सन्तः पुत्राः सुहृद उत वा सत्कलत्रं सुगेहं
वित्ताधीशप्रतिमवसुमान् बोभवीतु प्रकामम् ।
कीर्तिच्छटा वा आशास्वास्ताममृतकिरणस्पर्धि
सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ १॥
वादे सर्वानपि विजयतां सत्सभायां नृपाग्रे
भोगान्सत्त्वाननुभवतु वा दैवतैरप्यलभ्यान् ।
भूमौ नीरे वियति चरितुं वर्ततां योगशक्तिः
सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ २॥
रूपं वाऽऽस्तां कुसुमविशिखाखर्वगर्वापहारि
शौर्यं वास्ताममरपतिसङ्क्षोभदक्षं नितान्तम् ।
पृथ्वीपालप्रवरमकुटाघट्टनं स्यात्पदे वा
सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ३॥
गेहे सन्तु प्रवरभिषजः सर्वरोगापनोदाः
देशे देशे बहुधनयुता बन्धवः सन्तु कामम् ।
सर्वे लोका अपि वचनतो दासवत्कर्म कुर्युः
सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ४॥
अध्यास्तां वा सुमणिखचितं दिव्यपारीण पीठं (दिव्यपारीन्द्र)
हस्त्यश्वाद्यैरपि परिवृतो द्वारदेशोऽस्तु कामम् ।
भूष्यन्तां वाऽऽभरणनिवहैरङ्गकान्यर्घशून्यैः
सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ५॥
धत्तां मूर्ध्नि प्रवरमणिभिर्जुष्टदीव्यत्किरीटं
वस्तां देहं विविधवसनैर्हेमसूत्रावबद्धैः ।
आरुह्यासौ विचरतु भुवं तिर्यगान्दोलिकां वा
सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ६॥
सर्वशान्तप्रकटितरवैर्बन्दिभिः स्तूयतां वा
भेरीढक्काप्रमुखबिरुदं दिक्षु दंध्वन्यतां वा ।
पृथ्वीं सर्वामवतु रिपुभिः क्रान्तपादाग्रपीठः
सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ७॥
हृद्यां पद्यावलिमपि करोत्वर्थचित्रं सुकव्यं
षट्छास्त्रेष्वप्यमितधिषणो ग्रन्थसन्दोहकर्ता ।
सर्वेषां स्यादमितहृदयानन्ददो वाङ्मुखैर्वा
सर्वं व्यर्थं मरणसमये साम्ब एकः सहायः ॥ ८॥
इति श्रीसाम्बाष्टकम् सम्पूर्णम् ।