चैव॒ यत्प॑रम् । 
य॒त्परा॒त्पर॑तो ज्ञे॒यं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १७॥

परा᳚त्प॒रत॑रो ब्र॒ह्मा॒ त॒त्परा᳚त्पर॒तो हरिः॑ । 
तत्परा॒त्पर॑तोऽधी॒श॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १८॥ 

या वेदादिषु॑ गाय॒त्री स॒र्वव्या॑पी म॒हेश्व॑री ।
ऋग्यजुस्सामा॑थर्वै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १९॥

यो वै॑ दे॒वं म॑हादे॒वं॒ प्र॒यतः॑ पुरु॒षोत्त॑मम् । 
यः सर्वे॑ सर्व॑वेदै॒श्च तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २०॥

प्रय॑तः प्रण॑वोङ्का॒रं॒ प्र॒णवं॑ पुरु॒षोत्त॑मम् ।
ओङ्कारं प्रण॑वात्मा॒नं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २१॥

योऽसौ॑ स॒र्वेषु॑ वेदे॒षु पठ्यते᳚ ह्यज ईश्व॑रः ।
अ॒का॒यो निर्गु॑णो ह्या॒त्मा॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २२॥

गोभि॒र्जुष्टं॒ धने॑न॒ ह्यायु॑षा च॒ बले॑न च ।
प्र॒जया॑ प॒शुभिः॑ पुष्करा॒क्षं तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २३॥

त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒त्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २४॥

कैला॑स॒शिख॑रे र॒म्ये॒ श॒ङ्कर॑स्य शि॒वाल॑ये ।
दे॒वता᳚स्तत्र॑ मोद॒न्ति॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २५॥

कैला॑स॒शिख॑रावा॒सा हि॒मव॑द्गिरि॒ संस्थि॑तम् ।
नी॒ल॒क॒ण्ठं त्रि॑नेत्रं॒ च॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ २६॥

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्यां॒ नम॑ति॒ सम्पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न् दे॒व एक॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २७॥

च॒तुरो॑ वे॒दान॑धीयी॒त॒ स॒र्वशा᳚स्त्रम॒यं विदुः॑ ।
इ॒ति॒हा॒सपु॑राणा॒नां तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ २८॥

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मानो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मान॑स्त॒नुवो॑ रुद्र रीरिष॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २९॥

मान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेमते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३०॥

ऋ॒त॒ꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नम॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३१॥

कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से ।
वो॒चेम॒ शन्त॑मꣳ हृ॒दे । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३२॥

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विव॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३३॥

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३४॥

य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्वे॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३५॥

यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ ।
तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३६॥

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ꣳ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३७॥

नमकं चम॑कं चै॒व॒ पु॒रुषसू᳚᳚क्तं च॒ यद्वि॑दुः ।
म॒हा॒दे॒वं च॑ तत्तु॒ल्यं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ ३८॥

य इदꣳ शिव॑सङ्क॒ल्प॒ꣳ स॒दा ध्या॑यन्ति॒ ब्राह्म॑णाः ।
ते परं॑ मोक्षं ग॑मिष्य॒न्ति॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३९॥

इति शिवसङ्कल्प समाप्ता ।

Related Content

रुद्राष्टकम् - Rudrashtakam

श्रीवरुणकृतं श्रीमद् हालास्याष्टकम् - Halasya Stuti Varuna K

रुद्राष्टकम् - Rudrashtakam